{अथ सप्तत्रिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
रामोक्तनीतिः
अग्निर् उवाच
नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या ।
जयाय तां प्रवक्ष्यामि शृणु धर्मादिवर्धनीं ॥००१॥
मूलम्

राम उवाच
न्यानेनार्जनमर्थस्य वर्धनं रक्षणं चरेत् ।
सत्पात्रप्रतिपत्तिश् च राजवृत्तं चतुर्विधं ॥००२॥

नयस्य विनयो मूलं विनयः शास्त्रनिश् चयात् ।
विनयो हीन्द्रियजयस्तैर् युक्तः पालयेन्महीं ॥००३॥

शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता ।
उत्साहो वाग्मितौदार्यमापत्कालसहिष्णुता1 ॥००४॥

प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता ।
कुलं शीलं समश्चेति गुणाः सम्पत्तिहेतवः ॥००५॥

:न्
[[३५९]]
विश्वास-प्रस्तुतिः
ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनं ॥००६॥

कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा ।
षड्वर्गमुत्सृजेदेनमस्मिंस्त्यक्ते सुखी नृपः ॥००७॥

आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः ।
तद्वैद्यैस्तत्क्रियोपैतैश्चिन्ततयेद्विनयान्वितः ॥००८॥

आन्वीक्षिक्यार्थविज्ञानं धर्माधर्मौ त्रयीस्थितौ ।
अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ ॥००९॥

अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥०१०॥

प्रजाः समनुगृह्णीयात् कुर्यादाचारसंस्थितिं ।
वाक् सूनृता दया दानं हीनोपगतरक्षणं1 ॥०११॥

इति वृत्तं सतां साधुहितं सत्पुरुषव्रतं ।
आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ॥०१२॥

को हि राजा शरीराय धर्मापेतं समाचरेत् ।
न हि स्वमुखमन्विच्छन्2 पीडयेत् कृपणं जनं ॥०१३॥

कृपणः पीड्यमानो हि मन्युना हन्ति पार्थिवं ।
क्रियते ऽभ्यर्हणीयाय स्वजनाय यथाञ्जलिः ॥०१४॥

ततः साधुतरः कार्यो दुर्जनाय शिवर्थिना ।
प्रियमेवाभिधातव्यं सत्सु नित्यं द्विषत्सु च ॥०१५॥

देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः ।
शुचिरास्तिक्यपूतात्मा पूजयेद्देवताः सदा ॥०१६॥

[[३६०]]
विश्वास-प्रस्तुतिः
देवतावत् गुरुजनमात्मवच्च सुहृज्जनं ।
प्रणिपातेन हि गुरुं सतो ऽमृषानुचेष्टितैः ॥०१७॥

कुर्वीताभिमुखान् भृत्यैर् देवान् सुकृतकर्मणा ।
सद्भावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् ॥०१८॥

स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येतरं जनं ।
अनिन्दा परकृत्येषु स्वधर्मपरिपालनं ॥०१९॥

कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ।
प्राणैर् अप्युपकारित्वं मित्रायाव्यभिचारिणे ॥०२०॥

गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ।
स्वसमृद्धिष्वनुत्सेकः परवृद्धिष्वमत्सरः ॥०२१॥

अपरोपतापि वचनं मौनव्रतचरिष्णुता1 ।
बन्धभिर्बद्धसंयोगः स्वजने चतुरश्रता ॥०२२॥

उचितानुविधायित्वमिति वृत्तं महात्मनां ॥२३॥

{इत्य् आग्नेये महापुराणे रामोक्तनीतिर्नाम सप्तत्रिंशदधिकद्विशततमो ऽध्यायः ॥ }