{अथ सप्तपञ्चाशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वाक्पारुष्यादिप्रकरणम्
अग्निर् उवाच
सत्यासत्यान्यथा स्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणां ।
क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदश ॥००१॥
मूलम्

अभिगन्तास्मि भगिनीम्मातरं वा तवेति च ।
शपन्तं दापयेद्राजा पञ्चविंशतिकं दमं ॥००२॥

अर्धो ऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥००३॥

प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानामानुलोम्येन तस्मादेवार्धहानितः ॥००४॥

वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
शत्यस्ततो ऽर्धिकः पादनासाकर्णिकरादिषु ॥००५॥

अशक्तस्तु वदन्नेवन्दण्डनीयः पणान् दश ।
तथा शक्तः प्रतिभुवं दद्यात् क्षेमाय तस्य तु1 ॥००६॥

पतनीयकृते क्षेपे दण्डी मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसं ॥००७॥
मूलम्
पतनीयकृते क्षेपे दण्डी मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसं ॥००७॥
:न्
[[४३०]]
विश्वास-प्रस्तुतिः
मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयोः ॥००८॥

असाक्षिकहते चिह्नैर् युक्तिभिन्नागमेन च ।
द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताद्भयात् ॥००९॥

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥०१०॥

समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ।
हीनेष्वर्धं दमो मोहमदादिभिरदण्डनम् ॥०११॥

विप्रपीडाकरं च्छेद्यमङ्गमब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥०१२॥

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परन्तु सर्वेषां शास्त्रे मध्यमसाहसः ॥०१३॥

पादकेशांशुककरोल्लुञ्चनेषु पणान् दश ।
पीडाकर्षां शुकावेष्टपादाध्यासे शतन्दमः ॥०१४॥

शोणितेन विना दुःस्वङ्कुर्वन् काष्ठादिभिर्नरः ।
द्वात्रिंशतं पणान्1 दाप्यो द्विगुणं दर्शने ऽसृजः ॥०१५॥

करपाददतो भङ्गे च्छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥०१६॥

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्याञ्च भङ्गे मध्यमसाहसः ॥०१७॥

एकं घ्नतां बहूनाञ्च यथोक्ताद्द्विगुणा दमाः ।
कलहापहृतं देयं दण्डस्तु द्विगुणः स्मृतः ॥०१८॥

[[४३१]]
विश्वास-प्रस्तुतिः
दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृतः ॥०१९॥

तरिकः स्थलजं शुल्कं गृह्नन् दण्ड्यः पणान्दश ।
ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ॥०२०॥

अभिघाते तथा भेदे च्छेदे बुद्ध्यावपातने ।
पणान्दाप्यः पञ्चदशविंशतिं तत्त्रयन्तथा ॥०२१॥

दुःस्वोत्पादिगृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षाडशाद्यं पणात् दाप्यो द्वितीयो मध्यमन्दमम् ॥०२२॥

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां स्याद्द्विपणप्रभृतिः क्रमात् ॥०२३॥

लिङ्गस्य च्छेदने मृत्तौ मध्यमो मूल्यमेव च ।
महापशूनामेतेषु स्थानेषु द्विगुणा दमाः ॥०२४॥

प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणान्तु विंशतेर्द्विगुणा दमाः1 ॥०२५॥

यः साहसङ्कारयति स दाप्यो द्विगुणन्दमम् ।
यस्त्वेवमुक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥०२६॥

आर्याक्रोशातिक्रमकृद्भ्रातृजायाप्रहारदः ।
सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकः ॥०२७॥

सामन्तकुलिकादीनामपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषामिति विनिश् चयः ॥०२८॥

स्वच्छन्दविधवागामी विक्रुष्टे नाभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्पृशन् ॥०२९॥

[[४३२]]
विश्वास-प्रस्तुतिः
अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥०३०॥

वृषक्षुद्रपशूनाञ्च पूंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलोपी दासीगर्भविनाशकृत् ॥०३१॥

पितापुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः ।
एषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥०३२॥

वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥०३३॥

तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश् च व्यवहर्ता यः स दाप्यो दण्डमुत्तमम् ॥०३४॥

अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।
स नाणकपरीक्षी तु दाप्यः प्रथमसाहसम् ॥०३५॥

भिषङ्मिथ्याचरन् दाप्यस्तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राजमानुषेषूत्तमन्तथा ॥०३६॥

अबध्यं यश् च बध्नाति बध्यं यश् च प्रमुञ्चति ।
अप्राप्तव्यवहारञ्च स दाप्यो दममुत्तमम् ॥०३७॥

मानेन तुलया वापि यो ऽंशमष्टमकं हरेत् ।
द्वाविंशतिपणान् दाप्यो वृद्धौ हानौ च कल्पितम् ॥०३८॥

भेषजस्नेहलवणगन्धान्यगुडादिषु ।
पण्येषु प्रक्षिपन् हीनं पणान्दाप्यस्तु षोडश ॥०३९॥

सम्भूय कुर्वतामर्घं सबाधं कारुशिल्पिनां ।
अर्थस्य ह्रासः वृद्धिं वा सहस्रो दण्ड उच्यते ॥०४०॥

राजानि स्थाप्यते यो ऽर्थः प्रत्यहं तेन विक्रयः ।
क्रयो वा निस्रवस्तस्माद्बणिजां लाभकृत् स्मृतः ॥०४१॥

[[४३३]]
विश्वास-प्रस्तुतिः
स्वदेशपण्ये तु शतं बणिज् गृह्णीत पञ्चकं ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयौ ॥०४२॥

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवं ।
अर्थो ऽनुग्रहकृत् कार्यः क्रेतुर्विक्रेतुरेव च ॥०४३॥

गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति ।
सोदयन्तस्य दाप्यो ऽसौ दिग्लाभं वा दिगागते ॥०४४॥

विक्रीतमपि विक्रेयं पूर्वे क्रेतर्यगृह्णति ।
हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥०४५॥

राजदैवोपघातेन पण्ये दोषमुपागते ।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥०४६॥

अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि ।
विक्रीनीते दमस्तत्र तन्मूल्यादद्विगुणो भवेत् ॥०४७॥

क्षयं वृद्धिञ्च बणिजा पण्यानामविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड् भागदण्डभाक् ॥०४८॥

समवायेन बणिजां लाभार्थं कर्म कुर्वतां ।
लभालाभौ यथा द्रव्यं यथा वा संविदा कृतौ ॥०४९॥

प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितं ।
स तद्दयाद्विप्रवाच्च रक्षिताद्दशमांशभाक् ॥०५०॥

अर्थप्रेक्षपणाद्विंशं भागं शुल्कं नृपा हरेत् ।
व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत् ॥०५१॥

मिथ्या वदन् परीमाणं शुल्कस्थानादपक्रमन् ।
दाप्यस्त्वष्टगुणं यश् च सव्याजक्रयविक्रयौ ॥०५२॥

[[४३४]]
विश्वास-प्रस्तुतिः
ज्ञातयो वा हरेयुस्तदागतास्तैर् विना नृपः ॥०५३॥

जिह्मं त्यजेयुर्निर्लोभमशक्तो ऽन्येन कारयेत् ।
अनेन विधिराख्यात ऋत्विक्कर्षकर्मिणां ॥०५४॥

ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी वा तथैवाशुद्धवासकः ॥०५५॥

अन्ये ऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।
द्यूतस्त्रीपानशक्ताश् च शुष्कभिन्नमुखस्वराः ॥०५६॥

परद्रव्यगृहाणाञ्च पृच्छका गूढचारिणः ।
निराया व्ययवन्तश् च विनष्ट द्रव्यविक्रयाः ॥०५७॥

गृहीतः शङ्कया चौर्येनात्मानञ्चेद्विशोधयेत् ।
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥०५८॥

चौरं प्रदाप्यापहृतं घातयेद्विविधैर् बुधैः ।
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ॥०५९॥

घातिते ऽपहृते दोषो ग्रामभर्तुरनिर्गते ।
स्वसीम्नि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति ॥०६०॥

पञ्चग्रामी वहिः क्रोशाद्दशग्राम्य।अथ वा पुनः ।
वन्दिग्राहांस् तथा वाजिकुञ्जराणाञ्च हारिणः ॥०६१॥

प्रसह्य घातिनश् चैव शूलमारोपयेन्नरान् ।
उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ ॥०६२॥

कार्यौ द्वितीयापराधे करपादैकहीनकौ ।
भक्तावकाशाग्न्युदकमन्त्रापकरणव्ययान् ॥०६३॥

दत्त्वा चौरस्य हन्तुर्वा जानतो दम उत्तमः ।
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ॥०६४॥

[[४३५]]
विश्वास-प्रस्तुतिः
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ।
शिलां बद्ध्वा क्षिपेदप्सु नरघ्नीं विषदां स्त्रियं ॥०६५॥

विषाग्निदां निजगुरुनिजापत्यप्रमापणीं ।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥०६६॥

क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।
राजपत्न्य् अभिगामी च दग्धव्यास्तु कटाग्निना ॥०६७॥

पुमान् सङ्ग्रहणे ग्राह्यः केशाकेशिपरस्त्रियाः ।
स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ॥०६८॥

प्रातिलोम्ये बधः पुंसां नार्याः कर्णावकर्तनम् ।
नीवीस्तनप्रावरणनाभिकेशावमर्दनम् ॥०६९॥

अदेशकालसम्भाषं सहावस्थानमेव च ।
स्त्री निषेधे शतं दद्याद् द्विशतन्तु दमं पुमान् ॥०७०॥

प्रतिषेधे तयोर्दण्डो यथा सङ्ग्रहणे तथा ।
पशून् गच्छंश्छतं दाप्यो हीनां स्त्रीं गाश् च मध्यमम् ॥०७१॥

अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्वपि पुमान्दाप्यः पञ्चाशत् पणिकन्दमम् ॥०७२॥

प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
कुबन्धेनाङ्क्य गमयेदन्त्याप्रव्रजितागमे ॥०७३॥

न्यूनं वाप्यधिकं वापि लिखेद्यो राजशासनम् ।
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥०७४॥

अभक्षैर् दूषयन् विप्रं दण्ड उत्तमसाहसम् ।
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ॥०७५॥

[[४३६]]
विश्वास-प्रस्तुतिः
शक्तो ह्य् अमोक्षयन् स्वामी दंष्ट्रिणः शृङ्गिणस् तथा ॥०७६॥

प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ।
अचौरञ्चौरे ऽभिवदन् दाप्यः पञ्चशतं दमं ॥०७७॥

राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा ।
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस् तथा ॥०७८॥

तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ।
राजयानासनारोढुर्दण्डो मध्यमसाहसः ॥०७९॥

द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा ।
विप्रत्वेन च शूद्रस्य जीवतो ऽष्टशतो दमः ॥०८०॥

यो मन्येताजितो ऽस्मीति न्यायेनाभिपराजितः ।
तमायान्तं पुनर्जित्वा दण्डयेद्द्विगुणं दमं ॥०८१॥

राज्ञान्यायेन यो दण्डो गृहीतो वरुणायतं ।
विवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतं ॥०८२॥

धर्मश्चार्थश् च कीर्तिञ्च लोकपङ्क्तिरुपग्रहः ।
प्रजाभ्यो बहुमानञ्च स्वर्गस्थानञ्च शाश्वतम् ॥०८३॥

पश्यतो व्यवहारांश् च गुणाः स्युः सप्त भूपतेः ॥८४॥

{इत्य् आग्नेये महापुराणे वाक्पारुष्यादिप्रकरणं नाम सप्तपञ्चाशदधिकद्विशतत्मो ऽध्यायः ॥ }
[[४३७]]