{अथ एकचत्वारिंशदधिकद्विशततमो ऽध्यायः}
राजनीतिः
राम उवाच
षड्विधन्तु बलं व्यूह्य देवान् प्रार्च्य रिपुं व्रजेत् ।
मौलं भूतं श्रोणिसुहृद्द्विषदाटविकं बलं ॥००१॥
पूर्वं पूर्वं गरीयस्तु बलानां व्यसनं तथा ।
षडङ्गं मन्त्रकोषाभ्यां पदात्यश्वरथद्विपैः ॥००२॥
नद्यद्रवनदुर्गेषु यत्र यत्र भयं भवेत् ।
[[३७६]]
सेनापतिस्तत्र तत्र गच्छेद्व्यूहीकृतैर् बलैः ॥००३॥
नायकः पुरतो यायात् प्रवीरपुरुषावृतः ।
मध्ये कलत्रं स्वामी च कोषः फल्गु च यद्बलं ॥००४॥
पार्श्वयोरुभयोरश्वा वाजिनां पार्श्वयो रथाः ।
रथानां पार्श्वयोर्नागा नागानां चाटवीबलं ॥००५॥
पश्चात् सेनापतिः सर्वं पुरस्कृत्य कृती स्वयं ।
यायात्सन्नद्धसैन्यौघः खिन्नानाश्वासयञ्च्छनैः ॥००६॥
यायाद्व्यूहेन महता मकरेण पुरोभये ।
श्येनेनोद्धृतपक्षेण सूच्या वा वीरवक्त्रया ॥००७॥
पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसञ्ज्ञितं1 ।
सर्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत् ॥००८॥
कन्दरे शैलगहने निम्नगावनसङ्कटे ।
दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लमं ॥००९॥
व्याधिदुर्भिक्षमरकपीडितं दस्युविद्रुतं ।
पङ्कांशुजलस्कन्धं व्यस्तं पुञ्जीकृतं पथि ॥०१०॥
प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसुस्थितं ।
चौराग्निभयवित्रस्तं वृष्टिवातसमाहतं ॥०११॥
इत्यादौ स्वचमूं रक्षेत् प्रसैन्यं च घतयेत् ।
विशिष्टो देशकालाभ्यां भिन्नविप्रकृतिर्बली ॥०१२॥
कुर्यात् प्रकाशयुद्धं हि कूटयुद्धं विपर्यये ।
तेष्ववस्कन्दकालेषु परं हन्यात्समाकुलं ॥०१३॥
:न्
[[३७७]]
अभूमिष्ठं स्वभूमिष्ठं स्वभूमौ चोपजायतः ।
प्रकृतिप्रग्रहाकृष्टं पाशैर् वनचरादिभिः ॥०१४॥
हन्यात् प्रवीरपुरुषैर् भङ्गदानापकर्षणैः ।
पुरस्ताद्दर्शनं दत्वा तल्लक्षकृतनिश् चयात् ॥०१५॥
हन्यात्पश्चात् प्रवीरेण बलेनोपेत्य वेगिना ।
पश्चाद्वा सङ्कुलीकृत्य हन्याच्छूरेण पूर्वतः ॥०१६॥
आभ्यां पार्श्वाभिघातौ तु व्याख्यातौ कूटयोधने ।
पुरस्ताद्विषमे देशे पश्चाद्धन्यात्तु वेगवान् ॥०१७॥
पुरः पश्चात्तु विषमे एवमेव तु पार्श्वयोः ।
प्रथमं योधयित्वा तु दूष्यामित्राटवीबलौ ॥०१८॥
श्रान्तं मन्दन्निराक्रन्दं हन्यादश्रान्तवाहनं ।
दूष्यामित्रबलैर् वापि भङ्गन्दत्वा प्रयत्नवान् ॥०१९॥
जितमित्येव विश्वस्तं हन्यान्मन्त्रव्यपाश्रयः ।
स्कन्धावारपुरग्रामशस्यस्वामिप्रजादिषु ॥०२०॥
विश्रभ्यन्तं परानीकमप्रमत्तो विनाशयेत् ।
अथवा गोग्रहाकृष्टं तल्लक्ष्यं मार्गबन्धनात् ॥०२१॥
अवस्कन्दभयाद्रात्रिपूजागरकृतश्रमः ।
दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकं ॥०२२॥
निशि विश्रब्धसंसुप्तं नागैर् वा खड्गपाणिभिः ।
प्रयाने पूर्वयायित्वं वनदुर्गप्रवेशनं ॥०२३॥
अभिन्नानामनीकानां भेदनं भिन्नसङ्ग्रहः ।
विभीषकाद्वारघातं कोषरक्षेभकर्म च ॥०२४॥
अभिन्नभेदनं मित्रसन्धानं रथकर्म च ।
[[३७८]]
वनदिङ्मार्गविचये वीवधासारलक्षणं ॥०२५॥
अनुयानापसरणे शीघ्रकार्योपपादनं ।
दीनानुसरणं घातः कोटीनां जघनस्य च ॥०२६॥
अश्वकर्माथ पत्तेश् च सर्वदा शस्त्रधारणं ।
शिविरस्य च मार्गादेः शोधनं वस्तिकर्म च ॥०२७॥
संस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टकं ।
सापसारा पदातीनां भूर्नातिविषमा मता ॥०२८॥
स्वल्पवृक्षोपला क्षिप्रलङ्घनीयनगा स्थिरा ।
निःशर्करा विपङ्का च सापसारा च वाजिभूः ॥०२९॥
निस्थाणुवृक्षकेदारा रथभूमिरकर्दमा ।
मर्दनीयतरुच्छेद्यव्रततीपङ्कवर्जिता ॥०३०॥
निर्झरागम्यशैला1 च विषमा गजमेदिनी ।
उरस्यादीनि भिन्नानि प्रतिगृह्णन् बलानि हि ॥०३१॥
प्रतिग्रह इति ख्यातो राजकार्यान्तरक्षमः ।
तेन शून्यस्तु यो व्यूहः स भिन्न इव लक्ष्यते ॥०३२॥
जयार्थी न च युद्ध्येत मतिमानप्रतिग्रहः ।
यत्र राजा तत्र कोषः कोषाधीना हि राजता ॥०३३॥
योधेभ्यस्तु ततो दद्यात् किञ्चिद्दातुं2 न युज्यते ।
द्रव्यलक्षं राजघाते तदर्धं तत्सुतार्दने ॥०३४॥
सेनापतिबधे तद्वद्दद्याद्धस्त्यादिमर्दने ।
अथवा खलु युध्येरन् प्रत्यश्वरथदन्तिनः ॥०३५॥
:न्
[[३७९]]
यथा भवेदसम्बाधो व्यायामविनिवर्तने ।
असङ्करेण युद्धेरन् सङ्करः सङ्कुलावहः ॥०३६॥
महासङ्कुलयुद्धेषु संश्रयेरन्मतङ्गजं ।
अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास्त्रयः ॥०३७॥
इति कल्प्यास्त्रयश्चाश्वा विधेयाः कुञ्जरस्य तु ।
पादगोपा भवेयुश् च पुरुषा दश पञ्च च ॥०३८॥
विधानमिति नागस्य विहितं स्यन्दनस्य च ।
अनीकमिति विज्ञेयमिति कल्प्या नव द्विपाः ॥०३९॥
तथानीकस्य रन्ध्रन्तु पञ्चधा च प्रचक्षते ।
इत्यनीकविभगेन स्थापयेद् व्यूहसम्पदः ॥०४०॥
उरस्यकक्षपक्षांस्तु कल्प्यानेतान् प्रचक्षते ।
उरःकक्षौ च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः ॥०४१॥
कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह उच्यते ।
उरस्यकक्षपक्षास्तु व्यूहो ऽयं सप्रतिग्रहः ॥०४२॥
गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्जितः ।
तिष्ठेयुः सेनापतयः प्रवीरैः पुरुषैर् वृताः ॥०४३॥
अभेदेन च युध्येरन् रक्षेयुश् च परस्परं ।
मध्यव्यूहे फल्गु सैन्यं युद्धवस्तु जघन्यतः ॥०४४॥
युद्धं हि नायकप्राणं हन्यते तदनायकं ।
उरसि स्थापयेन्नागान् प्रचण्डान् कक्षयो रथान् ॥०४५॥
हयांश् च पक्षयोर्व्यूहो मध्यभेदी प्रकीर्तितः ।
मध्यदेशे हयानीकं रथानीकञ्च कक्षयोः ॥०४६॥
पक्षयोश् च गजानीकं व्यूहोन्तर्भेद्ययं स्मृतः ।
[[३८०]]
रथस्थाने हयान् दद्यात् पदातींश् च हयश्राये ॥०४७॥
रथाभावे तु द्विरदान् व्यूहे सर्वत्र दापयेत् ।
यदि स्याद्दण्डबाहुल्यमाबाधः सम्प्रकीर्तितः ॥०४८॥
मण्डलांसंहतो भोगो दण्डास्ते बहुधा शृणु ।
तिर्यग्वृत्तिस्तु दण्डः स्याद् भोगो ऽन्यावृत्तिरेव च ॥०४९॥
मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ।
प्रदरो दृढको ऽसह्यः चापो वै कुक्षिरेव च ॥०५०॥
प्रतिष्ठः सुप्रतिष्ठश् च श्येनो विजयसञ्जयौ ।
विशालो विजयः शूची स्थूणाकर्णचमूमुखौ ॥०५१॥
सर्पास्यो वलयश् चैव दण्ड दण्डभेदाश् च दुर्जयाः ।
अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकक्षपक्षतः ॥०५२॥
अतिक्रान्तस्तु पक्षाभ्यां त्रयो ऽन्ये तद्विपर्यये ।
पक्षोरस्यैर् अतिक्रान्तः प्रतिष्ठो ऽन्यो विपर्ययः ॥०५३॥
स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः ।
द्विगुणोन्तस्त्वतिक्रान्तपक्षो ऽन्यस्य विपर्ययः ॥०५४॥
द्विचतुर्दण्ड इत्य् एते ज्ञेया लक्षणतः क्रमात् ।
गोमूत्रिकाहिसञ्चारीशकटो मकरस् तथा ॥०५५॥
भोगभेदाः समाख्यातास् तथा परिप्लवङ्गकः ।
दण्डपक्षौ युगारस्यः शकटस्तद्विपर्यये ॥०५६॥
मकरो व्यतिकीर्णश् च शेषः कुञ्जरराजिभिः ।
मण्डलव्यूहभेदौ तु सर्वतोभद्रदुर्जयौ ॥०५७॥
अष्टानीको द्वितीयस्तु प्रथमः सर्वतोमुखः ।
अर्धचन्द्रक ऊर्ध्वाङ्गो वज्रभेदास्तु संहतेः ॥०५८॥
[[३८१]]
तथा कर्कटशृङ्गी च काकपादौ च गोधिका ।
त्रिचतुःसैन्यानां ज्ञेया आकारभेदतः ॥०५९॥
दण्डस्य स्युः सप्तदश व्यूहा द्वौ मण्डलस्य च ।
असङ्घातस्य षट् पञ्च भोगस्यैव तु सङ्गरे ॥०६०॥
पक्षादीनामथैकेन हत्वा शेषैः परिक्षिपेत् ।
उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत्1 ॥०६१॥
परे कोटी समाक्रम्य पक्षाभ्यामप्रतिग्रहात् ।
कोटिभ्याञ्जघनं हन्यादुरसा च प्रपीडयेत् ॥०६२॥
यतः फल्गु यतो भिन्नं यतश्चान्यैर् अधिष्ठितं ।
ततश्चारिबलं हन्यादात्मनश्चोपवृंहयेत् ॥०६३॥
सारं द्विगुणसारेण फल्गुसारेण पीडयेत् ।
संहतञ्च गजानीकैः प्रचण्डैर् दारयेद्बलं ॥०६४॥
स्यात् कक्षपक्षोरस्यश् च वर्तमानस्तु दण्डकः ।
तत्र प्रयोगो डण्डस्य स्थानन्तुर्येण दर्शयेत् ॥०६५॥
स्याद्दण्डसमपक्षाभ्यामतिक्रान्तो दृढः स्मृतः ।
भवेत्स पक्षकक्षाभ्यामतिक्रान्तः प्रदारकः ॥०६६॥
कक्षाभ्याञ्च प्रतिक्रान्तव्यूहो ऽसह्यः स्मृतो यथा ।
कक्षपक्षावधः स्थप्योरस्यैः कान्तश् च खातकः ॥०६७॥
द्वौ दण्डौ बलयः प्रोक्तो कान्तश् च खातकः ।
दुर्जयश् चतुर्वलयः शत्रोर्बलविमर्दनः ॥०६८॥
कक्षपक्षौरस्यैर् भोगो विषयं परिवर्तयन् ।
:न्
[[३८२]]
सर्पचारी गोमूत्रिका शर्कटः शकटाकृतिः ॥०६९॥
विपर्ययो ऽमरः प्रोक्तः सर्वशत्रुविमर्दकः ।
स्यात् कक्षपक्षोरस्यानामेकीभावस्तु मण्डलः ॥०७०॥
चक्रपद्मादयो भेदा मण्डलस्य प्रभेदकाः ।
एवञ्च सर्वतोभद्रो वज्राक्षवरकाकवत् ॥०७१॥
अर्धचन्द्रश् च शृङ्गाटो ह्य् अचलो नामरूपतः1 ।
व्यूहा यथासुखं कर्याः शत्रूणां बलवारणाः ॥०७२॥
अग्निर् उवाच
रामस्तु रावणं हत्वा अयोध्यां प्राप्तवान् द्विज ।
रामोक्तनीत्येन्द्रजितं हतवांल्लक्ष्मणः पुरा ॥०७३॥
{इत्य् आग्नेये महापुराणे रामोक्तराजनीतिर्नाम एकचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[३८३]]