२५६ सीमाविवादादिनिर्णयः

{अथ षट्पञ्चाशदधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

सीमाविवादादिनिर्णयः

अग्निर् उवाच
सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरा गणाः ।
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥००१॥

मूलम्

नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम् ॥००२॥

सामन्ता वा समङ्ग्रामाश् चत्वारो ऽष्टौ दशापि वा1
रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः ॥००३॥

अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।
अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवत्तकः ॥००४॥

आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिर्ज्ञेयो वर्षाम्वुप्रवहेषु च ॥००५॥

मर्यादायाः प्रभेदेषु क्षेत्रस्य हरणे तथा ।
मर्यादायाश् च दण्ड्याः स्युरधमोत्तममध्यमाः ॥००६॥

न निषेध्यो ऽल्पबाधस्तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥००७॥

स्वामिने यो ऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् ।
उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥००८॥

फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् ।

:न्

[[४२५]]

विश्वास-प्रस्तुतिः

स प्रदाप्यो ऽकृष्टफलं क्षेत्रमन्येन कारयेत् ॥००९॥

मासानष्टौ तु महिषी सत्यघातस्य कारिणी ।
दण्डनीया तदर्धन्तु गौस्तदर्धमजाविकं ॥०१०॥

भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः ।
सममेषां विवीतेपि स्वराष्ट्रं महिषीसमम् ॥०११॥

यावत् सत्यं विनष्टन्तु तावत् क्षेत्री फलं लभेत् ।
पालस्ताड्यो ऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति ॥०१२॥

पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद्दण्डमर्हति ॥०१३॥

महोत्क्षोत्सृष्टपशवः सूतिकागन्तुका च गौः ।
पालो येषान्तु मोच्या दैवराजपरिप्लुताः ॥०१४॥

यथार्पितान् पशून् गोपोः सायं प्रत्यर्पयेत्तथा ।
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥०१५॥

पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥०१६॥

ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा ।
द्विजस्तृणैधःपुष्पाणि सर्वतः स्ववदाहरेत् ॥०१७॥

धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥०१८॥

स्वं लभेतान्यविक्रीतं क्रेतुर्दोषो ऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥०१९॥

नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् ।
देशकालातिपत्तौ वा गृहीत्वा स्वयमर्पयेत् ॥०२०॥

[[४२६]]

विश्वास-प्रस्तुतिः

विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यं समाप्नोति तस्माद्यस्तत्र विक्रयी ॥०२१॥

आगमेनोपभोगेन नष्टं भाव्यमतो ऽन्यथा ।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाप्यभाविते ॥०२२॥

हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षन्नयतिं पणान् ॥०२३॥

शौल्किकैः स्थानपालैर् वा नष्टापहृतमाहृतं ।
अर्वाक् संवत्सरात् स्वामी लभते परतो नृपः ॥०२४॥

पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥०२५॥

स्वकुटुम्बाविरोधेन देयं दारसुतादृते ।
नान्वये सति सर्वस्वं देयं यच्चान्यसंश्रुतम् ॥०२६॥

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत् पुनः ॥०२७॥

दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकं ।
वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां प्रतीक्षणम् ॥०२८॥

अग्नौ सुवर्णमक्षीणं द्विपलं रजते शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्चदशायसि ॥०२९॥

शते दशपलावृद्धिरौर्णे कार्पासिके तथा ।
मध्ये पञ्चपला ज्ञेया सूक्ष्मे तु त्रिपला मता ॥०३०॥

कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिस्तु कौशेये वल्कलेषु च ॥०३१॥

देशं कालञ्च भोगञ्च ज्ञात्वा नष्टे बलाबलम् ।

[[४२७]]

विश्वास-प्रस्तुतिः

द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥०३२॥

बलाद्दासीकृतश् चौरैर् विक्रीतश्चापि मुच्यते ।
स्वामिप्राणप्रदो भक्तत्यागात्तन्निष्क्रयादपि ॥०३३॥

प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः ।
वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥०३४॥

कृतशिल्पोपि निवसेत् कृतकालं गुरोर्गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस्त्रत्फलप्तदः ॥०३५॥

राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद्ब्रूयात् स्वधर्मः पाल्यतामिति ॥०३६॥

निजधर्माविरोधेन यस्तु सामयिको भवेत् ।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥०३७॥

गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥०३८॥

कर्तव्यं वचनं सर्वैः समूहहितवादिभिः ।
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥०३९॥

समूहकार्यप्रहितो यल्लभेत्तत्तदर्पयेत् ।
एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम् ॥०४०॥

वेदज्ञाः शुचयो ऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवादिनां ॥०४१॥

श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः ।
भेदञ्चैषां नृपो रक्षेत् पूर्ववृत्तिञ्च पालयेत् ॥०४२॥

गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥०४३॥

[[४२८]]

विश्वास-प्रस्तुतिः

दाप्यस्तु दशमं भागं बाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥०४४॥

देशं कालञ्च यो ऽतीयात् कर्म कुर्याच्च यो ऽन्यथा ।
तत्र तु स्वामिनश्छन्दो ऽधिकं देयं कृते ऽधिके ॥०४५॥

यो यावत् कुरुते कर्म तावत्तस्य तु वेतनम् ।
उभयोरप्यसाध्यञ्चेत् साध्ये कुर्याद्यथाश्रुतम् ॥०४६॥

अराजदैविकन्नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥०४७॥

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि सन्त्यजन् ।
भृतिमर्धपथे सर्वां प्रदाप्यस्त्याजकोअपि च ॥०४८॥

ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं गतं ।
गृह्णीयाद्धूर्तकितवादितराद्दशकं शतं ॥०४९॥

स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतं ।
जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥०५०॥

प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।
जितं सशभिके स्थाने दापयेदन्यथा न तु ॥०५१॥

द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि ।
राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ॥०५२॥

द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् ।
एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥०५३॥

{इत्य् आग्नेये महापुराणे सीमाविवादादिनिर्णयो नाम षट्पञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }

[[४२९]]

  1. चत्वारो ऽथ दशापि वेति ख॥ , ग॥ , ञ॥ च ↩︎ ↩︎