{अथैकपञ्चाशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
धनुर्वेदकथनं
अग्निर् उवाच
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं ।
सम्पातं समुदीशञ्च श्येनपातमथाकुलं ॥००१॥
मूलम्
धनुर्वेदकथनं
अग्निर् उवाच
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं ।
सम्पातं समुदीशञ्च श्येनपातमथाकुलं ॥००१॥
विश्वास-प्रस्तुतिः
उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च ।
अनालक्षितविस्फोटौ करालेन्द्रमहासखौ1 ॥००२॥
मूलम्
उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च ।
अनालक्षितविस्फोटौ करालेन्द्रमहासखौ1 ॥००२॥
विश्वास-प्रस्तुतिः
विकरालनिपातौ च विभीषणभयानकौ ।
समग्रार्धतृतीयांशपादपादर्धवारिजाः ॥००३॥
मूलम्
विकरालनिपातौ च विभीषणभयानकौ ।
समग्रार्धतृतीयांशपादपादर्धवारिजाः ॥००३॥
विश्वास-प्रस्तुतिः
प्रत्यालीढमथालीढं वराहं लुलितन्तथा ।
इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ॥००४॥
मूलम्
प्रत्यालीढमथालीढं वराहं लुलितन्तथा ।
इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ॥००४॥
विश्वास-प्रस्तुतिः
परावृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं ।
ऊर्ध्वात् क्षिप्तमधः क्षिप्तं सन्धारितविधारितं ॥००५॥
मूलम्
परावृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं ।
ऊर्ध्वात् क्षिप्तमधः क्षिप्तं सन्धारितविधारितं ॥००५॥
विश्वास-प्रस्तुतिः
श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च ।
एवमेकादशविधा ज्ञेयाः पाशविधा नराः ॥००६॥
मूलम्
श्येनपातं गजपातं ग्राहग्राह्यन्तथैव च ।
एवमेकादशविधा ज्ञेयाः पाशविधा नराः ॥००६॥
विश्वास-प्रस्तुतिः
ऋज्वायतं विशालञ्च तिर्यग्भ्रामितमेव च ।
पञ्चकर्म विनिर्दिष्टं व्यस्ते पाशे महात्मभिः ॥००७॥
मूलम्
ऋज्वायतं विशालञ्च तिर्यग्भ्रामितमेव च ।
पञ्चकर्म विनिर्दिष्टं व्यस्ते पाशे महात्मभिः ॥००७॥
विश्वास-प्रस्तुतिः
छेदनं भेदनं पातो भ्रमणं शयनं2 तथा ।
विकर्तनं कर्तनञ्च चक्रकर्मेदमेव च ॥००८॥
मूलम्
छेदनं भेदनं पातो भ्रमणं शयनं2 तथा ।
विकर्तनं कर्तनञ्च चक्रकर्मेदमेव च ॥००८॥
:न्
[[४०४]]
विश्वास-प्रस्तुतिः
शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ॥००९॥
मूलम्
शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ॥००९॥
विश्वास-प्रस्तुतिः
दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ।
ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्तितं ॥०१०॥
मूलम्
दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ।
ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्तितं ॥०१०॥
विश्वास-प्रस्तुतिः
आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं ।
ततोर्ध्वगात्रं नमितं वामदक्षिणमेव च ॥०११॥
मूलम्
आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं ।
ततोर्ध्वगात्रं नमितं वामदक्षिणमेव च ॥०११॥
विश्वास-प्रस्तुतिः
आवृत्तञ्च परावृत्तं पादोद्धूतमप्लुतं ।
हंसमर्दं विमर्दञ्च1 गदाकर्म प्रकीर्तितं ॥०१२॥
मूलम्
आवृत्तञ्च परावृत्तं पादोद्धूतमप्लुतं ।
हंसमर्दं विमर्दञ्च1 गदाकर्म प्रकीर्तितं ॥०१२॥
विश्वास-प्रस्तुतिः
करालमवघातञ्च दशोपप्लुतमेव च ।
क्षिप्तहस्तं स्थितं शून्यं पराशोस्तु विनिर्दिशेत् ॥०१३॥
मूलम्
करालमवघातञ्च दशोपप्लुतमेव च ।
क्षिप्तहस्तं स्थितं शून्यं पराशोस्तु विनिर्दिशेत् ॥०१३॥
विश्वास-प्रस्तुतिः
ताडनं छेदनं विप्र तथा चूर्णनमेव च ।
मुद्गरस्य तु कर्माणि तथा प्लवनघातनं ॥०१४॥
मूलम्
ताडनं छेदनं विप्र तथा चूर्णनमेव च ।
मुद्गरस्य तु कर्माणि तथा प्लवनघातनं ॥०१४॥
विश्वास-प्रस्तुतिः
संश्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्धरं ।
भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि ॥०१५॥
मूलम्
संश्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्धरं ।
भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि ॥०१५॥
विश्वास-प्रस्तुतिः
अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम ।
वज्रस्येतानि कर्माणि पट्टिशस्य च तान्यपि ॥०१६॥
मूलम्
अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम ।
वज्रस्येतानि कर्माणि पट्टिशस्य च तान्यपि ॥०१६॥
विश्वास-प्रस्तुतिः
हरणं छेदनं घातो बलोद्धारणमायतं ।
कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ॥०१७॥
मूलम्
हरणं छेदनं घातो बलोद्धारणमायतं ।
कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ॥०१७॥
विश्वास-प्रस्तुतिः
त्रासनं रक्षणं घातो बलोद्धरणमायतम् ।
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ॥०१८॥
मूलम्
त्रासनं रक्षणं घातो बलोद्धरणमायतम् ।
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ॥०१८॥
विश्वास-प्रस्तुतिः
सन्त्यागमवदंशश् च वराहोद्धूतकं तथा ।
हस्तावहस्तमालीनमेकहस्तस्तावहस्तके ॥०१९॥
मूलम्
सन्त्यागमवदंशश् च वराहोद्धूतकं तथा ।
हस्तावहस्तमालीनमेकहस्तस्तावहस्तके ॥०१९॥
:न्
[[४०५]]
विश्वास-प्रस्तुतिः
उरोललाटघाते च भुजाविधमनन्तथा ॥०२०॥
मूलम्
उरोललाटघाते च भुजाविधमनन्तथा ॥०२०॥
विश्वास-प्रस्तुतिः
करोद्धूतं विमानञ्च पादाहति विपादिकं ।
गात्रसंश्लेषणं शान्तं तथा गात्रविपर्ययः ॥०२१॥
मूलम्
करोद्धूतं विमानञ्च पादाहति विपादिकं ।
गात्रसंश्लेषणं शान्तं तथा गात्रविपर्ययः ॥०२१॥
विश्वास-प्रस्तुतिः
ऊर्ध्वप्रहारं घातञ्च गोमूत्रं सव्यदक्षिणे ।
पारन्तारकं दण्डं1 करवीरन्धमाकुलं ॥०२२॥
मूलम्
ऊर्ध्वप्रहारं घातञ्च गोमूत्रं सव्यदक्षिणे ।
पारन्तारकं दण्डं1 करवीरन्धमाकुलं ॥०२२॥
विश्वास-प्रस्तुतिः
तिर्यग्बन्धमपामार्गं2 भीमवेगं सुदर्शनं ।
सिंहाक्रान्तं गजाक्रान्तं गर्दभाक्रान्तमेव च ॥०२३॥
मूलम्
तिर्यग्बन्धमपामार्गं2 भीमवेगं सुदर्शनं ।
सिंहाक्रान्तं गजाक्रान्तं गर्दभाक्रान्तमेव च ॥०२३॥
विश्वास-प्रस्तुतिः
गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च ।
आकर्षणं विकर्षणञ्च बाहूनां मूलमेव च ॥०२४॥
मूलम्
गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च ।
आकर्षणं विकर्षणञ्च बाहूनां मूलमेव च ॥०२४॥
विश्वास-प्रस्तुतिः
ग्रीवाविपरिवर्तञ्च पृष्ठभङ्गं सुदारुणं ।
पर्यासनविपर्यासौ पशुमारमजाविकं ॥०२५॥
मूलम्
ग्रीवाविपरिवर्तञ्च पृष्ठभङ्गं सुदारुणं ।
पर्यासनविपर्यासौ पशुमारमजाविकं ॥०२५॥
विश्वास-प्रस्तुतिः
पादप्रहारमास्फोटं कटिरेचितकन्तथा ।
गात्राश्लेषं स्कन्धगतं महीव्याजनमेव च ॥०२६॥
मूलम्
पादप्रहारमास्फोटं कटिरेचितकन्तथा ।
गात्राश्लेषं स्कन्धगतं महीव्याजनमेव च ॥०२६॥
विश्वास-प्रस्तुतिः
उरोललाटघातञ्च विस्पष्टकरणन्तथा ।
उद्धूतमवधूतञ्च तिर्यङ्मार्गगतं तथा ॥०२७॥
मूलम्
उरोललाटघातञ्च विस्पष्टकरणन्तथा ।
उद्धूतमवधूतञ्च तिर्यङ्मार्गगतं तथा ॥०२७॥
विश्वास-प्रस्तुतिः
गजस्कन्धमवक्षेपमपराङ्मुखमेव च ।
देवमार्गमधोमार्गममार्गगमनाकुलं ॥०२८॥
मूलम्
गजस्कन्धमवक्षेपमपराङ्मुखमेव च ।
देवमार्गमधोमार्गममार्गगमनाकुलं ॥०२८॥
विश्वास-प्रस्तुतिः
यष्टिघातमवक्षेपो वसुधादारणन्तथा ।
जानुबन्धं भुजाबन्धं सुदारुणं ॥०२९॥
मूलम्
यष्टिघातमवक्षेपो वसुधादारणन्तथा ।
जानुबन्धं भुजाबन्धं सुदारुणं ॥०२९॥
विश्वास-प्रस्तुतिः
विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च ।
सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर् गजादिभिः ॥०३०॥
मूलम्
विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च ।
सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर् गजादिभिः ॥०३०॥
:न्
[[४०६]]
विश्वास-प्रस्तुतिः
स्कन्धौ द्वौ च धानुष्कौ द्वौ च खड्गधरौ गजे ॥०३१॥
मूलम्
स्कन्धौ द्वौ च धानुष्कौ द्वौ च खड्गधरौ गजे ॥०३१॥
विश्वास-प्रस्तुतिः
रथे रणे गजे चैव तुरगाणां त्रयं भवेत् ।
धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्य च ॥०३२॥
मूलम्
रथे रणे गजे चैव तुरगाणां त्रयं भवेत् ।
धानुष्काणान्त्रयं प्रोक्तं रक्षार्थे तुरगस्य च ॥०३२॥
विश्वास-प्रस्तुतिः
धन्विनो रक्षणार्थाय चर्मिणन्तु1 नियोजयेत् ।
स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनं ॥०३३॥
मूलम्
धन्विनो रक्षणार्थाय चर्मिणन्तु1 नियोजयेत् ।
स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रन्त्रैलोक्यमोहनं ॥०३३॥
विश्वास-प्रस्तुतिः
यो युद्धे याति च जयेदरीन् सम्पालयेद्भुवं ॥३४॥
मूलम्
यो युद्धे याति च जयेदरीन् सम्पालयेद्भुवं ॥३४॥
{इत्य् आग्नेये महापुराणे धनुर्वेदो नामैकपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }