२६१ अथर्वविधानं

{अथैकषष्ठ्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अथर्वविधानं

पुष्कर उवाच
साम्नां विधानं कथितं वक्ष्ये चाथर्वणामथ ।
शान्तातीयं गणं हुत्वा शान्तिमाप्नोति मानवः ॥००१॥

मूलम्

भैषज्यञ्च गणं हुत्वा सर्वान्रोगान् व्यापोहति ।
त्रिसप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ॥००२॥

क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयङ्गणं ।
न क्वचिज्जायते राम गणं हुत्वा पराजितं ॥००३॥

आयुष्यञ्च गणं हुत्वा अपमृत्युं व्यपोहति ।
स्वस्तिमाप्नोति सर्वत्र हुत्वा स्वस्त्ययनङ्गणं ॥००४॥

श्रेयसा योगमाप्नोति शर्मवर्मगणन्तथा ।
वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति ॥००५॥

तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति ।
एतैर् दशगुणैर् होमी ह्य् अष्टादशसु शान्तिषु ॥००६॥

[[४५८]]

विश्वास-प्रस्तुतिः

वैष्णवी शान्तिरैन्द्री च ब्राह्मी रौद्री तथैव च ।
वायव्या वारुणी चैव कौवेरी भार्गवी तथा ॥००७॥

प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ।
मारुद्गणा च गान्धारी शान्तैर् नैरृतकी तथा ॥००८॥

शान्तिराङ्गिरसी याम्या पार्थिवी सर्वकामदा ।
यस्त्वां मृत्युरिति ह्य् एतज्जप्तं मृत्युविनाशनं ॥००९॥

सुपर्णस्त्वेति हुत्वा च भुजगैर् नैव बाध्यते ।
इन्द्रेण दत्तमित्येतत् सर्वकामकरम्भवेत् ॥०१०॥

इन्द्रेण दत्तमित्येतत् सर्वबाधाविनाशनं ।
इमा देवीति मन्त्रश् च सर्वशान्तिकरः परः ॥०११॥

देवा मरुत इत्य् एतत् सर्वकामकरम्भवेत् ।
यमस्य लोकादित्येतत् दुःस्वप्नशमनम्परं ॥०१२॥

इन्द्रश् च पञ्चबणिजेति1 हुतं स्त्रीणां सौभाग्यवर्धनं ।
कामो मे वाजीति हुतं स्त्रीणां सौभाग्यवर्धनं ॥०१३॥

तुभ्यमेव जवीमन्नित्ययुतन्तु हुतम्भवेत् ।
अग्ने गोभिन्न इत्य् एतत्2 मेधावृद्धिकरम्परं ॥०१४॥

ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ।
अलक्तजीवेति शुना कृषिलाभकरं भवेत् ॥०१५॥

अहन्ते भग्न इत्य् एतत् भवेत्सौभाग्यवर्धनं ।
ये मे पाशस् तथाप्येतत् बन्धनाम्नोक्षकारणं ॥०१६॥

शपन्त्वहन्निति रिपून् नाशयेद्धोमजाप्यतः ।

:न्

[[४५९]]

विश्वास-प्रस्तुतिः

त्वमुत्तममितीत्येतद्यशोबुद्धिविवर्धनं ॥०१७॥

यथा मृगमतीत्येतत् स्त्रीणां सौभाग्यवर्धनं ।
येन चेहदिदञ्चैव गर्भलाभकरं भवेत् ॥०१८॥

अयन्ते योनिरित्येतत् पुत्रलाभकरं भवेत् ।
शिवः शिवाभिरित्येतत् भवेत्सौभाग्यवर्धनं1 ॥०१९॥

वृहस्पतिर् नः परिपातु पथि स्वस्त्ययनं भवेत् ।
मुञ्चामि त्वेति कथितमपमृत्युनिवारणं ॥०२०॥

अथर्वशिरसो ऽध्येता सर्वपापैः प्रमुच्यते ।
प्राधान्येन तु मन्त्राणां किञ्चित् कर्म तवेरितं ॥०२१॥

वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः ।
आज्यञ्च व्रीहयश् चैव तथा वै गौरसर्षपाः ॥०२२॥

अक्षतानि तिलाश् चैव दधिक्षीरे च भार्गव ।
दर्भास्तथैव दूर्वाश् च विल्वानि कमलानि च ॥०२३॥

शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि सर्वशः ।
तैलङ्कणानि धर्मज्ञ राजिका रुधिरं विषं ॥०२४॥

समिधः कण्टकोपेता अभिचारेषु योजयेत् ।
आर्षं वै दैवतं छन्दो विनियोगज्ञ आचरेत् ॥०२५॥

{इत्य् आग्नेये महापुराणे अथर्वविधानं नामैकषष्ट्यधिकद्विशततमो ऽध्यायः }

:न्

[[४६०]]

  1. इन्द्र वनं वनिक् चेतीति घ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. अग्ने सौभाग्य इत्य् एतदिति ज॥ ↩︎ ↩︎