{अथ द्विषष्ठ्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
उत्पातशान्तिः
पुष्कर उवाच
श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्धनं ।
हिरण्यवर्णा हरिणीमृचः पञ्चदश श्रियः ॥००१॥
मूलम्

रथेष्वक्षेषु वाजेति चतस्रो यजुषि श्रियः ।
स्रावन्तीयं तथा साम श्रीसूक्तं सामवेदके ॥००२॥

श्रियं धातर्मयि धेहि प्राक्तमाथर्वणे तथा ।
श्रीसूक्तं यो जपेद्भक्त्या हुत्वा श्रीस्तस्य वै भवेत् ॥००३॥

पद्मानि चाथ विल्वानि हुत्वाज्यं वा तिलान् श्रियः ।
एकन्तु पौरुषं सूक्तं प्रतिवेदन्तु सर्वदं ॥००४॥

सूक्तेन द्दद्यान्निष्पापो ह्य् एकैकया1 जलाञ्जलिं ।
स्नात एकैकया पुष्पं विष्णोर्दत्वाघहा भवेत् ॥००५॥

स्नात एकैकया दत्वा फलं स्यात् सर्वकामभाक् ।
महापापोपपान्तो भवेज्जप्त्वा तु पौरुषं ॥००६॥

कृच्छ्रैर् विशुद्धो जप्त्वा च हुत्वा स्नात्वाथ सर्वभाक् ।
अष्टादशभ्यः शान्तिभ्यस्तिस्रो ऽन्याः शान्तयो वराः ॥००७॥

अमृता चाभयवा सौम्या सर्वोत्पातविमर्दनाः ।
अमृता सर्वदवत्या अभया ब्रह्मदैवता ॥००८॥

:न्
[[४६१]]
विश्वास-प्रस्तुतिः
अभयाया मणिः कार्यो वरुणस्य भृगूत्तम ॥००९॥

शतकाण्डो ऽमृतायाश् च सौम्यायाः शङ्कजो मणिः ।
तद्दैवत्यास् तथा मन्त्राः सिद्धौ1 स्यान्मणिबन्धनं ॥०१०॥

दिव्यान्तरीक्षभौमादिसमुत्पातार्दना इमाः ।
दिव्यान्तरीक्षभौमन्तु अद्भुतं त्रिविधं शृणु ॥०११॥

ग्रहर्क्षवैकृतं दिव्यमान्तरीक्षन्निबोध मे ।
उल्कापातश् च दिग्दाहः परिवेशस्तथैव च ॥०१२॥

गन्धर्वनगरञ्चैव वृष्टिश् च विकृता च या ।
चरस्थिरभवं भूमौ भूकम्पमपि भूमिजं ॥०१३॥

सप्ताहाभ्यनतरे वृष्टावद्भुतं भयकृद्भवेत् ।
शान्तिं विना त्रिभिर्वषैर् अद्भुतं भयकृद्भवेत् ॥०१४॥

देवतार्चाः2 प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।
आरठन्ति3 च रोदन्ति प्रस्विद्यन्ते हसन्ति च ॥०१५॥

अर्चाविकारोपशमो ऽभ्यर्च्य हुत्वा प्रजापतेः ।
अनग्निर्दीप्यते यत्र राष्ट्रे च भृशनिस्वनं ॥०१६॥

न दीप्यते चेन्धनवांस्तद्राष्ट्रं पाड्यते नृपैः ।
अग्निवैकृत्यशमनमग्निमन्त्रैश् च भार्गव ॥०१७॥

अकाले फलिता वृक्षाः क्षीरं रक्तं स्रवन्ति च ।
वृक्षोत्पातप्रशमनं शिवं पूज्य च कारयेत् ॥०१८॥

[[४६२]]
विश्वास-प्रस्तुतिः
अनृतौ त्रिदिनारब्धवृष्टिर्ज्ञेया भयाय हि ॥०१९॥

वृष्टिवैकृत्यनाशः स्यात्पर्जण्येन्द्वर्कपूजनात् ।
नगरादपसर्पन्ते समीपमुपयान्ति च ॥०२०॥

नद्यो ह्रदप्रश्रवणा विरसाश् च भवन्ति च ।
शलिलाशयवैकृत्ये जप्तव्यो वारुणो मनुः ॥०२१॥

अकालप्रसवा नार्यः कालतो वाप्रजास् तथा ।
विकृतप्रसवाश् चैव युग्मप्रसवनादिकं ॥०२२॥

स्त्रीणां प्रसववैकृत्ये स्त्रीविप्रादिं प्रपूजयेत् ।
वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते ॥०२३॥

विजात्यं विकृतं वापि षड्भिर्मासैर् म्रियेत वै ।
विकृतं वा प्रसूयन्ते परचक्रभयं भवेत् ॥०२४॥

होमः प्रसूतिवैकृत्ये जपो विप्रादिपूजनं ।
यानि यानान्ययुक्तानि युक्तानि न वहन्ति च ॥०२५॥

आकाशे तूर्यनादाश् च महद्भयमुपस्थितं ।
प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः ॥०२६॥

अरण्यं यान्ति वा ग्राम्याः जलं यान्ति स्थलोद्भवाः ।
स्थलं वा जलजा यान्ति राजद्वारादिके शिवाः ॥०२७॥

प्रदोषे कुक्कुटो वासे शिवा चार्कोदये भवेत् ।
गृहङ्कपोतः प्रविशेत् क्रव्याहा मूर्ध्नि लीयते ॥०२८॥

मधुरां मक्षिकां कुर्यात् काको मैथुनगो दृशि ।
प्रासादतोरणोद्यानद्वारप्राकारवेश्मनां ॥०२९॥

अनिमित्तन्तु पतनं दृढानां राजमृत्यवे ।
रजसा वाथ धूमेन दिशो यत्र समाकुलाः ॥०३०॥
मूलम्
अनिमित्तन्तु पतनं दृढानां राजमृत्यवे ।
रजसा वाथ धूमेन दिशो यत्र समाकुलाः ॥०३०॥
[[४६३]]
विश्वास-प्रस्तुतिः
केतूदयोपरागौ च छिद्रता शशिसूर्ययोः ।
ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत् ॥०३१॥

अग्निर्यत्र म दीप्येत स्रवन्ते चोदकम्भकाः ।
मृतिर्भयं शून्यतादिरुत्पातानां फलम्भवेत् ॥०३२॥

द्विजदेवादिपूजाभ्यः शान्तिर्जप्यैस्तु होमतः ॥३३॥

{इत्य् आग्नेये महापुराणे उत्पातशान्तिर्नाम द्विषष्ट्यधिकद्विशततमो ऽध्यायः ॥ }