{अथ द्विचत्वारिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
पुरुषलक्षणं
अग्निर् उवाच
रामोक्तोक्ता मया नीतिः स्त्रीणां राजन् नृणां वदे ।
लक्षणं यद्समुद्रेण गर्गायोक्तं यथा पुरा ॥००१॥
मूलम्

समुद्र उवाच
पुंसाञ्च लक्षणं वक्ष्ये स्त्रीणाञ्चैव शुभाशुभं ।
एकाधिको द्विशुक्रश् च त्रिगन्भीरस्तथैव च ॥००२॥

त्रित्रिकस्त्रिप्रलम्बश् च त्रिभिर्व्याप्नोति यस् तथा ।
त्रिबलीमांस्त्रिविनतस्त्रिकालज्ञश् च सुव्रत ॥००३॥

पुरुषः स्यात्सुलक्षण्यो विपुलश् च तथा त्रिषु ।
चतुर्लेखस् तथा यश् च तथैव च चतुःसमः ॥००४॥

चतुष्किष्कुश् चतुर्दंष्ट्रः शुक्लकृष्णस्तथैव च ।
चतुर्गन्धश् चतुर्ह्रस्वः सूक्ष्मदीर्घश् च पञ्चसु ॥००५॥

षडुन्नतो ऽष्टवंशश् च सप्तस्नेहो नवामलः ।
दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलः ॥००६॥

चतुर्दशसमद्वन्द्वः षोडशाक्षयश् च शस्यते ।
धर्मार्थकामसंयुक्तो धर्मो ह्य् एकाधिको मतः ॥००७॥

तारकाभ्यां विना नेत्रे शुक्रदन्तो द्विशुक्लकः ।
गम्भीरस्त्रिश्रवो नाभिः सत्त्वञ्चैकं त्रिकं स्मृतं ॥००८॥

अनसूया दया क्षान्तिर्मङ्गलाचारयुक्तता ।
शौचं स्पृहा त्वकार्पण्यमनायासश् च शौर्यता ॥००९॥

[[३८४]]
विश्वास-प्रस्तुतिः
चित्रिकस्त्रिप्रलम्बः स्याद्वृषणे भुजयोर्नरः ।
दिग्देशजातिवर्गांश् च तेजसा यशसा श्रिया ॥०१०॥

व्याप्नोति यस्त्रिकव्यापी त्रिबलीमान्नरस्त्वसौ ।
उदरे बलयस्तिस्रो नरन्त्रिविनतं शृणु ॥०११॥

देवतानां द्विजानाञ्च गुरूणां प्रणतस्तु यः ।
धर्मार्थकामकालज्ञस्त्रिकालज्ञो ऽभिधीयते ॥०१२॥

उरो ललाटं वक्त्रञ्च त्रिविस्तीर्णो विलेखवान् ।
द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ ॥०१३॥

अङ्गुल्यो हृदयं पृष्ठं कटिः शस्तं चतुःसमं ।
षण्णवत्यङ्गुलोत्सेधश् चतुष्किष्कुप्रमाणतः ॥०१४॥

द्रंष्ट्राश् चतस्रश् चन्द्राभाश् चतुःकृष्णं वदामि ते ।
नेत्रतारौ भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च ॥०१५॥

नासायां वदने स्वेदे कक्षयोर्विडगन्धकः ।
ह्रस्वं लिङ्गं तथा ग्रीवा जङ्घे स्याद्वेदह्रस्वकं ॥०१६॥

सूक्ष्माण्यङ्गुलिपर्वाणि नखकेशद्विजत्वचः ।
हनू नेत्रे ललाटे च नासा दीर्घा स्तनान्तरं ॥०१७॥

वक्षः कक्षौ नखा नासोन्नतं वक्त्रं कृकाटिका ।
स्निग्धास्त्वक्केशदन्ताश् च लोम दृष्टिर्नखाश् च वाक् ॥०१८॥

जान्वोरुर्वोश् च पृष्ठस्थ वंशौ द्वौ करनासयोः ।
नेत्रे नासापुटौ कर्णौ मेढ्रं पायुमुखे ऽमलं ॥०१९॥

जिह्वोष्ठे तालुनेत्रे तु हस्तपादौ नखास् तथा ।
शिश्नाग्रवक्त्रं शस्यन्ते पद्माभा दश देहिनां ॥०२०॥

[[३८५]]
विश्वास-प्रस्तुतिः
ललाटमुदरं पृष्ठं वृहन्तः पूजिता दश ॥०२१॥

प्रसारितभुजस्येह मध्यमाग्रद्वयान्तरं ।
उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः ॥०२२॥

पादौ गुल्फौ स्फिचौ पार्श्वौ वङ्क्षणौ वृषणौ कुचौ ।
कर्णौष्ठे सक्थिनी जङ्घे हस्तौ बाहू तथाक्षिणी ॥०२३॥

चतुर्दशसमद्वन्द्व एतत्सामान्यतो नरः ।
विद्याश् चतुर्दश द्व्यक्षैः पश्येद्यः षोडशाक्षकः ॥०२४॥

रूक्षं शिराततं गात्रमशुभं मांसवर्जितं ।
दुर्गन्धिविपरीतं यच्छस्तन्दृष्ट्या प्रसन्नया ॥०२५॥

धन्यस्य मधुरा वाणी गतिर्मत्तेभसन्निभा ।
एककूपभवं रोम भये रक्षा सकृत् सकृत् ॥०२६॥

{इत्य् आग्नेये महापुराणे पुरुषलक्षणं नाम द्विचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ }