{अथ पञ्चचत्वारिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
रत्नपरीक्षा
अग्निर् उवाच
रत्नानां लक्षणं वक्ष्ये रत्नं धार्यमिदं नृपैः ।
वज्रं मरकतं रत्नं पद्मरागञ्च मौक्तिकं ॥००१॥
मूलम्

इन्द्रनीलं महानीलं वैदूर्यं गन्धशस्यकं ।
चन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ॥००२॥

[[३९०]]
विश्वास-प्रस्तुतिः
कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज ।
स्पटिकं राजपट्टञ्च तथा राजमयं शुभं ॥००३॥

सौगन्धिकं तथा गञ्जं शङ्खब्रह्ममयं तथा ।
गोमेदं रुधिराक्षञ्च तथा भल्लातकं द्विज ॥००४॥

धूलीं मरकतञ्चैव तुथकं सीसमेव च ।
पीलुं प्रवालकञ्चैव गिरिवज्रं द्विजोत्तम ॥००५॥

भुजङ्गममणिञ्चैव तथा वज्रमणिं शुभं ।
टिट्टिभञ्च तथा पिण्डं भ्रामरञ्च तथोत्पलं ॥००६॥

सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके ।
अन्तःप्रभत्वं वैमल्यं सुसंस्थानत्वमेव च ॥००७॥

सुधार्या नैव धार्यास्तु निष्प्रभा मलिनास् तथा ।
खण्डाः सशर्करा ये च प्रशस्तं वज्रधरणम् ॥००८॥

अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् ।
षट्कोणं शक्रचापाभं लघु चार्कनिभं शुभम् ॥००९॥

शुकपक्षनिभः स्निग्धः कान्तिमान्विमलस् तथा ।
स्वर्णचूर्णनिभैः सूक्ष्मैर् मरकतश् च विन्दुभिः ॥०१०॥

स्फटिकजाः पद्मरागाः स्यू रागवन्तो ऽतिनिर्मलाः ।
जातवङ्गा भवन्तीह कुरुविन्दसमुद्भवाः ॥०११॥

सौगन्धिकोत्था काषाया मुक्ताफलास्तु शुक्तिजाः ।
विमलास्तेभ्य उत्कृष्टा ये च शङ्खोद्भवा मुने ॥०१२॥

नागदन्तभवाश्चाग्र्याः कुम्भशूकरमत्स्यजाः ।
वेणुनागभवाः श्रेष्ठा मौक्तिकं मेघजं वरं ॥०१३॥

[[३९१]]
विश्वास-प्रस्तुतिः
इन्द्रनीलं शुभं क्षीरे राजते भ्राजते ऽधिकं[^१] ॥०१४॥

रञ्जयेत् स्वप्रभावेण तममूल्यं विनिर्दिशेत् ।
नीलरक्तन्तु वैदूर्यं श्रेष्ठं हारादिकं भजेत्[^२] ॥०१५॥

{इत्य् आग्नेये महापुराणे रत्नपरीक्षा नाम पञ्चचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ }