{अथाष्टत्रिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
राजधर्माः
राम उवाच
स्वाम्यमात्यञ्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् ।
परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥००१॥
मूलम्

:न्
[[३६१]]
विश्वास-प्रस्तुतिः
राज्याङ्गानां वरं राष्ट्रं साधनं पालयेत् सदा1 ।
कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता ॥००२॥

अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता ।
दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता ॥००३॥

शक्यसामन्तता चैव तथा च दृढभक्तिता2 ।
दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता ॥००४॥

विनीतत्वं धार्मिकता साधोश् च नृपतेर्गुणाः ।
प्रख्यातवंशमक्रूरं लोकसङ्ग्राहिणं शुचिं ॥००५॥

कुर्वीतात्सहिताङ्क्षी परिचारं महीपतिः ।
वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी ॥००६॥

नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः3 ।
पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया4 ॥००७॥
विश्वास-प्रस्तुतिः
प्रवृत्तान्ववेक्षी च5 सन्धिविग्रहतत्त्ववित् ।
गूढमन्त्रप्रचारज्ञो देशकालविभागवित् ॥००८॥

आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् ।
क्रोधलोभभयद्रोहदम्भचापलवर्जितः ॥००९॥

परोपतापपैशून्यमात्सर्येर्षानृतातिगः ।
वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः ॥०१०॥

गुणानुरागस्थितिमानात्मसम्पद्गुणाः स्मृताः ।
कुलीनाः शुचयः शूराः श्रुतवन्तो ऽनुरागिणः6 ॥०११॥

[[३६२]]
विश्वास-प्रस्तुतिः
दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्महीपतेः ।
सुविग्रहो जानपदः कुलशीककलान्वितः ॥०१२॥

वाग्मी प्रगल्भश् चक्षुष्मानुत्साही प्रतिपत्तिमान् ।
स्तम्भचापलहीनश् च मैत्रः क्लेशसहः शुचिः ॥०१३॥

सत्यसत्त्वधृतिस्थैर्यप्रभावारोग्यसंयुतः ।
कृतशिल्पश् च1 दक्षश् च प्रज्ञावान् धारणान्वितः ॥०१४॥

दृढभक्तिरकर्ता च वैराणां सचिवो भवेत् ।
स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश् चयः2 ॥०१५॥

दृढता मन्त्रगुप्तिश् च मन्त्रिसम्पत् प्रकीर्तिता ।
त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः ॥०१६॥

अथर्वदेवविहितं कुर्याच्छान्तिकपौष्टिकं ।
साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान् ॥०१७॥

चक्षुष्मत्तां च शिल्पञ्च परीक्षेत गुणद्वयं3 ।
स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहं ॥०१८॥

परिकर्मसु दक्षञ्च विज्ञानं धारयिष्णुतां ।
गुणत्रयं परीक्षेत प्रागलभ्यं प्रीतितां तथा4 ॥०१९॥

कथायोगेषु बुद्ध्येत वाग्मित्वं सत्यवादितां ।
उतसाहं च प्रभावं च तथा क्लेशसहिष्णुतां5 ॥०२०॥

धृतिं चैवानुरागं च स्थैर्यञ्चापदि लक्षयेत् ।
भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः ॥०२१॥

[[३६३]]
विश्वास-प्रस्तुतिः
संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च1 ।
अस्तब्धतामचापल्यं वैराणां चाप्यकीर्तनं ॥०२२॥

प्रत्यक्षतो विजानीयाद् भद्रतां क्षुद्रतामपि ।
फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ॥०२३॥

शस्याकरवती पुण्या खनिद्रव्यसमन्विता ।
गोहिता भूरिसलिला पुण्यैर् जनपदैर् युता ॥०२४॥

रम्या सकुञ्जरबला वारिस्थलपथान्विता ।
अदेवमातृका चेति शस्यते भूरिभूतये ॥०२५॥
मूलम्
रम्या सकुञ्जरबला वारिस्थलपथान्विता ।
अदेवमातृका चेति शस्यते भूरिभूतये ॥०२५॥
विश्वास-प्रस्तुतिः
शूद्रकारुवणिक्प्रायो महारम्भः कृषी बलः ।
सानुरागो रिपुद्वेषी पीडासहकरः पृथुः ॥०२६॥

नानादेश्यैः समाकीर्णो धार्मिकः पशुमान् बली ।
ईदृक्जनपदः शस्तो ऽमूर्खव्यसनिनायकः2 ॥०२७॥

पृथुसीमं महाखातमुच्चप्राकारतोरणं3 ।
पुरं समावसेच्छैलसरिन्मरुवनाश्रयं ॥०२८॥
मूलम्
पृथुसीमं महाखातमुच्चप्राकारतोरणं3 ।
पुरं समावसेच्छैलसरिन्मरुवनाश्रयं ॥०२८॥
विश्वास-प्रस्तुतिः
जलवद्धान्यधनवद्दुर्गं कालसहं महत् ।
औदकं पार्वतं वार्क्षमैरिणं धन्विनं च षट् ॥०२९॥

ईप्सितद्रव्यसम्पूर्णः पितृपैतामहोचितः ।
धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये ॥०३०॥

पितृपैतामहो वश्यः संहतो दत्तवेतनः ।
विख्यातपौरुषो जन्यः कुशुलः शकुनैर् वृतः ॥०३१॥

[[३६४]]
विश्वास-प्रस्तुतिः
नानायोधसमाकीर्णौ नीराजितहयद्विपः ॥०३२॥
मूलम्
नानायोधसमाकीर्णौ नीराजितहयद्विपः ॥०३२॥
विश्वास-प्रस्तुतिः
प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः ।
अद्वैधक्षत्रियप्रायो दण्डो दण्डवतां मतः ॥०३३॥

योगविज्ञानसत्त्वारूढ्यं महापक्षं प्रियम्वदं ।
आयातिक्षममद्वैधं मित्रं कुर्वीत सत्कुलं1 ॥०३४॥

दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा ।
वाक् सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः ॥०३५॥

धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं ।
औरसं तत्र सन्नद्धं2 तथा वंशक्रमागतं ॥०३६॥

रक्षितं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्विधं ।
मित्रे गुणाः सत्यताद्याः समानसुखदुखता ॥०३७॥

वक्ष्ये ऽनुजीविनां वृत्ते सेवी सेवेत भूपतिं ।
दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता ॥०३८॥

सन्तोषः शीलमुत्साहो मण्डयत्यनुजीविनं ।
यथाकालमुपासीत राजानं सेवको नयात् ॥०३९॥
मूलम्
सन्तोषः शीलमुत्साहो मण्डयत्यनुजीविनं ।
यथाकालमुपासीत राजानं सेवको नयात् ॥०३९॥
विश्वास-प्रस्तुतिः
परस्थानगमं क्रौर्यमौद्धत्यं मत्सरन्त्यजेत् ।
विगृह्य कथनं भृत्यो न कुर्याज् ज्यायसा सह ॥०४०॥

गुह्यं मर्म च मन्त्रञ्च न च भर्तुः प्रकाशयेत् ।
रक्ताद् वृत्तिं समीहेत विरक्तं सन्त्यजेन्नृपं ॥०४१॥

अकार्ये प्रतिषेधश् च कार्ये चापि प्रवर्तनं ।
सङ्क्षेपादिति सद्वृत्तं बन्धुमित्रानुजीविनां ॥०४२॥

[[३६५]]
विश्वास-प्रस्तुतिः
आजीव्यः सर्वसत्त्वानां राजा पर्जन्यवद्भवेत् ।
आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च ॥०४३॥

कुर्यादुद्योगसम्पन्नानध्यक्षान् सर्वकर्मसु ।
कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं ॥०४४॥

खन्याकरबलादानं शून्यानां च निवेशनं ।
अष्टवर्गमिमं राजा साधुवृत्तो ऽनुपालयेत् ॥०४५॥

आमुक्तिकेभ्यश् चौरेभ्यः पौरेभ्यो राजवल्लभात् ।
पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयं ॥०४६॥

अवेक्ष्यैतद्भयं काले आददीत करं नृपः ।
अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च1 रक्षयेत्2 ॥०४७॥
विश्वास-प्रस्तुतिः
दण्डांस्त दण्डयेद्राजा स्वं रक्षेच्च विषादितः ।
स्त्रियः पुत्रांश् च शत्रुभ्यो विश्वसेन्न कदाचन ॥०४८॥

{इत्य् आग्नेये महापुराणे राजधर्मो नाम अष्टत्रिंशदधिकद्विशततमो ऽध्यायः ॥ }