२६५ विनायकस्नानं

{अथ पञ्चषष्ट्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

विनायकस्नानं

पुष्कर उवाच
विनायकोपसृष्टानां स्नानं सर्वकरं वदे ।
विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः ॥००१॥

मूलम्

गणानामाधिपत्ये च केशवेशपितामहैः ।
स्वप्नेवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति ॥००२॥

[[४६९]]

विश्वास-प्रस्तुतिः

विनायकोपसृष्टस्तु क्रव्यादानधिरोहति ।
व्रजमानस् तथात्मानं मन्यते ऽनुगतम्परैः ॥००३॥

विमना विफलारम्भः संसीदत्यनिमित्ततः ।
कन्या वरं न चाप्नोति न चापत्यं वराङ्गना ॥००४॥

आचार्यत्वं श्रोत्रियश् च न शिष्यो ऽध्ययनं लभेत् ।
धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः ॥००५॥

राजा राज्यं न चाप्नोति स्नपनन्तस्य कारयेत् ।
हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके1 ॥००६॥

गौरसर्षपकल्केन साज्येनोत्सादितस्य च2
सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस् तथा ॥००७॥

चतुर्भिः कलसैः स्नानन्तेषु सर्वौषाधौ क्षिपेत् ।
अश्वस्थानाद्गजस्थानाद्वल्मीकात् सङ्गमाद्ध्रदात् ॥००८॥

मृत्तिकां रोचनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् ।
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ॥००९॥

तेन त्वामभिषिञ्चामि पावमान्यः3 पुनन्तु ते ।
भगवन्ते वरुणो राजा भगं सूर्यो वृहस्पतिः ॥०१०॥

भगमिन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ।
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ॥०११॥

ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ।
दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः ॥०१२॥

:न्

[[४७०]]

विश्वास-प्रस्तुतिः

स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च ।
जुहुयान्मूर्धनि कुशान् सव्येन परिगृह्य च ॥०१३॥

मितश् च सम्मितश् चैव तथा शालककण्टकौ ।
कुष्माण्डो राजपुत्रश् च एतैः स्वाहासमन्वितैः ॥०१४॥

नामभिर्बलिमन्त्रैश् च नमस्कारसमन्वितैः1
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥०१५॥

कृताकृतांस्तण्डुलांश् च पललौदनमेव च ।
मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा ॥०१६॥

मूलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः ।
दध्यन्नं पायसं पिष्टं मोदकं गुडमर्पयेत् ॥०१७॥

विनायकस्य जननीमुपतिष्ठेत्ततो ऽम्बिकां ।
दूर्वासर्षपपुष्पाणां दत्वार्घ्यं पूर्णमञ्जलिं ॥०१८॥

रूपं देहि यशो देहि सौभाग्यं सुभगे मम ।
पुत्रं देहि धनं देहि सर्वान् कामांश् च देहि मे ॥०१९॥

भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि ।
विनायकं ग्रहान्प्रार्च्य श्रियं कर्मफलं लभेत् ॥०२०॥

{इत्य् आग्नेये महापुराणे विनायकस्नानं नाम पञ्चषष्ट्यधिकद्विशततमो ऽध्यायः ॥ }

:न्

[[४७१]]

  1. हस्तपुष्याश्वयुक्सौम्यवैष्णवेषु शुभेषु चेति घ॥ , ञ॥
    च ↩︎ ↩︎ ↩︎ ↩︎

  2. साज्येनासादितस्य चेति क॥ , छ॥ च ↩︎ ↩︎

  3. इमा आप इति छ॥ , ञ॥ ↩︎ ↩︎