{अथाष्टचत्वारिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
धनुर्वेदः
अग्निर् उवाच
चतुष्पादं धनुर्वेदं वेदे पञ्चविधं द्विज ।
रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितं ॥००१॥
मूलम्

यन्मुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा ।
अमुक्तं बाहुयुद्धञ्च पञ्चधा त्यत् प्रकीर्तितं ॥००२॥

[[३९६]]
विश्वास-प्रस्तुतिः
ऋजुमायाविभेदेन भूयो द्विविधमुच्यते ॥००३॥

क्षेपिणी चापयन्त्राद्यैर् यन्त्रमुक्तं प्रकीर्तितं ।
शिलातोमरयन्त्राद्यं पाणिमुक्तं प्रकीर्तितं ॥००४॥

मुक्तसन्धारितं ज्ञेयं प्रासाद्यमपि यद्भवेत् ।
खड्गादिकममुक्तञ्च नियुद्धं विगतायुधं ॥००५॥

कुर्याद्योग्यानि प्रात्राणि योद्धुमिच्छुर्जितश्रमः ।
धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च ॥००६॥

तानि खड्गजघन्यानि बाहुप्रत्यवराणि च ।
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च ॥००७॥

युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया ।
देशस्थैः शङ्करै राज्ञः कार्या युद्धे सहायता ॥००८॥

अङ्गुष्ठगुल्फपाण्यङ्घ्यः श्लिष्टाः स्युः सहिता यदि ।
दृष्टं समपदं स्थानमेतल्लक्षणतस् तथा ॥००९॥

वाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ ।०१०ब
त्रिवितस्त्यन्तरास्थानमेतद्वैशाखमुच्यते ॥०१०॥

हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी ।
चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतं ॥०११॥

हलाकृतिमयं यच्च स्तब्धजानूरुदक्षिणं ।
वितस्त्यः पञ्च विस्तारे तदालीढं प्रकीर्तितं ॥०१२॥

एतदेव विपर्यस्तं प्रत्यालीढमिति स्मृतं1 ।
तिर्यग्भूतो भवेद्वामो दक्षिणो ऽपि भवेदृजुः ॥०१३॥

:न्
[[३९७]]
विश्वास-प्रस्तुतिः
स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतं ॥०१४॥

ऋजुजानुर्भवेद्वामो दक्षिणः सुप्रसारितः ।
अथवा दक्षिणञ्जानु कुब्जं भवति निश् चलं ॥०१५॥

दण्डायतो भवेदेष चरणः सह जानुना ।
एवं विकटमुद्दिष्टं द्विहस्तान्तरमायतं ॥०१६॥

जानुनी द्विगुणे स्यातामुत्तानौ चरणावुभौ ।
अनेन विधियोगेन सम्पुटं परिकीर्तितं ॥०१७॥

किञ्चिद्विवर्तितौ पादौ समदण्डायतौ स्थिरौ ।
दृष्टमेव यथान्यायं षोडशाङ्गुलमायतं ॥०१८॥

स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विज ।
कामुकं गृह्य वामेन वाणं दक्षिणकेन तु ॥०१९॥

वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ ।
गुणान्तन्तु ततः कृत्वा कार्मुके प्रियकार्मुकः ॥०२०॥

अधःकटिन्तु धनुषः फलदेशन्तु पत्रिणः ।
धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च ॥०२१॥

भुजाभ्यामत्र कुञ्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत ।
यस्य वाणं धनुः श्रेष्ठं पुङ्गदेशे च पत्रिणः ॥०२२॥

विन्यासो धनुश् चैव द्वादशाङ्गुलमन्तरं ।
ज्यया विशिष्टः कर्तव्यो नातिहीनो न चाधिकः ॥०२३॥

निवेश्य कार्मुकं नभ्यां नितम्बे शरसङ्करं ।
उत्क्षिपेदुत्थितं हस्तमन्तरेणाक्षिकर्णयोः ॥०२४॥

पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः ।
हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् ॥०२५॥

[[३९८]]
विश्वास-प्रस्तुतिः
नाभ्यन्तरा नैव वाह्या नोर्ध्वका नाधरा तथा ।
न च कुब्जा न चोत्ताना न चला नातिवेष्टिता ॥०२६॥

समा स्थैर्यगुणोपेता पूर्वदण्डमिव स्थिता ।
छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना ॥०२७॥

उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः ।
स्रस्तांशे निश् चलग्रीवो मयूराञ्चितमस्तकः ॥०२८॥

ललाटनासावक्त्रांसाः कुर्युरश्वसमम्भवेत् ।
अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च ॥०२९॥

प्रथमन्त्र्यङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं ।
तृतीये ऽङ्गुलमुदिष्टमायतञ्चिवुकांसयोः ॥०३०॥

गृहीत्वा सायकं पुङ्खात्तर्जन्याङ्गुष्ठकेन तु ।
अनामया पुनर्गृह्य तथा मध्यमयापि च ॥०३१॥

तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः ।
एवं विधमुपक्रम्य मोक्तव्यं विधिवत् खगं ॥०३२॥

दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रतः ।
मुक्त्वा तु1 पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः ॥०३३॥

एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज ।
कूर्परन्तदधः कार्यमाकृष्य तु धनुष्मता ॥०३४॥

ऊर्ध्वं विमुक्तके कार्ये लक्षश्लिष्टन्तु मध्यमं ।
श्रेष्ठं प्रकृष्टं विज्ञेयं
धनुःशास्त्रविशारदैः ॥०३५॥

[[३९९]]
विश्वास-प्रस्तुतिः
एकादश तथा कनीयान्दशमुष्टयः ॥०३६॥
मूलम्
एकादश तथा कनीयान्दशमुष्टयः ॥०३६॥
विश्वास-प्रस्तुतिः
चतुर्हस्तं धनुः श्रेष्ठं त्रयः सार्धन्तु मध्यमं ।
कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः ॥०३७॥

अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्तितं ॥३८॥

{इत्य् आगेन्ये महापुराणे धनुर्वेदो नाम अष्टचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ }