{अथ द्विपञ्चाशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
व्यवहारकथनं
अग्निर् उवाच
व्यवहारं प्रवक्ष्यामि नयानयविवेकदं ।
चतुष्पाच्च चतुःस्थानश् चतुःसाधन उच्यते ॥००१॥
मूलम्

चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्त्यते ।
अष्टाङ्गो ऽष्टादशपदः शतशाखस्तथैव च ॥००२॥

त्रियोनिर्द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ।
धर्मश् च व्यवहारश् च चरित्रं राजशासनं ॥००३॥

चतुष्पाद्व्यवहाराणामुत्तरः पूर्वसाधकः ।
तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु ॥००४॥

:न्
[[४०७]]
विश्वास-प्रस्तुतिः
चरित्रं सङ्ग्रहे पुंसां राजाज्ञायान्तु शासनं ।
सामाभ्युपायसाध्यत्वाच्चतुःसाधन उच्यते ॥००५॥

चतुर्णामाश्रमाणाञ्च रक्षणात्स चतुर्हितः ।
कर्तारं साक्षिणश् चैव सत्यान्राजानमेव च ॥००६॥

व्याप्नोति पादगो यस्माच्चतुर्व्यापी ततः स्मृतः ।
धर्मस्यार्थस्य यशसो लोकपङ्क्तेस्तथैव च ॥००७॥

चतुर्णाङ्करणादेष चतुष्कारी प्रकीर्तितः ।
राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ॥००८॥

हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः ।
कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्तते ॥००९॥

त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् ।
द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ॥०१०॥

शङ्काषड्भिस्तु संसर्गात्तत्त्वषोढादिदर्शणात् ।
पक्षद्वयाभिसम्बन्धाद्द्विद्वारः समुदाहृतः ॥०११॥

पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः ।
भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृता ॥०१२॥

ऋणन्देयमदेयञ्च येन यत्र यथा च यत् ।
दानग्रहणधर्मश् च ऋणादानमिति स्मृतम् ॥०१३॥

स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।
निक्षेपन्नाम तत् प्रोक्तं व्यवहारपदम्बुधैः ॥०१४॥

वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
तत्सम्भूयसमुप्त्यानं व्यवहारपदं विदुः ॥०१५॥

[[४०८]]
विश्वास-प्रस्तुतिः
दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतं ॥०१६॥

अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥०१७॥

भृत्यानां वेतनस्योक्तादानादानविधिक्रिया ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥०१८॥

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वा प्रहृत्य वा ।
किक्रीयते परोक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥०१९॥

विक्रीय पण्यं मूल्येन क्रेत्रे यच्च न दीयते ।
विक्रीयासम्प्रदानन्तद्विवादपदमुच्यते ॥०२०॥

क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहु मन्यते ।
क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी ॥०२१॥

पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतं ॥०२२॥
मूलम्
पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतं ॥०२२॥
विश्वास-प्रस्तुतिः
सेतुकेदारमर्यादाविकृष्टाकृष्टनिश् चयाः ।
क्षेत्राधिकारे यत्र स्युर्विवादः क्षेत्रजस्तु सः ॥०२३॥

वैवाहिको विधिः स्त्रीनां यत्र पुंसाञ्च कीर्त्यते ।
स्त्रीपुंसयोगसञ्ज्ञन्तु तद्विवादपदं स्मृतम् ॥०२४॥

विभागोर्थस्य पैत्रस्य पुत्रैर् यस्तु प्रकल्प्यते ।
दायमागमिति प्रोक्तं तद्विवादपदं बुधैः ॥०२५॥

सहसा क्रियते कर्म यत् किञ्चित् बलदर्पितैः ।
तत् साहसमिति प्रोक्तं विवादपदमुच्यते ॥०२६॥

देशजातिकुलादीनामाक्रोशत्यङ्गसंयुतम् ।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥०२७॥

[[४०९]]
विश्वास-प्रस्तुतिः
परगात्रेष्वभिद्रेही हस्तपादायुधादिभिः ।
अग्न्यादिभिश् चोपघातैर्(?) दण्डपारुष्यमुच्यते ॥०२८॥

अक्षवज्जशलाकाद्यैर् दैवतं द्यूतमुच्यते ।
पञ्चक्रिडावयोभिश् च प्राणिद्युतसमाह्वयः ॥०२९॥

प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः ।
राज्ञामाज्ञाप्रतोघातस्तत्कर्माकरणन्तथा ॥०३०॥

व्यवहारो ऽष्टादशपदस्तेषां भेदो ऽथ वै शतम् ।
क्रियाभेदान्मनुष्यानां शतशाखो निगद्यते ॥०३१॥

व्यवहारान्नृपः पश्येज् ज्ञानिविप्रैर् अकोपनः ।
शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः ॥०३२॥

अपश्यता1 कार्यवशात् सभ्यैर् विप्रं नियोजयेत् ।
रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ॥०३३॥

सभ्याः पृथक् पृथग् दण्ड्या विवादाद्व्दिगुणो दमः ।
स्मृत्याचारएष्व्यपेतेन मार्गेण धर्षितः परैः ॥०३४॥

आवेदयति यद्राज्ञे व्यवहारपदं हि तत् ।
प्रत्यर्थिनो ऽग्रतो लेख्यं यथा वेदितमर्थिना ॥०३५॥

समामासतदर्धाहर्नामजात्यादिचिह्नितम् ।
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ॥०३६॥

तप्तो ऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ।
तत्सिद्धौ सिद्धमाप्नोति विपरीतमतो ऽन्यथा ॥०३७॥

[[४१०]]
विश्वास-प्रस्तुतिः
अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् ॥०३८॥

अभियुक्तञ्च नान्येन त्यक्तं विप्रकृतिं नयेत् ।
कुर्यात् प्रत्यभियोगन्तु कलहे साहसेषु च ॥०३९॥

उभयोः प्रतिभूर्ग्राह्यः समर्थः काम्यनिर्णये ।
निह्नवे भावितो दद्याद्धनं राज्ञे तु तत्समम् ॥०४०॥

मिथ्याभियोगाद् द्विगुणमभियोगाद्धनं हरेत् ।
साहसस्तेयपारुष्येष्वभिशापात्यये स्त्रियाः ॥०४१॥

विचारयेत्सद्यः एव कालो ऽन्यत्रेच्छया स्मृतः ।
देशाद्देशान्तरं याति सृक्कणी परिलेढि च ॥०४२॥

ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च ।
स्वभावाद्विकृतं गच्छेन्मनोवाक्कायकर्मभिः ॥०४३॥

अभियोगे ऽथ वा साक्ष्ये वाग्दुष्टः परिकीर्तितः ।
सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश् च निष्पतेत् ॥०४४॥

न चाहूतो वदेत् किञ्चिद्धनी दण्ड्यश् च स स्मृतः ।
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ॥०४५॥

पूर्वपक्षे ऽधरीभूते भवन्त्युत्तरवादिनः ।
सगणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् ॥०४६॥

दत्तं पणं वसञ्चैव धनिनो धनमेव च ।
छलन्निरस्य दूतेन व्यवहारान्नयेन्नृपः ॥०४७॥

भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः ।
निह्नुते निखिलानेकमेकदेशविभावितम् ॥०४८॥
मूलम्
भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः ।
निह्नुते निखिलानेकमेकदेशविभावितम् ॥०४८॥
विश्वास-प्रस्तुतिः
दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः ।
स्मृत्योर्विरोधे न्यायस्तु वल्लवान् व्यवहारतः ॥०४९॥

[[४११]]
विश्वास-प्रस्तुतिः
अर्थशास्त्राद्धि बलवद्धर्मशास्त्रमिति स्थितिः1 ।
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति किर्तितम् ॥०५०॥

एषामन्यतमाभावे दिव्यान्यतममुच्यते ।
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ॥०५१॥

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।
पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ॥०५२॥

परेण भुज्यमाना या धनस्य दशवार्षिकी ।
आधिसौमोपनिःक्षेपजडबालधनैर् विना ॥०५३॥
मूलम्
परेण भुज्यमाना या धनस्य दशवार्षिकी ।
आधिसौमोपनिःक्षेपजडबालधनैर् विना ॥०५३॥
विश्वास-प्रस्तुतिः
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ।
आध्यादीनां विहर्तारं धनिने दापयेद्धनं ॥०५४॥

दण्ड्यं च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा ।
आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां ॥०५५॥

आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न ।
आगमेन विशुद्धेन भोगो याति प्रमाणताम् ॥०५६॥

अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति ।
आगमस्तु कृतो येन सो ऽभियुक्तस्तमुद्धरेत् ॥०५७॥

न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ।
योभियुक्तः परेतः स्यात् तस्य ऋक्थात्तमुद्धरेत् ॥०५८॥

न तत्र कारणं भुक्तिरागमेन विनाकृता ।
बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत् ॥०५९॥

स्त्रीनक्तमन्तरागारवहिःशत्रुकृतस् तथा ।
मत्तोन्मत्तार्तव्यसनिबालभीतप्रयोजितः ॥०६०॥

[[४१२]]
विश्वास-प्रस्तुतिः
असम्बद्धकृतश् चैव व्यवहारो न सिद्ध्यति ।
प्रनष्टाधिशतं देयं नृपेण धनिने धनं ॥०६१॥

विभावयेन्नचेल्लिङ्गैस्तत्समं दातुमर्हति ।
देयञ्चौरहृतं द्रव्यं राज्ञा जनपदाय तु ॥०६२॥

अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥०६३॥

सप्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा ॥०६४॥

ग्रामान्तरात्तु दशकं सामुद्रादपि विंशतिं ।
दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥०६५॥

प्रपन्न साधयन्नर्थं न वाच्या नृपतिर्भवेत् ।
साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश् च तद्धनं ॥०६६॥

{इत्य् आग्नेये महापुराणे व्यवहारो नाम द्विपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }