{अथ त्रिषष्ट्यधिकद्विशततमो ऽध्यायः }
विश्वास-प्रस्तुतिः
देवपूजावैश्वदेवबलिः
पुष्कर उवाच
देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् ।
आपोहिष्टेति तिसृभिः स्नातो ऽर्घ्यं विओष्णवेर्पयेत् ॥००१॥
मूलम्

हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज ।
शन्न आपो ह्य् आचमनमिदमापो ऽभिषेचनं ॥००२॥

रथे अक्षे च तिसृभिर्गन्धं युवेति1 वस्त्रकं ।
पुष्पं पुष्पवतीत्येवं धूपन्धूपोसि चाप्यथ ॥००३॥

तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च ।
हिरण्यगर्भ इत्य् अष्टावृचः प्रोक्ता निवेदने ॥००४॥

अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ।
चामरव्यजनोपानच्छत्रं यानासने तथा ॥००५॥

:न्
[[४६४]]
विश्वास-प्रस्तुतिः
यत् किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् ।
पौरुषन्तु जपेत् सूक्तं तदेव जुहुयात्तथा ॥००६॥

अर्चाभवे तथा वेद्याञ्जले पूर्णघते तथा ।
नदीतीरे ऽथ कमले शान्तिः स्याद्विष्णुपूजनात् ॥००७॥

ततो होमः प्रकर्तव्यो दीप्यमाने विभावसौ ।
परिसम्मृज्य पर्युक्ष्य परिस्तीर्य परिस्तरैः ॥००८॥

सर्वान्नाग्रं समुद्धृत्य जुहुयात् प्रयतस्ततः ।
वासुदेवाय देवाय प्रभवे चाव्ययाय च ॥००९॥

अग्नये चैव सोमाय मित्राय वरुणाय च ।
इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥०१०॥

विश्वेभ्यश् चैव देवेभ्यः प्रजानां पतये नमः ।
अनुमत्यै तथा राम धन्वन्तरय एव च ॥०११॥

वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृते ऽग्नये ।
सचतुर्थ्यन्तनाम्ना1 तु हुत्वैतेभ्यो बलिं हरेत् ॥०१२॥

तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् ।
अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ ॥०१३॥

निरुन्धी धूम्रिणीका च अस्वपन्ती2 तथैव च ।
मेघपत्नी3 च नामानि सर्वेषामेव भार्गव ॥०१४॥
विश्वास-प्रस्तुतिः
आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् ।
नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव ॥०१५॥

[[४६५]]
विश्वास-प्रस्तुतिः
भद्रकाल्यै ततो दत्वा स्थूणायाञ्च तथा श्रिये ।
हिरण्यकेश्यै च तथा वनस्पतय एव च ॥०१६॥

धर्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च ।
मृत्यवे च वहिर्दद्याद्वरुणायोदकाशये ॥०१७॥

भूतेभ्यश् च बहिर्दद्याच्छरणे धनदाय च ।
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः ॥०१८॥

यमाय तत्पुरुषेभ्यो दद्याद्दक्षिणतस् तथा ।
वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस् तथा ॥०१९॥

सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं ।
ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ॥०२०॥

आकाशे च तथा चोर्ध्वे स्थण्डिलाय क्षितौ तथा ।
दिवा दिवाचरेभ्यश् च रात्रौ रात्रिचरेषु च ॥०२१॥

बलिं वहिस् तथा दद्यात्सायं प्रातस्तु प्रत्यहं ।
पिण्डनिर्वपणं कुर्यात् प्रातः सायन्न कारयेत् ॥०२२॥

पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् ।
प्रपितामहाय तन्मात्रे पितृमात्रे ततो ऽर्पयेत् ॥०२३॥

तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यजेत् पितॄन् ।
इन्द्रवारुणवायव्या याम्या वा नैरृताय ये ॥०२४॥

ते काकाः पितृगृहन्तु इमं पिण्डं मयोद्वृतम् ।
काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत् ॥०२५॥

विवस्वतः कुले जातौ द्वौ श्यावशबलौ1 शुनौ ।
तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा ॥०२६॥

[[४६६]]
विश्वास-प्रस्तुतिः
सौरभेय्यः1 सर्वहिताः पवित्राः पापनाशनाः2 ।
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥०२७॥
विश्वास-प्रस्तुतिः
ग्रोग्रासञ्च स्वस्त्ययनं कृत्वा भिक्षां प्रदापयेत् ।
अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं ॥०२८॥

ॐ भूः स्वाहा ॐ भूवः स्वाहा ॐ स्वः स्वाहा ॐ
भूर्भुवः स्वः स्वाहा
ॐ देवकृतस्यैनसो ऽवयजनमसि स्वाहा ॐ पितृकृतस्यैनसो
ऽवयजनमसि स्वाहा ॐ आत्मकृतस्यैनसो ऽवयजनमसि स्वाहा ॐ
विश्वास-प्रस्तुतिः
मनुष्यकृतस्यैनसो ऽवयजनमसि स्वाहा ॐ एनस एनसो ऽवयजनमसि
स्वाहा । यच्चाहमेनो विद्वांश् चकार यच्चविद्वांस्तस्य सर्वस्यैनसो
ऽवयजनमसि स्वाहा अग्नये स्विष्टिकृते स्वाहा ॐ प्रजापतये स्वाहा ॥
विष्णुपूजावैश्वदेवबलिस्ते कीर्तितो मया ॥२९॥

{इत्य् आग्नेये महापुराणे देवपूजावैश्वदेवबलिर्नाम त्रिषष्ट्यधिकद्विशततमो ऽध्यायः ॥ }