२६४ दिक्पालादिस्नानं

{अथ चतुःषष्ठ्यधिअकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

दिक्पालादिस्नानं

अग्निर् उवाच
सर्वार्थसाधनं स्नानं वक्ष्ये शान्तिकरं शृणु ।
स्नापयेच्च सरित्तीरे ग्रहान् विष्णुं विचक्षणः ॥००१॥

मूलम्

:न्

[[४६७]]

विश्वास-प्रस्तुतिः

देवालये ज्वरार्त्यादौ विनायकग्रहार्दिते ।
विद्यार्थिनो ह्रदे गेहे जयकामस्य तीर्थके ॥००२॥

पद्मिन्यां स्नापयेन्नारीं गर्भो यस्याः स्रवेत्तथा ।
अशोकसन्निधौ स्नायाज्जातो यस्या विनश्यति ॥००३॥

पुष्पार्थिनाञ्च पुष्पाढ्ये पुत्रार्थिनाञ्च सागरे ।
गृहसौभाग्यकामानां सर्वेषां विष्णुसन्निधौ ॥००४॥

वैष्णवे रेवतीपुष्ये सर्वेषां स्नानमुत्तमं ।
स्नानकामस्य सप्ताहम्पूर्वमुत्सादनं स्मृतं ॥००५॥

पुनर् नवां रोचनाञ्च शताङ्गं गुरुणी त्वचं ।
मधूकं रजनी द्वे च तगरन्नागकेशरम् ॥००६॥

अम्बरीञ्चैव मञ्जिष्ठां मांसीयासकमर्दनैः ।
प्रियङ्गुसर्षपं कुष्ठम्बलाम्ब्राह्मीञ्च कुङ्कुमं ॥००७॥

पञ्चगव्यं शक्तुमिश्रं उद्वर्त्य स्नानमाचरेत् ।
मण्डले कर्णिकायाञ्च विष्णुं ब्राह्मणमर्चयेत् ॥००८॥

दक्षे वामे हरं पूर्वं पत्रे पूर्वादिके क्रमात् ।
लिखेदिन्द्रादिकान्देवान् सायुधान् सहबान्धवान्1 ॥००९॥

स्नानमण्डलकान् दिक्षु कुर्याच्चैव विदिक्षु च ।
विष्णुब्रह्मेशशक्रादींस्तदस्त्राण्यर्च्य होमयेत् ॥०१०॥

एकैकस्य त्वष्टशतं समिधस्तु तिलान् धृतं ।
भद्रः सुभद्रः सिद्धार्थः कलसाः पुष्टिवर्धनाः ॥०११॥

अमोघश्चित्रभानुश् च पर्जन्यो ऽथ सुदर्शनः ।
स्थापयेत्तु वटानेनान् साश्विरुद्रमरुद्गणान् ॥०१२॥

[[४६८]]

विश्वास-प्रस्तुतिः

विश्वे देवस् तथा दैत्या वसवो मुनयस् तथा ।
आवेशयन्तु सुप्रीतास् तथान्या अपि देवताः ॥०१३॥

ओषधीर् निक्षिपेत् कुम्भे जयन्तीं विजयां जयां ।
शतावरीं शतपुष्पां विष्णुक्रान्तापराजिताम् ॥०१४॥

ज्योतिष्मतीमतिबलाञ्चन्दनोशीरकेशरं ।
कस्तूरिकाञ्च कर्पूरं बालकं पत्रकं त्वचं ॥०१५॥

जातीफलं लवङ्गञ्च मृत्तिकां पञ्चगव्यकं ।
भद्रपीठे स्थितं साध्यं स्नापयेयुर्द्विजा बलात् ॥०१६॥

राजाभिषेकमन्त्रोक्तदेवानां होमकाः पृथक् ।
पूर्णाहुतिन्ततो दत्वा गुरवे दक्षिणां ददेत् ॥०१७॥

इन्द्रो ऽभिषिक्तो गुरुणा पुरा दैत्यान् जघान ह ।
दिक्पालस्नानङ्कथितं सङ्ग्रामादौ जयादिकं ॥०१८॥

{इत्य् आग्नेये महापुराणे दिक्पालादिस्नानं नाम चतुःषष्ठ्यधिकद्विशततमो ऽध्यायः ॥ }

  1. सौरभेया इति क॥ , घ॥ , छ॥ , ञ॥ च ↩︎ ↩︎