{अथ सप्तचत्वारिंशदधिकद्विशततमो ऽध्यायः}
पुष्पादिपूजाफलं
विश्वास-प्रस्तुतिः
अग्निर् उवाच
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्येषु सिद्धिदः ।
मालती मल्लिका यूथी पाटला करवीरकं ॥००१॥
मूलम्

:न्
[[३९५]]
विश्वास-प्रस्तुतिः
कुब्जकस्तगरो नीपो वाणो वर्वरमल्लिका ॥००२॥

अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ॥००३॥

तुलसीकालतुलसीपत्रं वासकमर्चने ।
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ॥००४॥

नार्कन्नोन्मत्तकङ्काञ्ची पूजने गिरिमल्लिका ।
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ॥००५॥

घृतप्रस्थेन विष्णोश् च स्नानङ्गोकोटिसत्फलं ।
आढकेन तु राजा स्यात् घृतक्षीरैर् दिवं व्रजेत् ॥००६॥