{अथ षट्त्रिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
श्रीस्तोत्रं
पुष्कर उवाच
राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।
स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥००१॥
मूलम्

इन्द्र उवाच
नमस्ये सर्वलोकानां1 जननीमब्धिसम्भवां2 ।
श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ॥००२॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि ।
सन्धया रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥००३॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥००४॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च ।
सौम्या सौम्यैर् जगद्रूपैस्त्वयैतद्देवि पूरितं ॥००५॥

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥००६॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयं ।
विनष्टप्रायमभवत् त्वयेदानीं समेधितं ॥००७॥

दाराः पुत्रास् तथागारं सुहृद्धान्यधनादिकं ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान् नृणां ॥००८॥

:न्
[[३५७]]
विश्वास-प्रस्तुतिः
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं1 ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभं ॥००९॥

त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्वोइष्णुना चाम्ब जगद्व्याप्तं चराचरं ॥०१०॥

मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं ।
मा शरीरं कलत्रञ्च त्यजेथाः सर्वपावनि ॥०११॥

मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं ।
त्यजेथा मम देवस्य2 विष्णोर्वक्षःस्थलालये3 ॥०१२॥

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥०१३॥

त्वयावलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः ।
कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि ॥०१४॥

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥०१५॥

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥०१६॥

न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।
प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षीः कदाचन ॥०१७॥

एवं स्तुता ददौ श्रीश् च वरमिन्द्राय चेप्सितं ।
सुस्थिरत्वं च राज्यस्य सङ्ग्रामविजयादिकं ॥०१८॥

[[३५८]]
विश्वास-प्रस्तुतिः
स्वस्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदं ।
श्रीस्तोत्रं सततं तस्मात् पठेच्च शृणुयान्नरः ॥०१९॥

{इत्य् अग्नेये महापुराणे श्रीस्तोत्रं नाम षट्त्रिंशदधिकद्विशततमो ऽध्यायः ॥ }