२५९ यजुर्विधानं

{अथोनषष्ट्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

यजुर्विधानं

पुष्कर उवाच
यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ।
ओङ्कारपूर्विका राम महाव्याहृतयो मताः ॥००१॥

मूलम्

सर्वकल्मषनाशिन्यः सर्वकामप्रदास् तथा ।
आज्याहुतिसहस्रेण देवानाराधयेद्बुधः ॥००२॥

मनसः काङ्क्षितं राम मनसेप्सितकामदं ।
शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये ॥००३॥

धान्यैः सिद्धार्थकैश् चैव सर्वकाम करैस् तथा ।
औदुम्बरीभिरिध्माभिः पसुकामस्य शस्यते ॥००४॥

दध्ना चैवान्नकामस्य पयसा शान्तिमिच्छतः ।
अपामार्गसमिद्धस्तु कामयन् कनकं बहु ॥००५॥

[[४४७]]

विश्वास-प्रस्तुतिः

कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु ।
जातीपुष्पाणि जुहुयाद्ग्रामार्थी तिलतण्डुलान् ॥००६॥

वश्यकर्मणि शाखोढवासापामार्गमेव च ।
विषासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ॥००७॥

क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां बधकाम्यया ।
सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ॥००८॥

सहस्रशस्तु जुहुयाद्राजा वशगतो भवेत् ।
वस्त्रकामस्य पुष्पाणि दर्वा व्याधिविनाशिनी ॥००९॥

ब्रह्मवर्चसकामस्य वासोग्रञ्च विधीयते ।
प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ॥०१०॥

विद्वेषणे च पक्ष्माणि काककौशिकयोस् तथा ।
कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ॥०११॥

वचाचूर्णेन सम्पातात्समानीय च तां वचां ।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ॥०१२॥

एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च1
द्विषतो बधोसीति जपन्निखनेद्रिपुवेश्मनि ॥०१३॥

उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।
चक्षुष्या इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ॥०१४॥

उपयुञ्जत इत्य् एदनुवाकन्तथान्नदं ।
तनूनपाग्ने सदिति दूर्वां हुत्वार्तिवर्जितः ॥०१५॥

भेषजमसीति दध्याज्यैर् होमः पशूपसर्गनुत्[^२] ।

:न्

[[४४८]]

विश्वास-प्रस्तुतिः

त्र्यम्वकं यजामहे होमः सौभाग्यवर्धनः ॥०१६॥

कन्यानाम गृहीत्वा तु कन्यलाभकरः परः ।
भयेषु तु जपन्नित्यं भयेभ्यो विप्रमुच्यते ॥०१७॥

धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् ।
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ॥०१८॥

युञ्जते मनो ऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् ।
विष्णोरवाटमित्येतत्1 सर्वबाधाविनाशनं ॥०१९॥

रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं ।
अयत्नो अग्निरित्येतत् सङ्ग्रामे विजयप्रदं ॥०२०॥

इदमापः प्रवहत स्नाने पापापनोदनं ।
विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ॥०२१॥

कन्याया निखनेद्द्वारि सान्यस्मै न प्रदीयते ।
देव सवितरेतेन जुहुयाद्बलकामो द्विजोत्तम ॥०२२॥

अग्नौ स्वाहेति जुहुयाद्बलकामो द्विजोत्तम ।
तिलैर् यवैश् च धर्मज्ञ तथापामार्गतण्डुलैः ॥०२३॥

सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विज ।
तिलकञ्च तथा कृत्वा जनस्य प्रियतामियात् ॥०२४॥

रुद्राणाञ्च तथा जप्यं सर्वाघविनिसूदनं ।
सर्वकर्मकरो होमस् तथा सर्वत्र शन्तिदः ॥०२५॥

अजाविकानामश्वानां कुञ्जराणां तथा गवां ।
मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ॥०२६॥

ग्रामाणां नगरानाञ्च देशानामपि भार्गव ।

:न्

[[४४९]]

विश्वास-प्रस्तुतिः

उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ॥०२७॥

मरके समनुप्राप्ते रिपुजे च तथा भये ।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ॥०२८॥

कुष्माण्डघृतहोमेन सर्वान् पापान् व्यपोहति ।
शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ॥०२९॥

बहिःस्नानरतो मासान्मुच्यते ब्रह्महत्यया ।
मधुवातेति मन्त्रेण होमादितो ऽखिलं लभेत् ॥०३०॥

दधि क्राव्नेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं ।
तथा घृतवतीत्येतदायुष्यं स्यात् घृतेन तु ॥०३१॥

स्वस्तिन इन्द्र इत्य् एतत्सर्वबाधाविनाशनं ।
इह गावः प्रज्यायध्वमिति पुष्टिविवर्धनम् ॥०३२॥

घृताहुतिसहस्रेण तथा लक्ष्मीविनाशनं ।
श्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ॥०३३॥

मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ।
रुद्र पातु पलशस्य समिद्भिः कनकं लभेत् ॥०३४॥

शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।
याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ॥०३५॥

यो अस्मभ्यमवातीयाद्धुत्वा कृष्णतिलान्नरः ।
सहस्रशो ऽभिचाराच्च मुच्यते विकृताद्द्विज ॥०३६॥

अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् ।
हंसः शुचिः सदित्येतज्जप्तन्तोये ऽघनाशनं ॥०३७॥

चत्वारि भङ्गेत्येतत्तु सर्वपापहरं जले ।
देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ॥०३८॥

[[४५०]]

विश्वास-प्रस्तुतिः

वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् ।
सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ॥०३९॥

नमः स्वाहेति त्रिर्जप्त्वा बन्धनान्मोक्षमाप्नुयात् ।
अन्तर्जले त्रिरावर्त्य द्रुपदा सर्वपापमुक् ॥०४०॥

इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्धनः ।
हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ॥०४१॥

शतम् य1 इति चैतेन हुत्वा पर्णफलाणि च ।
आरोग्यं श्रियमाप्नोति जीवितञ्च चिरन्तथा ॥०४२॥

ओषधीः प्रतिमोदग्ध्वं2 वपने लवने ऽर्थकृत् ।
अश्वावती पायसेन होमाच्छान्तिमवाप्नुयात् ॥०४३॥

तस्मा इति च मन्त्रेन बन्धनस्थो विमुच्यते ।
युवा सुवासा इत्य् एव वासांस्याप्नोति चोत्तमम् ॥०४४॥

मुञ्चन्तु मा शपथ्यानि सर्वान्तकविनाशनम्3
मा माहिंसीस्तिलाज्येन हुतं रिपुविनाशनं4 ॥०४५॥

नमो ऽस्तु सर्वसर्पेभ्यो घृतेन पायसेन तु ।
कृणुधवं राज इत्य् एतदभिचारविनाशनं ॥०४६॥

दूर्वाकाण्डायुतं हुत्वा काण्डात् काण्डेति मानवः ।
ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ॥०४७॥

रोगार्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः ।

:न्

[[४५१]]

विश्वास-प्रस्तुतिः

औडुम्बरीश् च समिधो मधुमान्नो वनस्पतिः ॥०४८॥

हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।
सौभाग्यं महदाप्नोति व्यवहारे तथा त्रयम् ॥०४९॥

अपां गर्भमिति हुत्वा देवं वर्षापयेद्ध्रुवम् ।
अपः पिवेति च तथा हुत्वा दधि घृतं मधु ॥०५०॥

प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरं ।
नमस्ते रुद्र इत्य् एतत् सर्वोपद्रवनाशनं ॥०५१॥

सर्वशान्तिकरं प्रोक्तं महापातकनाशनं ।
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ॥०५२॥

रक्षोघ्नञ्च यशस्यञ्च चिरायुःपुष्टिवर्धनम् ।
सिद्धार्थकानां क्षेपेण पथि चैतज्जपन् सुखी ॥०५३॥

असौ यस्ताम्र इत्य् एतत् पठन्नित्यं दिवाकरं ।
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ॥०५४॥

अन्नमक्षयमाप्नोति दीर्घमायुश् च विन्दति ।
प्रमुञ्च1 धन्वन्नित्येतत् षड्भिरायुधमन्त्रणं ॥०५५॥

रिपूणां भयदं युद्धेनात्रकार्या विचारणा ।
मानो महान्त इत्य् एवं बालानां शान्तिकारकं ॥०५६॥

नमो हिरण्यवाहवे इत्य् अनुवाकसप्तकम् ।
राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ॥०५७॥

नमो वः किरिकेभ्यश् च पद्मलक्षाहुतैर् नरः ।
राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् ॥०५८॥

इमा रुद्रायेति तिलैर् होमाच्च धनमाप्यते ।

:न्

[[४५२]]

विश्वास-प्रस्तुतिः

दूर्वाहोमेन चान्येन सर्वव्याधिविवर्जितः ॥०५९॥

आशुः शिशान इत्य् एतदायुधानाञ्च रक्षणे ।
सङ्ग्रामे कथितं राम सर्वशत्रुनिवर्हणं ॥०६०॥

राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज ।
आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते ॥०६१॥

शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् ।
अग्न आयूंसि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ॥०६२॥

अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् ।
भद्रा इतीन्द्रियैर् हीनो जपन् स्यात् सकलेन्द्रियः ॥०६३॥

अग्निश् च पृथिवी चेति वशीकरणमुत्तमम् ।
अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ॥०६४॥

ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् ।
संवत्सरोसीति धृतैर् लक्षहोमादरोगवान् ॥०६५॥

केतुं कृण्वन्नितीत्येतत् सङ्ग्रामे जयवर्धनम् ।
इन्द्रोग्निर्धर्म इत्य् एतद्रणे धर्मनिबन्धनम्1 ॥०६६॥

धन्वा नागेति मन्त्रश् च धनुर्ग्राहनिकः परः ।
यजीतेति तथा मन्त्रो विज्ञेयो ह्य् अभिमन्त्रणे ॥०६७॥

मन्त्रश्चाहिरथेत्येतच्छराणां2 मन्त्रणे भवेत् ।
वह्नीनां पितरित्येतत्तूर्णमन्त्रः प्रकीर्तितः ॥०६८॥

युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ।
आशुः शिशान इत्य् एतद्यत्रारम्भणमुच्यते ॥०६९॥

[[४५३]]

विश्वास-प्रस्तुतिः

विष्णोः क्रमेति मन्त्रश् च रथारोहणिकः परः ।
आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ॥०७०॥

याः सेना अभित्वरीति परसैन्यमुखे जपेत् ।
दुन्दुभ्य इति चाप्येतद्दुन्दुभीताड्नं भवेत् ॥०७१॥

एतैः पूर्वहुतैर् मन्त्रैः कृत्वैवं विजयी भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥०७२॥

रथमुत्पादयेच्छीघ्रं सङ्ग्रामे विजयप्रदम् ।
आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ॥०७३॥

शिवसङ्कल्पजापेन1 समाधिं मनसो लभेत् ।
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् ॥०७४॥

यदा बधून्दक्षायणां मन्त्रेणानेन मन्त्रितम् ।
सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ॥०७५॥

इमं जीवेभ्य द्रति च शिलां लोष्ट्रञ्चतुर्दिशं ।
क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि ॥०७६॥

परिमेगामनेनेति2 वशीकरणमुत्तमं ।
हन्तुमभ्यागतस्तत्र वशीभवति मानवः ॥०७७॥

मूलम्

परिमेगामनेनेति2 वशीकरणमुत्तमं ।
हन्तुमभ्यागतस्तत्र वशीभवति मानवः ॥०७७॥

विश्वास-प्रस्तुतिः

भक्ष्यताम्वूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति ।
यस्य धर्मज्ञ वशगः सोम्य शीघ्रं भविष्यति ॥०७८॥

शन्नो मित्र इतीत्येतत् सदा सर्वत्र शान्तिदं ।
गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ॥०७९॥

वशीकुर्याज्जगत्सर्वम् सर्वधान्यैर् असंशयम् ।

:न्

[[४५४]]

विश्वास-प्रस्तुतिः

हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ॥०८०॥

शन्नो देवीरभिष्टये तथा शान्तिकरः परः ।
एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः1 ॥०८१॥

ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः ।
गावो भग इति द्वाभ्यां हुत्वाज्यङ्गा अवाप्नुयात् ॥०८२॥

प्रवादांशः सोपदिति2 गृहयज्ञे विधीयते ।
देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ॥०८३॥

गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं ।
सर्वपापप्रशमनं सर्वकामकरन्तथा3 ॥०८४॥

\{इत्य् आगेनेये महापुराणे यजुर्विधानं नामोनषष्ट्यधिकद्विशततमो ऽध्यायः ॥ }

  1. खादिरमेव वेति ग॥ , घ॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. पशूपसर्गहेति क॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. सर्वकिल्विषनाशनमिति घ॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  4. विघ्नविनाशनमिति क॥ , छ॥ च ↩︎ ↩︎