{अथ चतुःपञ्चाशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
दिव्यप्रमाणकथनं
अग्निर् उवाच
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥००१॥
मूलम्

पञ्चयज्ञक्रियायुक्ताः साक्षिणः पञ्च वा त्रयः ।
यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः ॥००२॥

[[४१६]]
विश्वास-प्रस्तुतिः
रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ॥००३॥

पतिताप्तान्नसम्बन्धिसहायरिपुतस्कराः ।
अमाक्षिणः सर्वसाक्षी चौर्यपारुष्यसाहसे ॥००४॥

उभयानुमतः साक्षी भवत्येकोपि धर्मवित् ।
अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम् ॥००५॥

राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशके ऽह्ननि ।
न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ॥००६॥

स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ।
साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् ॥००७॥

ये पातककृतां लोका महापातकिनां तथा ।
अग्निदानाञ्च ये लोका ये च स्त्रीबालघातिनां ॥००८॥

तान् सर्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् ।
सुकृतं यत्त्वया किञ्चिज्जन्मान्तरशतैः कृतम् ॥००९॥

तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ।
द्वैधे बहूनां वचनं समेषु गुणिनान्तथा ॥०१०॥

गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ।
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ॥०११॥

अन्यथा वादिनो यस्य ध्रूवस्तस्य पराजयः ।
उक्ते ऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः ॥०१२॥

द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः
पूर्वसाक्षिणः ।
पृथक् पृथग्दण्डनीयाः कूटकृत्साक्षिणस् तथा ॥०१३॥

विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ।
यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत्तमोवृतः ॥०१४॥

[[४१७]]
विश्वास-प्रस्तुतिः
स दाप्यो ऽष्टगुणम् दण्डं ब्राह्मणन्तु विवासयेत् ।
वर्णिनां हि बधो यत्र तत्र साक्ष्य।अनृतं वदेत् ॥०१५॥

यः कश्चिदर्थो ऽभिमतः स्वरुच्या तु परस्परं ।
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥०१६॥

समामासतदर्हाहर् नामजातिस्वगोत्रजैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥०१७॥

समाप्ते ऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मे ऽमुकपुत्रस्य यदत्रोपरिलेखितं ॥०१८॥

साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥०१९॥

अलिपिज्ञ ऋणी यः स्यालेकयेत् स्वमतन्तु सः ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥०२०॥

उभयाभ्यर्थितेनैतन्मया ह्य् अमुकसूनुना ।
लिखितं ह्य् अमुकेनेति लेखको ऽथान्ततो लिखेत् ॥०२१॥

विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितञ्च यत् ।
तत् प्रमाणं स्मृतं सर्वं बलोपधिकृतादृते ॥०२२॥

ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥०२३॥

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने च्छिन्ने तथा दग्धे लेख्यमन्यत्तु कारयेत् ॥०२४॥

सन्दिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितन्तु यत् ।
युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ॥०२५॥

[[४१८]]
विश्वास-प्रस्तुतिः
धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥०२६॥

दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै चान्यत्तु कारयेत् ।
साक्षिमच्च भवेद्यत्तु तद्दातव्यं ससाक्षिकं ॥०२७॥

तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।
महाभियोगेष्वेतानि शीर्षकस्थे ऽभियोक्तरि ॥०२८॥

रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः ।
विनापि शीर्षकात् कुर्यान्नृपद्रोहे ऽथ पातके ॥०२९॥

नासहस्राद्धरेत् फालं न तुलान्न विषन्तथा ।
नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ॥०३०॥

सहस्रार्थे तुलादीनि कोषमल्पे ऽपि दापयेत् ।
शतार्धं दापयेच्छुद्धमशुद्धो दण्डभाग् भवेत् ॥०३१॥

सचेलस्नातमाहूय सूर्योदय उपोषितम् ।
कारयेत्दर्वदिव्यानि नृपब्राह्मणसन्निधौ ॥०३२॥

तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां ।
अग्निर्ज्वलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥०३३॥

तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥०३४॥

आदित्यचन्द्रावनिलो ऽनलश् च द्यौर्भूमिरापोहृदयं यमश् च ।
अहश् च रात्रिश् च उभे च सन्ध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥०३५॥

त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
सत्यं वदस्व कल्याणि संशयान्मां विमोचय ॥०३६॥

[[४१९]]
विश्वास-प्रस्तुतिः
यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय ।
शुद्धश्चेद्गमयोर्ध्वम्मां तुलामित्यभिमन्त्रयेत् ॥०३७॥

करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वप्त्यस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥०३८॥

त्वमेव सर्वभूतानामन्तश् चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यङ्गरे मम ॥०३९॥

तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् ।
अग्निर्वर्णं न्यसेत् पिण्डं हस्तयोरुभयोरपि ॥०४०॥

स तमादाय सप्तैव मण्डलानि शतैर् व्रजेत् ।
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥०४१॥

मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् ।
अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत् ॥०४२॥

पवित्राणां पवित्र त्वं शोध्यं शोधय पावन ।
सत्येन माभिरक्षस्व वरुणेत्यभिशस्तकम् ॥०४३॥

नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ।
समकालमिषुं मुक्तमानीयान्यो जवो नरः ॥०४४॥

यदि तस्मिन्निमग्नाङ्गं पश्येच्च शुद्धिमाप्नुयात् ।
त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थित ॥०४५॥

त्रायस्वास्मादभीशापात् सत्येन भव मे ऽमृतम् ।
एवमुक्त्वा विषं सार्ङ्गं भक्षयेद्धिमशैलजं ॥०४६॥

यस्य वेगैर् विना जीर्णं शुद्धिं तस्य विनिर्दिशेत् ।
देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् ॥०४७॥

[[४२०]]
विश्वास-प्रस्तुतिः
आचतुर्दशमादह्नो यस्य नो राजदैविकम् ॥०४८॥

व्यसनं जायते घोरं स शुद्धः स्यादसंशयम् ।
सत्यवाहनशस्त्राणि गोवीजकनकानि च ॥०४९॥

देवतागुरुपादाश् च इष्टापूर्तकृतानि च ।
इत्येते सुकराः प्रोक्ताः शपथाः स्वल्पसंशये ॥०५०॥

{इत्य् आग्नेये महापुराणे दिव्यानि प्रमाणानि नाम चतुःपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }