{अथ त्रिपञ्चाशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
व्यवहारकथनं
अग्निर् उवाच
गृहीतार्थः क्रमाद्दाप्यो धनिनामधमर्णिकः ।
दत्वा तु ब्राह्मणायादौ नृपतेस्तदनन्तरम् ॥००१॥
मूलम्

[[४१३]]
विश्वास-प्रस्तुतिः
राज्ञाधमर्णिको दाप्यः साधिताद्दशकं स्मृतम् ।
पञ्चकन्तु शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णकः ॥००२॥

हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् ।
ब्राह्मणस्तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥००३॥

दीयमानं न गृह्णाति प्रयुक्तं यः स्वकन्धनम् ।
मध्यस्थस्थापितं तत्स्याद्वर्धते न ततः परं ॥००४॥

ऋक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च ।
पुत्रो ऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः ॥००५॥

अविभुक्तैः कुटुम्बार्थं यदृणन्तु कृतम्भवेत् ।
दद्युस्तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥००६॥

न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥००७॥

गोपशौण्डिकशैनूषरजकव्याधयोषितां ।
ऋणं दद्यात्पतिस्त्वासां यस्माद्वृत्तिस्तदाश्रया ॥००८॥

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतं ।
स्वयं कृतं वा यदृणं नान्यस्त्री दातुमर्हति ॥००९॥

पितरि प्रोषिते प्रेते व्यसाभिप्लुते ऽथ वा1 ।
पुत्रपौत्रैर् ऋणन्देयं निह्नवे साक्षिभावितम् ॥०१०॥

सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् ।
वृथा दानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥०११॥

:न्
[[४१४]]
विश्वास-प्रस्तुतिः
प्रतिभाव्यमृणं ग्राह्यमविभक्तेन च स्मृतम्1 ॥०१२॥

दर्शने प्रत्यये दाने प्रतिभाव्यं विधीयते ।
आधौ तु वितथे दाप्या वितथस्य सुता अपि ॥०१३॥

दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिको ऽपि वा ।
न तत्पुत्रा धनं दद्युर्दद्युर्दानाय ये स्थिताः ॥०१४॥

बहवः स्युर्यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्वेषु धनिकस्य यथा रुचि ॥०१५॥

प्रतिभूर्दापितो यत्र प्रकाशं धनिने धनम् ।
द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥०१६॥

स्वसन्ततिस्त्रीपशव्यं धान्यं द्विगुणमेव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस् तथा ॥०१७॥

आधिः प्रणश्येत् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतं नश्येत् फलभोग्यो न नश्यति ॥०१८॥

गोप्याधिभोग्यो नावृद्धिः सोपकारे ऽथ भाविते ।
नष्टो देयो विनष्टश् च दैवराजकृतादृते ॥०१९॥

आधेः स्वीकरणात्सिद्धौरक्षमाणोप्यसारताम् ।
यातश्चेदन्य आधेयो धनभाग् वा धनी भवेत् ॥०२०॥

चरित्रं बन्धककृतं सवृद्धं दापयेद्वनं ।
सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥०२१॥

उपस्थितस्य मोक्तव्य आधिर्दण्डो ऽन्यथा भवेत् ।
प्रयोजके सति धनं कुलेन्यस्याधिमाप्नुयात् ॥०२२॥

[[४१५]]
विश्वास-प्रस्तुतिः
विना धारणकाद्वापि विक्रीणीते ससाक्षिकम् ॥०२३॥

यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।
मोच्यश्चाधिस्तदुत्पाद्य प्रविष्टे द्विगुणे धने ॥०२४॥

व्यसनस्थमनाख्याय हस्ते ऽन्यस्य यदर्पयेत् ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥०२५॥

न दाप्यो ऽपहृतं तत्तु राजदैवकतस्करैः ।
प्रेषश्चेन्मार्गिते दत्ते दाप्यो दण्डश् च तत्समम् ॥०२६॥

आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तच्चापि सोदयं ।
याचितावाहितन्यासे निक्षेपेष्वप्ययं विधिः ॥०२७॥

{इत्य् आग्नेये महापुराणे व्यवहारो नाम त्रिपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }