२५० धनुर्वेदाः

{अथ पञ्चाशदधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

धनुर्वेदकथनम्

अग्निर् उवाच
जितहस्तो जितमतिर्जितदृग्लक्ष्यसाधकः ।
नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् ॥००१॥

मूलम्

दशहस्तो भवेत् पाशो वृत्तः करमुखस् तथा ।
गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्कवर्मिणाम् ॥००२॥

अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् ।
तथा त्रिंशत्समं पाशं बुधः कुर्यात् सुवर्तितम् ॥००३॥

कर्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै तदा ।
वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः ॥००४॥

कुण्डलस्याकृतिं कृत्वा भ्राम्यकं मस्तकोपरि ।

[[४०२]]

विश्वास-प्रस्तुतिः

क्षिपेत् तूर्णमये तूर्णं पुरुषे चर्मवेष्टिते1 ॥००५॥

वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च ।
समयोगविधिं कृत्वा2 प्रयुञ्जीत सुशिक्षितम् ॥००६॥

विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् ।
कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ॥००७॥

दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन तु ।
षडङ्गुलपरीणाहं सप्तहस्तसमुच्छ्रितं ॥००८॥

अयोमय्यः शलाकाश् च वर्माणि विविधानि च ।
अर्धहस्ते समे चैव तिर्यगूर्ध्वगतं तथा ॥००९॥

योजयेद्विधिना येन तथात्वङ्गदतः शृणु ।
तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढं ॥०१०॥

करेणादाय लगूडं दक्षिणाङ्गुलकं नवं ।
उद्यम्य घातयेद्यस्य नाशस्तेन शिशोर्दृढं ॥०११॥

उभाभ्यामथ हस्ताभ्यां कुर्यात्तस्य निपातनं ।
अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्तिता ॥०१२॥

वाहानां श्रमकरणं प्रचारार्थं पुरा तव ॥१३॥

{इत्य् आग्नेये महापुराणे धनुर्वेदो नाम पञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }

:न्

[[४०३]]

  1. वर्मवेष्टिते इति घ॥ ↩︎ ↩︎

  2. ज्ञात्वेति ट॥ ↩︎ ↩︎