{अथ चतुश् चत्वारिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
चामरादिलक्षणम्
अग्निर् उवाच
चामरो रुक्मादण्डो ऽग्र्यः छत्रं राज्ञः प्रशस्यते ।
हंसपक्षैर् विरचितं मयूरस्य शुकस्य च ॥००१॥
मूलम्

:न्
[[३८७]]
विश्वास-प्रस्तुतिः
चतुरस्यं ब्राह्मणस्य वृत्तं राज्ञश् च शुक्लकं ॥००२॥

त्रिचतुःपञ्चषट्सप्ताष्टपर्वश् च दण्डकः ।
भद्रासनं क्षीरवृक्षैः पञ्चाशदङ्गुलोच्छ्रयैः1 ॥००३॥

विस्तारेण त्रिहस्तं2 स्यात् सुवर्णाद्यैश् च चित्रितं ।
धनुर्द्रव्यत्रयं लोहं शृङ्गं दारु द्विजोत्तम ॥००४॥

ज्याद्रव्यत्रितयञ्चैव वंशभङ्गत्वचस् तथा ।
दारुचापप्रमाणन्तु श्रेष्ठं हस्तचतुष्टयं ॥००५॥

तदेव समहीनन्तु प्रोक्तं मध्यकनीयसि ।
मुष्टिग्राहनिमित्तानि मध्ये द्रव्याणि कारयेत् ॥००६॥

स्वल्पकोटिस्त्वचा शृङ्गं शार्ङ्गलोहमये द्विज ।
कामिनीभ्रूलताकारा कोटिः कार्या सुसंयुता ॥००७॥

पृथग्वा विप्र मिश्रं वा लौहं शार्ङ्गन्तु कारयेत् ।
शार्ङ्गं समुचितं कार्यं रुक्मविन्दुविभूषितं ॥००८॥

कुटिलं स्फुटितञ्चापं सच्छिद्रञ्च न शस्यते ।
सुवर्णं रजतं ताम्रं कृष्णायो धनुषि स्मृतं ॥००९॥

माहिषं शारभं शार्ङ्गं रौहिषं वा धनुः
शुभं ।
चन्दनं वेतसं सालं धावलङ्ककुभन्तरुः ॥०१०॥

सर्वश्रेष्ठं धनुर्वंशैर् गृहीतैः शरदि श्रितैः ।
पूजयेत्तु धनुः3 खड्गमन्त्रैस्त्रैलोक्यमोहनैः ॥०११॥

अयसश्चाथ वंशस्य शरस्याप्यशरस्य च ।
ऋत्विजो हेमवार्णाभाः स्नायुश्लिष्टाः सुपत्रकाः ॥०१२॥

[[३८८]]
विश्वास-प्रस्तुतिः
रुक्मपुङ्खाः सुपङ्कास्ते तैलधौताः सुवर्णकाः ।
यात्रायामभिषेकादौ यजेद्वाणधनुर्मुखान् ॥०१३॥

सपताकास्त्रसङ्ग्राहसांवत्सरकरान्नृपः ।
ब्रह्मा वै मेरुशिखरे स्वर्गगङ्गातटे ऽयजत् ॥०१४॥

लौहदैत्यं स ददृशे विध्नं यज्ञे तु चिन्तयन् ।
तस्य चिन्तयतो वह्नेः पुरुषो ऽभूद्वली महान् ॥०१५॥

ववन्दे ऽजञ्च तन्देवा अभ्यनन्दन्त हर्षिताः1 ।
तस्मात्स नन्दकः2 कड्गो देवोक्तो हरिरग्रहीत् ॥०१६॥

तं जग्राह शनैर् देवो3 विकोषः सो ऽभ्यपद्यत ।
खड्गो नीलो रत्नमुष्टिस्ततो ऽभूच्छतबाहुकः ॥०१७॥

दैत्यः स गदया देवान् द्रावयामास वै रणे ।
विष्णुना खड्गच्छिन्नानि दैत्यगात्राणि भूतले ॥०१८॥

पतितानि तु संस्पर्शान्नन्दकस्य च तानि हि ।
लोहभूतानि सर्वाणि हत्वा तस्मै हरिर्वरं ॥०१९॥

ददौ पवित्रमङ्गन्ते आयुधाय भवेद्भुवि ।
हरिप्रसादाद् ब्रह्मापि विना विघ्नं हरिं प्रभुं ॥०२०॥

पूजयामास यज्ञेन वक्ष्ये ऽथो खड्गलक्षणं ।
खटीखट्टरजाता ये दशनीयास्तुते स्मृताः ॥०२१॥

कायच्छिदस्त्वाषिकाः स्युर्दृढाः सूर्पारकोद्भवाः ।
तीक्ष्णाश्छेदसहा वङ्गास्तीक्ष्णाः
स्युश्चाङ्गदेशजाः ॥०२२॥

[[३८९]]
विश्वास-प्रस्तुतिः
तदर्धं मध्यमं ज्ञेयं ततो हीनं न धारयेत् ॥०२३॥

दीर्घं सुमधुरं शब्दं युस्य खड्गस्य सत्तम ।
किङ्किणीसदृशन्तस्य धारणं श्रेष्ठमुच्यते ॥०२४॥

खड्गः पद्मपलाशाग्रो मण्डलाग्रश् च शस्यते ।
करवीरदलाग्राभो घृतगन्धो वियत्प्रभः ॥०२५॥

समाङ्गुलस्थाः शस्यन्ते व्रणाः खद्गेषु लिङ्गवत् ।
काकोलूकसवर्णाभा विषमास्ते न शोभनाः ॥०२६॥

खड्गे न पश्येद्वदनमुच्छिष्टो न स्पृशेदसिं ।
मूल्यं जातिं न कथयेन्निशि कुर्यान्न शीर्षके ॥०२७॥

{इत्य् आग्नेये महापुराणे आयुधलक्षणादिर्नाम चतुश् चत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ }