{अथ षष्ठ्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सामविधानं
पुष्कर उवाच
युजुर्विधानङ्कथितं वक्ष्ये साम्नां विधानकं ।
संहितां वैष्णवीञ्जप्त्वा हुत्वा स्यात् सर्वकामभाक् ॥००१॥
मूलम्

संहिताञ्छान्दसीं साधु जप्त्वा प्रीणाति शङ्करं ।
स्कन्दीं पैत्र्यां संहिताञ्च जप्त्वा स्यात्तु प्रसादवान् ॥००२॥

:न्
[[४५५]]
विश्वास-प्रस्तुतिः
यत इन्द्र भजामहे हिंसादोषविनाशनं ।
अवकीर्णी मुच्यते च अग्निस्तिग्मेति वै जपन् ॥००३॥

सर्वपापहरं ज्ञेयं परितोयञ्च तासु च1 ।
अविक्रेयञ्च विक्रीय जपेद्घृतवतीति च ॥००४॥

अयानो देव सवितुर्ज्ञेयन्दुःस्वप्ननाशनं ।
अबोध्यग्निरितिमन्त्रेण घृतं राम यथाविधि ॥००५॥

अभ्युक्ष्य घृतशेषेण मेखलाबन्ध इष्यते ।
स्त्रीणां यासान्तु गर्भाणि पतन्ति भृगुसत्तम ॥००६॥

मणिं जातस्य बालस्य वध्नीयात्तदनन्तरं ।
सोमं राजानमेतेन व्याधिभिर्विप्रमुच्यते ॥००७॥

सर्पसाम प्रयुञ्जीनो नाप्नुयात् सर्पजम्भयं ।
माद्य त्वा वाद्यतेत्येतद्धुत्वा विप्रः सहस्रशः ॥००८॥

शतावरिमणिबद्ध्वा नाप्नुयाच्छस्त्रतो भयं ।
दीर्घतमसोर्क इति हुत्त्वान्नं प्राप्नुयाद्बहु ॥००९॥

स्वमध्यायन्तीति जपन्न म्रियेत पिपासया2 ।
त्वमिमा ओषधी ह्य् एतज्जप्त्वा व्याधिं न वाप्नुयात् ॥०१०॥

पथि देवव्रतञ्जप्त्वा भयेभ्यो विप्रमुच्यते ।
यदिन्द्रो मुनये त्वेति हुतं सौभाग्यवर्धनं ॥०११॥

भगो न चित्र इत्य् एवं नेत्रयो रञ्जनं हितं ।
सौभाग्यवर्धनं राम नात्र कार्य विचारणा ॥०१२॥

[[४५६]]
विश्वास-प्रस्तुतिः
परि प्रिया हि वः कारिः1 काम्यां संश्रावयेत् स्त्रियं ॥०१३॥

सा तङ्कामयते राम नात्र कार्या विचारणा ।
रथन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनं ॥०१४॥

प्राशयेद्बालकं नित्यं वचाचूर्णं घृतप्लुतं ।
इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ ॥०१५॥

हुत्वा रथन्तरञ्जप्त्वा पुत्रमाप्नोत्यसंशयं ।
मयि श्रीरिति मन्त्रोयं जप्तव्यः श्रीविवर्धनः ॥०१६॥

वैरूप्यस्याष्टकं नित्यं प्रयुञ्जानः श्रियं लभेत् ।
सप्ताष्टकं प्रयुञ्जानः सर्वान् कामानवाप्नुयात् ॥०१७॥

गव्येषुणेति यो नित्यं सायं प्रातरतन्त्रितः ।
उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे ॥०१८॥

घृताक्तन्तु यवद्रोणं वात आवातु भेषजं ।
अनेन विधिवत् सर्वां मायां व्यपोहति ॥०१९॥

प्रदेवो दासेन तिलान् हुत्वा कार्मणकृन्तनं ।
अभि त्वा पूर्वपीतये वषट्कारसमन्वितं ॥०२०॥

वासकेध्मसहस्रन्तु हुतं युद्धे जयप्रदं ।
हस्त्यश्वपुरुषान् कुर्याद्बुधः पिष्टमयान् शुभान् ॥०२१॥

परकीयानथोद्देश्य प्रधानपुरुषांस् तथा ।
सुस्विन्नान् पिष्टकवरान् क्षुरेणोत् कृत्य भागशः ॥०२२॥

अभि त्वा शूर णोनुमो मन्त्रेणानेन मन्त्रवित् ।
कृत्वा सर्षपतैलाक्तान् क्रोधेन2 जुहुयात्ततः ॥०२३॥

[[४५७]]
विश्वास-प्रस्तुतिः
एतत् कृत्वा बुधः कर्म सङ्ग्रामे जयमाप्नुयात् ।
गारुडं वामदेव्यञ्च रथन्तरवृहद्रथौ ॥०२४॥

सर्वपापप्रशमनाः कथिताः संशयं विना ॥२५॥
मूलम्
सर्वपापप्रशमनाः कथिताः संशयं विना ॥२५॥
{इत्य् आग्नेये महापुराणे सामविधानं नाम षष्ट्यधिकद्विशततमो ऽध्यायः ॥ }