{अथ षट्चत्वारिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वास्तुलक्षणं
अग्निर् उवाच
वास्तुलक्ष्म प्रवक्ष्यामि विप्रादीनां च भूरिह ।
श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥००१॥
मूलम्

घृतरक्तान्नमद्यानां गन्धाढ्या वसतश् च भूः ।
मधुरा च कषाया च अम्लाद्युपरसा क्रमात् ॥००२॥

कुशैः शरैस् तथाकाशैर् दूर्वाभिर्या च संश्रिता ।
प्रार्च्य विप्रांश् च शिःशल्पां खातपूर्वन्तु कल्पयेत् ॥००३॥

चतुःषष्टिपदं कृत्वा मध्ये ब्रह्मा चतुष्पदः ।
प्राक् तेषां वै गृहस्वामी कथितस्तु तथार्यमा ॥००४॥

दक्षिणेन विवस्वांश् च मित्रः पश्चिमतस् तथा ।
उदङ्महीधरश् चैव आपवत्सौ च वह्निगे ॥००५॥

:न्
[[३९२]]
विश्वास-प्रस्तुतिः
रुद्रव्याधी च वायव्ये पूर्वादौ कोणगाद्वहिः ॥००६॥

महेन्द्रश् च रविः सत्यो भृशः1 पूर्वे ऽथ दक्षिणे ।
गृहक्षतो ऽर्यमधृती गन्धर्वाश्चाथ वारुणे ॥००७॥

पुष्पदन्तो ऽसुराश् चैव वरुणो यक्ष एव च ।
सौम्ये भल्लाटसोमौ च अदितिर्धनदस् तथा ॥००८॥

नागः करग्रहश् चैशे अष्टौ दिशि दिशि स्मृताः ।
आद्यन्तौ तु तयोर्देवौ प्रोक्तावत्र गृहेश्वरौ ॥००९॥

पर्जन्यः प्रथमो देवो द्वितीयश् च करग्रहः ।
महेन्द्ररविसत्याश् च भृशो ऽथ गगनन्तथा ॥०१०॥

पवनः पूर्वतश् चैव अन्तरीक्षधनेश्वरौ ।
आग्नेये चाथ नैरृत्ये मृगसुग्रीवकौ सुरौ ॥०११॥

रोगो मुख्यश् च वायव्ये दक्षिणे पुष्पवित्तदौ ।
गृहक्षतो यमभृशौ गन्धर्वो नागपैतृकः ॥०१२॥

आप्ये दौवारिकसुग्रीवौ पुष्पदन्तो ऽसुरो जलं ।
यक्ष्मा रोगश् च शोषश् च उत्तरे नागराजकः ॥०१३॥

मुख्यो भल्लाटशशिनौ अदितिश् च कुवेरकः ।
नागो हुताशः श्रेष्ठो वै2 शक्रसूर्यौ च पूर्वतः ॥०१४॥

दक्षे गृहक्षतः पुष्प आप्ये सुग्रीव उत्तमः ।
पुष्पदन्तो ह्य् उदग्द्वारि भल्लाटः पुष्पदन्तकः ॥०१५॥

शिलेष्टकादिविन्यासं मन्त्रैः प्रार्च्य सुरांश् चरेत् ।
नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ॥०१६॥

[[३९३]]
विश्वास-प्रस्तुतिः
जये भार्गववदायादे प्रजानाञ्जयमाहवे1 ।
पूर्णे ऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ॥०१७॥

भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।
सर्ववीजसमायुक्ते सर्वरत्नौषधैर् वृते ॥०१८॥

रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ।
प्रजापतिसुते देवि चतुरस्रे महीमये ॥०१९॥

सुभगे सुव्रते भद्रे गृहे कश्यपि रम्यतां ।
पूजिते परमाचार्यैर् गन्धमाल्यैर् अलङ्कृते2 ॥०२०॥

भवभूतिकरे देवि गृहे भार्गवि रम्यतां ।
अव्यङ्ग्ये चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥०२१॥

इष्टके त्वं प्रयच्छेष्टं प्रतिष्टाङ्कारयम्यहं ।
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥०२२॥

मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ।
गृहप्रवेशे ऽपि तथा शिलान्यासं समाचरेत् ॥०२३॥

उत्तरेण शुभः प्लक्षो वटः प्राक् स्याद् गृहादितः ।
उदुम्वरश् च याम्येन पश्चिमे ऽश्वत्थ उत्तमः ॥०२४॥

वामभागे तथोद्यानं कुर्याद्वासं गृहे शुभं ।
सायं प्रातस्तु घर्माप्तौ शीतकाले दिनान्तरे ॥०२५॥

वर्षारात्रे भुयः शोषे सेक्तव्या रोपितद्रुमाः ।
विडङ्गघृटसंयुक्तान् सेचयेच्छीतवारिणा ॥०२६॥

[[३९४]]
विश्वास-प्रस्तुतिः
घृतशीतपयःसेकः फलपुष्पाय दर्वदा ॥०२७॥
मूलम्
घृतशीतपयःसेकः फलपुष्पाय दर्वदा ॥०२७॥
विश्वास-प्रस्तुतिः
मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।
आविकाजसकृच्चूर्णं यवचूर्णं तिलानि च ॥०२८॥

गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ।
उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदं ॥०२९॥

मत्स्योदकेन शीतेन आम्राणां सेक इष्यते1 ।
प्रशस्तं चाप्यशोकानां कामिनीपादताडनं ॥०३०॥

खर्जूरनारिकेलादेर्लवणाद्भिर्विवर्धनं ।
विडङ्गमत्स्यमांसाद्भिः सर्वेषु दोहदं शुभं ॥०३१॥

{इत्य् आग्नेये महापुराणे वास्त्वादिर्नाम षट्तचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ }