{अथ चत्वारिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
समादिः
राम उवाच
प्रभवोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते ।
प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ॥००१॥
मूलम्

मन्त्रयेतेह कार्याणि नानाप्तैर् नाविपश्चिता ।
अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलं ॥००२॥

अविज्ञातस्य विज्ञानं विज्ञातस्य च निश् चयः ।
अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनं ॥००३॥

सहायाः साधनोपाया विभागो देशकालयोः ।
विपत्तेश् च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते1 ॥००४॥

मनःप्रसादः श्रद्धा च तथा करणपाटवं ।
सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणं ॥००५॥

मदः प्रमादः कामश् च सुप्तप्रलपितानि च ।
भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्यो रमतान्तथा ॥००६॥

प्रगल्भः स्मृतिमान्वाग्मीशस्त्रे शास्त्रे च निष्ठितः ।
अभ्यस्तकर्मा नृपतेर्दूतो भवितुर्मर्हति ॥००७॥

निसृष्टार्थो मितार्थश् च तथा शासनहारकः2 ।
सामर्थ्यात् पादतो हीनो दूतस्तु त्रिविधः स्मृतः ॥००८॥

:न्
[[३७०]]
विश्वास-प्रस्तुतिः
कालमीक्षेत कार्यार्थमनुज्ञातश् च निष्पतेत् ॥००९॥

छिद्रञ्च शत्रोर्जानीयात् कोषमित्रबलानि च ।
रागापरागौ जानीयाद् दृष्टिगात्रविचेष्टितैः1 ॥०१०॥

कुर्याच्चतुर्विधं स्तोर्त्रं पक्षयोरुभयोरपि ।
तपस्विव्यञ्जनोपेतैः सुचरैः2 सह संवसेत् ॥०११॥

चरः प्रकाशो दूतः स्यादप्रकाशश् चरो द्विधा ।
बणिक् कृषीबलो लिङ्गी भिक्षुकाद्यात्मकाश् चराः ॥०१२॥

यायादरिं व्यसनिनं निष्फले3 दूतचेष्टिते ।
प्रकृतव्यसनं यत्स्यात्तत् समीक्ष्य समुत्पतेत् ॥०१३॥

अनयाद्व्यस्यति श्रेयस्तस्मात्तद्व्यसनं स्मृतं ।
हुताशनो जलं व्याधिर्दुर्भिक्षं मरकं तथा ॥०१४॥

इति पञ्चविधं दैवं व्यसनं मानुषं परं ।
दैवं पुरुषकारेण शान्त्या च प्रशमन्नयेत् ॥०१५॥

उत्थापितेन नीत्या च मानुषं व्यसनं हरेत् ।
मन्त्रो मन्त्रफलावाप्तिः कार्यानुष्ठानमायतिः ॥०१६॥

आयव्ययौ दण्डनीतिरमित्रप्रतिषेधनं ।
व्यसनस्य प्रतीकारो राज्यराजाभिरक्षणं ॥०१७॥

इत्यमात्यस्य कर्मेदं हन्ति सव्यसनान्वितः ।
हिरण्यधान्यवस्त्राणि वाहनं प्रजया भवेत् ॥०१८॥

तथान्ये द्रव्यनिचया दन्ति सव्यसना प्रजा ।
प्रजानामापदिस्थानां रक्षणं कोषदण्डयोः ॥०१९॥

[[३७१]]
विश्वास-प्रस्तुतिः
पौराद्याश्चोपकुर्वन्ति संश्रयादिह दुर्दिनं ।
तूष्णीं युद्धं जनत्राणं मित्रामित्रपरिग्रहः ॥०२०॥

सामन्तादि कृते दोषे नश्येत्तद्व्यसनाच्च तत् ।
भृत्यानां भरणं दानं प्रजामित्रपरिग्रहः ॥०२१॥

धर्मकामादिभेदश् च दुर्गसंस्कारभूषणं ।
कोषात्तद्व्यसनाद्धन्ति कोषमूलो हि भूपतिः ॥०२२॥

मित्रामित्रावनीहेमसाधनं रिपुमर्दनं ।
दूरकार्याशुकारित्वं दण्डात्तद्व्यसनाद्धरेत् ॥०२३॥

सस्तम्भयति मित्राणि अमित्रं नाशयत्यपि ।
धनाद्यैर् उपकारित्वं मित्रात्तद्व्यसनाद्धरेत्1 ॥०२४॥

राजा सव्यसनी हन्याद्राजकार्याणि यानि च ।
वाग्दण्डयोश् च पारुष्यमर्थदूषणमेव च ॥०२५॥

पानं स्त्री मृगया द्यूतं व्यसनानि महीपतेः ।
आलस्यं स्तब्धता दर्पः प्रमादो द्वैधकारिता ॥०२६॥

इति पूर्वोपदिष्टञ्च सचिवव्यसनं स्मृतं ।
अनावृष्टिश् च पीडादौ राष्ट्रव्यसनमुच्यते ॥०२७॥

विशीर्णयन्त्रप्राकारपरिखात्वमशस्त्रता ।
क्षीणया सेनया नद्धं दुर्गव्यसनमुच्यते ॥०२८॥

व्ययीकृतः परिक्षिप्तो ऽप्रजितो ऽसञ्चितस् तथा ।
दषितो दरसंस्थश् च कोषव्यसनमुच्यते ॥०२९॥

[[३७२]]
विश्वास-प्रस्तुतिः
अभूतं व्याधितं श्रान्तं दूरायातन्नवागतं ॥०३०॥

परिक्षीणं प्रतिहतं प्रहताग्रतरन्तथा ।
आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च ॥०३१॥
मूलम्
परिक्षीणं प्रतिहतं प्रहताग्रतरन्तथा ।
आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च ॥०३१॥
विश्वास-प्रस्तुतिः
कलत्रगर्भन्निक्षिप्तमन्तःशल्पं तथैव च ।
विच्छिन्नवीवधासारं शून्यमूलं तथैव च ॥०३२॥

अस्वाम्यसंहतं वापि भिन्नकूटं तथैव च ।
दुष्पार्ष्णिग्राहमर्थञ्च बलव्यसनमुच्यते ॥०३३॥

दैवोपपीडितं मित्रं ग्रस्तं शत्रुबलेन च ।
कामक्रोधादिसंयुक्तमुत्साहादरिभिर्भवेत् ॥०३४॥

अर्थस्य दूषणं क्रोधात् पारुष्यं वाक्यदण्डयोः ।
कामजं मृगया द्यूतं व्यसनं पानकं स्त्रियः ॥०३५॥

वाक्पारुष्यं परं लोके उद्वेजनमनर्थकं ।
असिद्धसाधनं दण्डस्तं युक्त्यानयेन्नृपः ॥०३६॥

उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः ।
भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयं ॥०३७॥

विवृद्धाः शत्रवश् चैव विनाशाय भवन्ति ते ।
दूष्यस्य दूषणार्थञ्च परित्यागो महीयसः ॥०३८॥

अर्थस्य नीतितत्त्वज्ञैर् अर्थदूषणमुच्यते ।
पानात् कार्यादिनो ज्ञानं मृगयातो ऽरितः क्षयः ॥०३९॥

जितश्रमार्थं मृगयां विचरेद्रक्षिते वने ।
धर्मार्थप्राणमाशादि द्यूते स्यात् कलहादिकं ॥०४०॥

कालातिपातो धर्मार्थपी।रा स्त्रीव्यसनाद्भवेत् ।
पानदोषात् प्राणनाशः कार्याकार्याविनिश् चयः ॥०४१॥

[[३७३]]
विश्वास-प्रस्तुतिः
स्कन्धावारनिवेशज्ञो निमित्तज्ञो रिपुं जयेत् ।
स्कन्धावारस्य मध्ये तु सकोषं नृपतेर्गृहं ॥०४२॥

मौलीभूतं श्रेणिसुहृद्द्विषदाटविकं बलं ।
राजहर्म्यं समावृत्य क्रमेण विनिवेशयेत्1 ॥०४३॥

सैन्यैकदेशः सन्नद्धः सेनापतिपुरःसरः ।
परिभ्रमेच्चत्वरांश् च मण्डलेन वहिर् निशि ॥०४४॥

वार्ताः स्वका विजानीयाद्दरसीमान्तचारिणः ।
निर्गच्छेत् प्रविशेच्चैव सर्व एवोपलक्षितः ॥०४५॥

सामदानं च भेदश् च दण्डोपेक्षेन्द्रजालकं ।
मायोपायाः सप्त परे निक्षिपेत्साधनाय तान् ॥०४६॥

चतुर्विधं स्मृतं साम उपकारानुकीर्तनात् ।
मिथःसम्बन्ह्दकथनं मृदुपूर्वं च भाषणं ॥०४७॥

आयाते दर्शनं वाचा तवाहमिति चार्पणं ।
यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ॥०४८॥

प्रतिदानं तदा तस्य गृहीतस्यानुमोदनं ।
द्रव्यदानमपूर्वं च स्वयङ्ग्राहप्रवर्तनं2 ॥०४९॥

देयश् च प्रतिमोक्षश् च दानं पञ्चविधं स्मृतं ।
स्नेहरागापनयनसंहर्षोत्पादनं तथा ॥०५०॥

मिथो भेदश् च भेदज्ञैर् भेदश् च त्रिविधः स्मृतः ।
बधो ऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः ॥०५१॥

प्रकाशश्चाप्रकाशश् च लोकद्विष्टान् प्रकाशतः ।
उद्विजेत हतैर् लोकस्तेषु पिण्डः प्रशस्यते ॥०५२॥

[[३७४]]
विश्वास-प्रस्तुतिः
विशेषेणोपनिषिद्योगैर् हन्याच्छस्त्रादिना द्विषः ।
जातिमात्रं द्विजं नैव हन्यात् सामोत्तरं वशे ॥०५३॥

प्रलिम्पन्निव चेतांसि दृष्ट्वासाधु पिबन्निव ।
ग्रसन्निवामृतं साम प्रयुञ्जीत प्रियं वचः ॥०५४॥

मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः ।
राजद्वेषी चातिकर आत्मसम्भावितस् तथा ॥०५५॥

विच्छिन्नधर्मकामार्थः क्रुद्धो मानी विमानितः ।
अकारणात् परित्यक्तः कृतवैरो ऽपि सान्त्वितः ॥०५६॥

हृतद्रव्यकलत्रश् च पूजार्हो ऽप्रतिपूजितः ।
एतांस्तु भेदयेच्छत्रौ स्थितान्नित्यान् सुशङ्कितान् ॥०५७॥

आगतान् पूजयेत् कामैर् निजांश् च प्रशमन्नयेत् ।
सामदृष्टानुसन्धानमत्युग्रभयदर्शनं ॥०५८॥

प्रधानदानमानं च भेदोपायाः प्रकीर्तिताः ।
मित्रं हतं काष्ठमिव घुणजग्धं विशीर्यते ॥०५९॥

त्रिशक्तिर्देशकालज्ञो दण्डेनास्तं नयेदरीन् ।
मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ॥०६०॥

लुब्धं क्षीणञ्च दानेन मित्रानन्योन्यशङ्कया ।
दण्डस्य दर्शनाद्दुष्टान् पुत्रभ्रातादि सामतः ॥०६१॥

दानभेदैश् चमूमुख्यान् योधान्1 जनपददिकान् ।
सामान्ताटविकान् भेददण्डाभ्यामपराद्धकान् ॥०६२॥

देवताप्रतिमानन्तु पूजयान्तर्गतैर् नरैः ।
पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः ॥०६३॥

[[३७५]]
विश्वास-प्रस्तुतिः
वेतालोल्कापिशाचानां शिवानां च स्वरूपकी ।
कामतो रूपधारित्वं शस्त्राग्न्यश्माम्बुवर्षणं ॥०६४॥

तमो ऽनिलो ऽनलो मेघ इति माया ह्य् अमानुषी ।
जघान कीचकं भीम आस्थितः स्त्रीरूपतां ॥०६५॥

अन्याये व्यसने युद्धे प्रवृत्तस्यानिवारणं ।
उपेक्षेयं स्मृता भ्रातोपेक्षितश् च हिडिम्बया ॥०६६॥

मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनं ।
दरस्थानं च सैन्यानां दर्शनं ध्वजशालिनां ॥०६७॥

छिन्नपाटितभिन्नानां संसृतानां च दर्शनं ।
इतीन्द्रजालं द्विषताम्भोत्यर्थमुपकल्पयेत् ॥०६८॥

{इत्य् आग्नेये महापुराणे सामादिर्नाम चत्वारिंशदध्कद्विशततमो ऽध्यायः ॥ }