{अथ त्रिचत्वारिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
स्त्रीलक्षणं
समुद्र उवाच
शस्ता स्त्री1 चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।
गुरूरुजघना या च मत्तपारावतेक्षणा ॥००१॥
मूलम्
स्त्रीलक्षणं
समुद्र उवाच
शस्ता स्त्री1 चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।
गुरूरुजघना या च मत्तपारावतेक्षणा ॥००१॥
:न्
[[३८६]]
विश्वास-प्रस्तुतिः
समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ॥००२॥
मूलम्
समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ॥००२॥
विश्वास-प्रस्तुतिः
नाभिः प्रदक्षिणावर्ता गुह्यमश्वत्थपत्रवत् ।
गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ॥००३॥
मूलम्
नाभिः प्रदक्षिणावर्ता गुह्यमश्वत्थपत्रवत् ।
गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ॥००३॥
विश्वास-प्रस्तुतिः
जठरन्न प्रलम्बञ्च रोमरूक्षा न शोभना ।
नर्क्षवृक्षनदीनाम्नी न सदा1 कलहप्रिया ॥००४॥
मूलम्
जठरन्न प्रलम्बञ्च रोमरूक्षा न शोभना ।
नर्क्षवृक्षनदीनाम्नी न सदा1 कलहप्रिया ॥००४॥
विश्वास-प्रस्तुतिः
न लोलुपा न दुर्भाषा शुभा देवादिपूजिता ।
गण्डैर् मधूकपुष्पाभैर् न शिराला न लोमशा ॥००५॥
मूलम्
न लोलुपा न दुर्भाषा शुभा देवादिपूजिता ।
गण्डैर् मधूकपुष्पाभैर् न शिराला न लोमशा ॥००५॥
विश्वास-प्रस्तुतिः
न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया ।
अलक्षणापि लक्षण्या यत्राकारास्ततो गुणाः[^२] ॥००६॥
मूलम्
न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया ।
अलक्षणापि लक्षण्या यत्राकारास्ततो गुणाः[^२] ॥००६॥
विश्वास-प्रस्तुतिः
भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा ॥७॥
मूलम्
भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा ॥७॥
{इत्य् आग्नेये महापुराणे स्त्रीलक्षणं नाम त्रिचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ }