{अथोनचत्वारिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
षाड्गुण्यं
राम उवाच
मण्डलं चिन्तयेत् मुख्यं राजा द्वादशराजकं ।
अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परं ॥००१॥
मूलम्

:न्
[[३६६]]
विश्वास-प्रस्तुतिः
तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः1 ।
पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरं ॥००२॥

आसारावनयोश् चैवं विजगीषाश् च मण्डलं ।
अरेश् च विजिगीषोश् च मध्यमो भूम्यनन्तरः ॥००३॥

अनुग्रहे संहतयोर् निग्रहे व्यस्तयोः प्रभुः ।
मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः ॥००४॥

अनुग्रहे संहतानां व्यस्तानां च बुधे प्रभुः ।
सन्धिञ्च विग्रहं यानमासानदि वदामि ते ॥००५॥

बलवद्विग्रहीतेन सन्धिं कुर्याच्छिवाय च ।
कपाल उपहारश् च सन्तानः सङ्गतस् तथा ॥००६॥

उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ।
अदृष्टनर आदिष्ट आत्मापि स उपग्रहः ॥००७॥
मूलम्
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ।
अदृष्टनर आदिष्ट आत्मापि स उपग्रहः ॥००७॥
विश्वास-प्रस्तुतिः
परिक्रमस् तथा छिन्नस् तथा च परदूषणं ।
स्कन्धोपयेयः सन्धिश् च सन्धयः षोडशेरिताः ॥००८॥

परस्परोपकारश् च मैत्रः सम्बन्धकस् तथा2 ।
उपहाराश् च चत्वारस्तेषु मुख्याश् च सन्धयः ॥००९॥

बालो वृद्धो दीर्घरोगस् तथा बन्धुवहिष्कृतः ।
मौरुको भीरुकजनो लुब्धो लुब्धजनस् तथा ॥०१०॥

विरक्तप्रकृतिश् चैव विषयेष्वतिशक्तिमान् ।
अनेकचित्तमन्त्रश् च देवब्राह्मणनिन्दकः ॥०११॥

दैवोपहतकश् चैव दैवनिन्दक एव च ।
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥०१२॥

[[३६७]]
विश्वास-प्रस्तुतिः
स्वदेशस्थो बहुरिपुर्मुक्तः कालेन यश् च ह ।
सत्यधर्मव्यपेतश् च विंशतिः पुरुषा अमी ॥०१३॥

एर्तैः सन्धिं न कुर्वीत विगृह्णीयात्तु केबलं ।
परस्परापकारेण पुंसां भवति विग्रहः ॥०१४॥

आत्मनो ऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।
देशकालबलोपेतः प्रारभेतेह विग्रहं1 ॥०१५॥

राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च ।
अपहारी2 मदो मानः पीडा वैषयिकी तथा ॥०१६॥

ज्ञानात्मशक्तिधर्माणां3 विघातो दैवमेव च ।
मित्रार्थञ्चापमानश् च तथा बन्धुविनाशनं ॥०१७॥

भूतानुग्रहविच्छेदस् तथा मण्डलदूषणं ।
एकार्थाभिनिवेशत्वमिति विग्रहयोनयः ॥०१८॥
मूलम्
भूतानुग्रहविच्छेदस् तथा मण्डलदूषणं ।
एकार्थाभिनिवेशत्वमिति विग्रहयोनयः ॥०१८॥
विश्वास-प्रस्तुतिः
सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजं ।
वैरं पञ्चविधं प्रोक्तं साधनैः प्रशमन्नयेत् ॥०१९॥

किञ्चित्फलं निष्फलं वा सन्दिग्धफलमेव च ।
तदात्वे दोषजननमायत्याञ्चैव निष्फलं ॥०२०॥

आयत्याञ्च तदात्वे च दोषसञ्जननं तथा ।
अपरिज्ञातवीर्येण परेण स्तोभितो ऽपि वा ॥०२१॥

परार्थं स्त्रीनिमित्तञ्च दीर्घकालं द्विजैः सह ।
अकालदैवयुक्तेन बलोद्धतसखेन च ॥०२२॥

[[३६८]]
विश्वास-प्रस्तुतिः
तदात्वे फलसंयुक्तमायत्यां फलवर्जितं ।
आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा ॥०२३॥

इतीमं षोडशविधन्नकुर्यादेव विग्रहं ।
तदात्वायतिसंशुद्धं कर्म राजा सदाचरेत् ॥०२४॥

हृष्टं पुष्टं बलं मत्वा गृह्णीयाद्विपरीतकं ।
मित्रमाक्रन्द आसारो यदा स्युर्दृढभक्तयः ॥०२५॥

परस्य विपरीतञ्च तदा विग्रहमाचरेत् ।
विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः ॥०२६॥

उपेक्षया च निपुणैर् यानं पञ्चविधं स्मृतं ।
परस्परस्य सामर्थ्यविघातादासनं स्मृतं ॥०२७॥

अरेश् च विजगीषोश् च यानवत् पञ्चधा स्मृतम् ।
बलिनीर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् ॥०२८॥

द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः ।
उभयोरपि सम्पाते सेवेत बलवत्तरं ॥०२९॥
मूलम्
द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः ।
उभयोरपि सम्पाते सेवेत बलवत्तरं ॥०२९॥
विश्वास-प्रस्तुतिः
यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ ।
तदोपसर्पेत्तच्छत्रुमधिकं वा स्वयं व्रजेत्1 ॥०३०॥

उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः ।
कुलोद्धतं सत्यमार्यमासेवेत बलोत्कटं2 ॥०३१॥

तद्दर्शनोपास्तिकता नित्यन्तद्भावभाविता ।
तत्कारितप्रश्रियता वृत्तं संश्रयिणः श्रुतं ॥०३२॥

{इत्य् आग्नेये महापुराणे षाड्गुण्यं नाम एकोनचत्वार्तिंशदधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[३६९]]