{अथाष्टपञ्चाशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
ऋग्विधानं
अग्निर् उवाच
ऋग्यजुःसामाथर्वविधानं पुष्करोदितम् ।
भुक्तिमुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे ॥००१॥
मूलम्

पुष्कर उवाच
प्रतिवेदन्तु कर्माणि कार्याणि प्रवदामि ते ।
प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम् ॥००२॥

अन्तर्जले तथा होमे जपती मनसेप्सितम् ।
कामं करोति गायत्री प्राणायामाद्विशेषतः ॥००३॥

गायत्र्या दशसाहस्रो जपो नक्ताशनो द्विज ।
बहुस्नातस्य तत्रैव सर्वकल्मषनाशनः ॥००४॥

दशायुतानि जप्त्वाथ हविष्याशी स मुक्तिभाक् ।
प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा ॥००५॥

ओङ्कारशतजप्तन्तु नाभिमात्रोदके स्थितः ।
जलं पिवेत् स सर्वैस्तु पापैर् वै1 विप्रमुच्यते ॥००६॥

मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयो ऽग्नयः ।
महाव्याहृतयः सप्त लोका होमो ऽखिलाघहा ॥००७॥

गायत्री परमा जाप्या महाव्याहृतयस् तथा ।
अन्तर्जले तथा राम प्रोक्तश् चैवाघमर्षणः ॥००८॥

:न्
[[४३८]]
विश्वास-प्रस्तुतिः
शिरसा धारयन् वह्निं यो जपेत्परिवत्सरम् ॥००९॥

होमं त्रिषवणं भैक्ष्यमनग्निज्वलनञ्चरेत् ।
अतः परमृचः सप्त वाय्वाद्या याः प्रकीर्तिताः ॥०१०॥

ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते ।
मेधाकामो जपेन्नित्यं सदसन्यमिति त्यचम् ॥०११॥

अन्वयो यन्निमाः प्रोक्ताः नवर्चो मृत्युनाशनाः ।
शुनःशेफमृषिं बद्धः सन्निरुद्धो ऽथ वा1 जपेत् ॥०१२॥

मुच्यते सर्वपापेभ्यो गदी वाप्यगदो भवेत् ।
य इच्छेच्छाश्वतं कामं मित्रं प्राज्ञं पुरन्दरं ॥०१३॥

ऋग्भिः षोड्शभिः कुर्यादिन्द्रियस्येति दिने दिने ।
हिरण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते ॥०१४॥

क्षेमी भवति चाध्वानो ये ते पन्था जपन् नरः ।
रौद्रीभिःषड्भिरीशानं स्तूयाद्यो वै दिने दिने ॥०१५॥

चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत् ।
उदित्युदन्तमादित्यमुपतिष्ठन् दिने दिने ॥०१६॥

क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनं ।
द्विषन्तमित्यथार्धर्चं यद्विप्रान्तं जपन् स्मरेत् ॥०१७॥

आगस्कृत् सप्तरात्रेण विद्वेषमधिगच्छति ।
आरोग्यकामी रोगी वा प्रस्कन्नस्योत्तमं जपेत् ॥०१८॥

उत्तमस्तस्य चार्धर्चो जपेद्वै विविधासने ।
उदयत्यायुरक्ष्यय्यं तेजो मध्यन्दिने जपेत् ॥०१९॥

[[४३९]]
विश्वास-प्रस्तुतिः
अस्तं प्रतिगते सूर्ये द्विषन्तं प्रतिबाधते ।
न वयश्चेति सूक्तानि जपन् शत्रून्नियच्छति ॥०२०॥

एकादश सुपर्णस्य सर्वकामान्विनिर्दिशेत् ।
आध्यात्मिकीः क इत्य् एता जपन्मोक्षमवाप्नुयात् ॥०२१॥

आ नो भद्रा इत्य् अनेन दीर्घमायुरवाप्नुयात् ।
त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरं ॥०२२॥

उपतिष्ठेत् समित्पाणिर्वासांस्याप्नोत्यसंशयं ।
आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपेत् ॥०२३॥

आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं ।
यथा मुञ्चति चेषोकां तथा पापं प्रमुञ्चति ॥०२४॥

जातवेदस इत्य् एतज्जपेत् स्वस्त्ययनं पथि ।
भयैर् विमुच्यते सर्वैः स्वस्तिमानाप्नुयात् गृहान् ॥०२५॥

व्युष्टायाञ्च तथा रात्र्यामेतद्दुःस्वप्ननाशनं ।
प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं ॥०२६॥

जपन्निन्द्रमिति स्नातो वैश्यदेवन्तु सप्तकं ।
मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्विषं नरः ॥०२७॥

इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान् ।
मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः ॥०२८॥

औडुम्बरीश् च जुहुयात्समिधश्चाज्यसंस्कृताः ।
छित्त्वा सर्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः ॥०२९॥

ऊर्ध्वबाहुरनेनैव स्तुत्वा सम्भुं तथैव च ।
मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ॥०३०॥

[[४४०]]
विश्वास-प्रस्तुतिः
चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ॥०३१॥

समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् ।
अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने ॥०३२॥

दुःस्वप्नञ्चार्हते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम्1 ।
उभे पुमानिति तथा रक्षोघ्नः परिकीर्तितः ॥०३३॥

उभे वासा इति ऋचो जपन् कामानवाप्नुयात् ।
न सागन्निति च जपन् मुच्यते चाततायिनः ॥०३४॥

कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् ।
इमन्नृसोममित्येतत् सर्वान् कामानवाप्नुयात् ॥०३५॥

पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं2 ।
अग्ने नयेति सूक्तेन घृतहोमश् च मार्गगः ॥०३६॥

वीरान्नयमवाप्नोति सुश्लोकं यो जपेत् सदा ।
कङ्कतो नेति सूक्तेन विषान् सर्वान् व्यपोहति ॥०३७॥

यो जात इति सूक्तेन सर्वान् कामानवाप्नुयात् ।
गणानामिति सूक्तेन श्निग्धमाप्नोत्यनुत्तमं ॥०३८॥

यो मे राजन्नितीमान्तु दुःस्वप्नशमनीमृचं ।
अध्वनि प्रस्थितो यस्तु पश्येच्छत्रूं समुत्थितं ॥०३९॥

अप्रशस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् ।
द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं ॥०४०॥

पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते ।
कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः ॥०४१॥

[[४४१]]
विश्वास-प्रस्तुतिः
आरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् ।
उपतिष्ठेत् स्वयं वह्निं परित्यृचा दिने दिने ॥०४२॥

तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः ।
हंसः शुचिः सदित्येतच्छुचिरीक्षेद्दिवाकरं ॥०४३॥

कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ।
जुहुयात् क्षेत्रमध्ये तु स्वनीस्वाहास्तु पञ्चभिः ॥०४४॥

इन्द्राय च मरुद्भ्यस्तु पर्जन्याय भगाय च ।
यथालिङ्गन्तु विहरेल्लाङ्गलन्तु कृषीबलः ॥०४५॥

युक्तो धान्याय सीतायै सुनासीरमथोत्तरं ।
गन्धमाल्यैर् नमस्कारैर् यजेदेताश् च देवताः ॥०४६॥

प्रवापने प्रलवने खलसीतापहारयोः ।
अमोघङ्कर्म भवति वर्धते सर्वदा कृषिः ॥०४७॥

समुद्रादिति सूक्तेन कामानाप्नोति पावकात् ।
विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति ॥०४८॥

स तरत्यापदः सर्वा यशः प्राप्नोति चाक्षयं ।
विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमं ॥०४९॥

अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितं ।
प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयं ॥०५०॥

स्वस्त्या त्रयं जपेत् प्रातः सदा स्वस्त्ययनं महत् ।
स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजते ऽध्वनि ॥०५१॥

विजिगीषुर्वनस्पते शत्रूणां व्याधितं भवेत्1 ।
स्त्रिया गर्भप्रमूढाया गर्भमोक्षणमुत्तमं ॥०५२॥

[[४४२]]
विश्वास-प्रस्तुतिः
अच्छावदेति सूक्तञ्च वृष्टिकामः प्रयिओजयेत् ।
निराहारः क्लिन्नवासा न चिरेण प्रवर्षति ॥०५३॥

मनसः काम इत्य् एतां पशुकामो नरो जपेत् ।
कर्दमेन इति स्नायात्प्रजाकामः शुचिव्रतः ॥०५४॥

अश्वपूर्वा इति स्नायाद्राज्यकामस्तु मानवः ।
राहिते चर्मणि स्नायात् ब्राह्मणस्तु यथाविधि ॥०५५॥

राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च ।
दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः ॥०५६॥

आगार इति सूक्तेन गोष्ठे गां लोकमातरं ।
उपतिष्ठेद्व्रजेच्चैव यदिच्छेत्ताः सदाक्षयाः ॥०५७॥

उपेतितिसृभीराज्ञो दुन्दुभिमभिमन्त्रयेत् ।
तेजो बकञ्च प्राप्नोति शत्रुञ्चैव नियच्छति ॥०५८॥

तृणपाणिर्जपेत्सूक्तुं रक्षोघ्नं दस्युन्भिर्वृतः ।
ये के च उमेत्यृचं जप्त्वा दीर्घमायुराप्नुयात्1 ॥०५९॥

जीमूतसूक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् ।
यधा लिङ्गं ततो राजा विनिहन्ति रणे रिपून् ॥०६०॥

आग्नेयेति त्रिभिःसूक्तैर् धनमाप्नोति चाक्षयं ।
अमीवहेति सूक्तेन भूतानि स्थापयेन्निशि ॥०६१॥

सबाधे विषमे दुर्गे बन्धा वा निर्गतः क्वचित् ।
पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत् ॥०६२॥

त्रिरात्रं नियतोपोष्य श्रापयेत् पायसञ्चरुं ।
तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा ॥०६३॥

[[४४३]]
विश्वास-प्रस्तुतिः
समुद्दिश्य महादेवं जीवेदब्दशतं सुखं ।
तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरं ॥०६४॥

उद्यन्तं मध्यगञ्चैव दीर्घमायुर्जिजीविषुः ।
इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनं ॥०६५॥

यस्य लुप्तं व्रतं मोहाद्व्रात्यैर् वा संसृजेत्सह ।
उपोष्याज्यं स जुहुयात्त्वमग्ने व्रतपा इति ॥०६६॥

आदित्येत्यृक् च सम्राजं1 जप्त्वा वादे जयी भवेत् ।
महीति च चतुष्केण मुच्यते महतो भयात् ॥०६७॥

ऋचं महीति जप्त्वा यदि ह्य् एतत् सर्वकामानवाप्नुयात् ।
द्वाचत्वारिंशतिं चैन्द्रं जप्त्वा नाशयते रिपून् ॥०६८॥

वाचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ।
शन्नो भवेति द्वाभ्यान्तु भुक्त्वान्नं प्रयतः शुचिः ॥०६९॥

हृदयं पाणिना स्पृष्ट्वा व्याधिभिर् नाभिभूयते ।
उत्तमेदमिति स्नातो हुत्त्वा शत्रुं प्रमापयेत् ॥०७०॥

शन्नोग्न इति सूक्तेन हुतेनान्नमवाप्नुयात् ।
कन्या वारर्षिसूक्तेन दिग्दोषाद्विप्रमुच्यते ॥०७१॥

यदत्य कव्येत्युदिते जप्ते ऽवश्यं जगद्भवेत् ।
यद्वागिति च जप्तेन वाणी भवति संस्कृता2 ॥०७२॥

वाचो विदितमिति त्वेतां जपन् वाचं समश्नुते ।
पवित्राणां पवित्रन्तु पावमान्येत्यृचो मताः ॥०७३॥

[[४४४]]
विश्वास-प्रस्तुतिः
ऋचो द्विषष्टिः प्रोक्ताश् च परस्वेत्यृषिसत्तम ॥०७४॥

सर्वकल्मषनाशाय पावनाय शिवाय च ।
स्वादिष्टयेतिसूक्तानां सप्तषष्टिरुदाहृता ॥०७५॥

दशोत्तराण्यृचाञ्चैताः पावमान्यः शतानि षट् ।
एतज्जपंश् च जुह्वच्च घोरं मृत्युभयं जयेत् ॥०७६॥

आपोहिष्टेति वारिस्थो जपेत्पापभयार्दने ।
प्रदेवन्नेति नियतो जपेच्च मरुधन्वसु ॥०७७॥

प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ।
प्रावेयामित्यृचमेकां जपेच्च मनसा निशि ॥०७८॥

व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात् ।
मा प्रगामेति मूढश् च पन्थानं पथि विन्दति ॥०७९॥

क्षीणायुरिति मन्येत यङ्कञ्चित् सुहृदं प्रियं ।
यत्तेयमिति तु स्नातस्तस्य मूर्धानमालभेत् ॥०८०॥

सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् ।
इदं मेध्येति जुहुयात् घृतं प्राज्ञः सहस्रशः ॥०८१॥

पशुकामो गवां गोष्ठे अर्थकामश् चतुष्पथे ।
वयः सुपर्ण इत्य् एतां जपन् वै विन्दते श्रियं ॥०८२॥

हविष्यन्तीयमभ्यस्य सर्वपापैः प्रमुच्यते ।
तस्य रोगा विनश्यन्ति कायाग्निर्वर्धते तथा ॥०८३॥

या ओषधयः स्वस्त्ययनं सर्वव्याधिविनाशनं ।
वृहस्पते अतीत्येतद्वृष्टिकामः प्रयोजयेत् ॥०८४॥

सर्वत्रेति परा शान्तिर्ज्ञेया प्रतिरथस् तथा ।
सूत साङ्काश्यपन्नित्यं प्रजाकामस्य कीर्तितं ॥०८५॥

[[४४५]]
विश्वास-प्रस्तुतिः
अहं रुद्रेति एतद्वाग्मी भवति मानवः ।
न योनौ जायते विद्वान् जपन्रात्रीति रात्रिषु ॥०८६॥

रात्रिसूक्तं जपन्न्रात्री रात्रिं क्षेमी जयेन्नरः ।
कल्पयन्तीति च जपन्नित्यं कृत्त्वारिनाशनं ॥०८७॥

आयुष्यञ्चैव वर्चस्यं सूक्तं दाक्षायणं महत् ।
उत देवा इति जपेदामयघ्नं धृतव्रतः ॥०८८॥

अयमग्ने जनित्येतज्जपेदग्निभये सति ।
अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनं ॥०८९॥

ब्राह्म्नीमासाद्य सूक्ते द्वे ऋचं ब्राह्मीं शतावरीं ।
पृथगद्भिर्घृतैर् वाथ मेधां लक्ष्मीञ्च विन्दति ॥०९०॥

मास इत्य् असपत्नघ्नं सङ्ग्रामं विजिगीषतः ।
ब्रह्मणो ऽग्निः संविदानं गर्भमृत्युनिवारणं ॥०९१॥

अपहीति जपेत्सूक्तं शुचिर्दुस्वप्ननाशनं ।
येनेदमिति वैजप्त्वा समाधिं विन्दते परं ॥०९२॥

मयो भूर्वात इत्य् एतत् गवां स्वस्त्ययनं परं ।
शाम्बरीमिन्द्रजालं वा मायामेतेन वारयेत् ॥०९३॥

महीत्रीणामवरोस्त्विति पथि स्वस्त्ययनं जपेत् ।
अग्नये विद्विषन्नेवं जपेच्च रिपुनाशनं ॥०९४॥

वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताः ।
जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः ॥०९५॥

होमान्ते दक्षिणा देया पापशान्तिर्हुतेन तु ।
हुतं शाम्यति चान्नेन अन्नहेमप्रदानतः ॥०९६॥

[[४४६]]
विश्वास-प्रस्तुतिः
सिद्धार्थका यवा धान्यं पयो घृतं तथा ॥०९७॥

क्षीरवृक्षास्तथेध्मन्तु होमा वै सर्वकामदाः ।
समिधः कण्ठकिन्यश् च राजिका रुधिरं विषं ॥०९८॥

अभिचारे तथा शैलं अशनं शक्तवः पयः ।
दधि भैक्ष्यं फलं मूलमृग्विधानमुदाहृतं ॥०९९॥

{इत्य् आग्नेये महापुराणे ऋग्विधानं नामाष्टपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }