{अथोनपञ्चाशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
धनुर्वेदकथनं
अग्निर् उवाच
पूर्णायतं द्विजः कृत्वा ततो मांसैर् गदायुधान् ।
सुनिर्धौतं धनुः कृत्वा यज्ञभूमौ विधापयेत् ॥००१॥
मूलम्

ततो वाणं समागृह्य दंशितः सुसमाहितः ।
तूर्णमासाद्य बध्नीयादृढां कक्षाञ्च दक्षिणाम् ॥००२॥

विलक्ष्यमपि तद्वाणं तत्र चैव सुसंस्थितं ।
ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना ॥००३॥

तेनैव सहितं मध्ये शरं सङ्गृह्य धारयेत् ।
वामहस्तेन वै कक्षां धनुस्तस्मात्समुद्धरेत् ॥००४॥

अविषण्णमतिर्भूत्वा गुणे पुङ्खं निवेशयेत् ।
सम्पीड्य सिंहकर्णेन पुङ्खेनापि समे दृढं ॥००५॥

[[४००]]
विश्वास-प्रस्तुतिः
वामकर्णोपविष्तञ्च फलं वामस्य धारयेत् ।
वर्णान् मध्यमया तत्र वामाङ्गुल्या च धारयेत् ॥००६॥

मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित् ।
दक्षिणे गात्रभागे तु कृत्वा वर्णं विमोक्षयेत् ॥००७॥

ललाटपुटसंस्थानं दण्डं लक्ष्ये निवेशयेत् ।
आकृष्य ताडयेत्तत्र चन्द्रकं षोडशाङ्गुलम् ॥००८॥

मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा तया ।
निगृह्णीयान् मध्यमया ततो ऽङ्गुल्या पुनः पुनः ॥००९॥

अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्रञ्च दक्षिणम् ।
चतुरस्रगतं वेध्यमभ्यसेच्चादितः स्थितः ॥०१०॥

तस्मादनन्तरं तीक्ष्णं परावृत्तं गतञ्च यत् ।
निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्रकन्ततः ॥०११॥

वेध्यस्थानेष्वथैतेषु सत्त्वस्य पुटकाद्धनुः ।
हस्तावापशतैश्चित्रैस्तर्जयेद्दुस्तरैर् अपि ॥०१२॥

तस्मिन्1 वेध्यगते विप्र द्वे वेध्ये दृढसञ्ज्ञके ।
द्वे वेध्ये दुष्करे वेध्ये द्वे तथा चित्रदुष्करे ॥०१३॥

न तु निम्नञ्च2 तीक्ष्णञ्च दृढवेध्ये प्रकीर्तिते ।
निम्नं दुष्करमुद्दिष्टं वेध्यमूर्ध्वगतञ्च यत् ॥०१४॥

मस्तकायनमध्ये तु चित्रदुष्करसञ्ज्ञके ।
एवं वेध्यगणङ्कृत्वा दक्षिणेनेतरेण च ॥०१५॥

आरोहेत् प्रथमं वीरो जितलक्षस्ततो नरः ।
एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः ॥०१६॥

:न्
[[४०१]]
विश्वास-प्रस्तुतिः
अधिकं भ्रमणं तस्य तस्माद्वेध्यात् प्रकीर्तितम् ।
लक्ष्यं स योजयेत्तत्र पत्रिपत्रगतं दृढम् ॥०१७॥

भ्रान्तं प्रचलितञ्चैव स्थिरं यच्च भवेदिति ।
समन्तात्ताडयेद् भिन्द्याच्छेदयेद्व्यथयेदपि ॥०१८॥

कर्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् ।
मनसा चक्षुषा दृष्ट्या योगशिक्षुर्यमं जयेत् ॥०१९॥

{इत्य् आग्नेये महापुराणे धनुर्वेदे नामोनपञ्चाशदधिकद्विशततमो ऽध्यायः ॥ }