{अथ पञ्चपञ्चाशदधिकद्विशततमो ऽध्यायः}
दायविभागकथनम्
विश्वास-प्रस्तुतिः
अग्निर् उवाच
विभागञ्चेत् पिता कुर्यादिच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥००१॥
मूलम्

यदि दद्यात् समानंशान् कार्याः पत्न्यः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन वा ॥००२॥

शक्तस्थानीहमानस्य किञ्चिद्दत्वा पृथक् क्रिया ।
न्यूनाधिकविभक्तानां धर्म्यश् च पितृना कृतः ॥००३॥

विभजेयुः सुताः पित्रोरूर्ध्वमृक्थमृणं समम् ।
मातुर्दुहितरः शेषमृणात्ताभ्य ऋते ऽन्नयः ॥००४॥

पितृद्रव्याविनाशेन यदन्यत् स्वयमर्जयेत् ।
मैत्रमौद्वाहिकञ्चैव दायादानान्न तद्भवेत् ॥००५॥

[[४२१]]
विश्वास-प्रस्तुतिः
अनेकपितृकाणान्तु पितृतो भागकल्पना ॥००६॥
मूलम्
अनेकपितृकाणान्तु पितृतो भागकल्पना ॥००६॥
विश्वास-प्रस्तुतिः
भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः ॥००७॥

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥००८॥

क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः ।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥००९॥

पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ।
पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् ॥०१०॥

असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भागिन्यश् च निजादंशाद्दत्वांशन्तु तुरीयकं ॥०११॥

चतुःस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ।
क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः ॥०१२॥

अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।
तत् पुनस्ते समैर् अंशैर् विभजेरन्निति स्थितिः ॥०१३॥

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसावृक्थी पिण्डदाता च धर्मतः ॥०१४॥

औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥०१५॥

गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥०१६॥

क्षतायामक्षतायां वा जातः पौनर्भवः सुतः ।
दद्यान्माता पिता वा यं स पुत्री दत्तको भवेत् ॥०१७॥

[[४२२]]
विश्वास-प्रस्तुतिः
क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्व्यं कृतः ।
दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः ॥०१८॥

उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत् सुतः ।
पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ॥०१९॥

सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ।
जातो ऽपि दास्यां शूद्रस्य कामतो ऽंशहरो भवेत् ॥०२०॥

मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकं ।
अभ्रातृको हरेत् सर्वं दुहितॄणां सुतादृते ॥०२१॥

पत्नी दुहितरश् चैव पितरो भ्रातरस् तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥०२२॥

एषामभावे पूवस्य धनभागुत्तरोत्तरः ।
स्वर्यात्स्य ह्य् अपुत्रस्य सर्ववर्णेष्वयं विधिः ॥०२३॥

वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः ।
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥०२४॥

संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याच्चापहेरेच्चांशं जातस्य च मृतस्य च ॥०२५॥

अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् ।
असंसृष्त्यपि चादद्यात्सोदर्यो नान्यमानृजः ॥०२६॥

पतितस्तत्सुतः क्लीवः पङ्गुरुन्मत्तको जडः ।
अन्धो ऽचिकित्स्यरोगाद्या भर्तव्यास्तु निरंशकाः ॥०२७॥

औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः ।
सुताश् चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ॥०२८॥

[[४२३]]
विश्वास-प्रस्तुतिः
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥०२९॥

पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं ।
आधिवेदनिकुञ्चैव स्त्रीधनं परिकीर्तितं ॥०३०॥

बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ।
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ॥०३१॥

अप्रजास्त्रीधनं भ्रत्तुर्ब्राह्म्यादिषु चतुर्ष्वपि ।
दुहितृणां प्रसूता चेच्छ्रेषे तु पितृगामि तत् ॥०३२॥

दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ।
मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम् ॥०३३॥

दुर्भिक्षे धर्मकार्ये च व्याधौ सम्प्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रिये दातुमर्हति ॥०३४॥

अधिवित्तस्त्रियै दद्यादधिवेदनिकं समम् ।
न दत्तं स्रीधनं यस्यै दत्ते त्वर्धं प्रकीर्तितम् ॥०३५॥

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतिकैः ॥०३६॥

{इत्य् आग्नेये महापुराणे दायविभागो नाम पञ्चपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }
[[४२४]]