{अथ पञ्चत्रिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
रणदीक्षा
पुष्कर उवाच
यात्राविधानपूर्वन्तु वक्ष्ये साङ्ग्रामिकं विधिं ।
सप्ताहेन यदा यात्रा भविष्यति महीपतेः ॥००१॥
मूलम्

पूजनीयो हरिः शम्भुर्मोदकाद्यैर् विनायकः ।
द्वितीये ऽहनि दिक्पालान् सम्पूज्य शयनञ्चरेत् ॥००२॥

शय्यायां वा तदग्रे ऽथ देवान् प्रार्च्य मनुं स्मरेत् ।
नमः शम्भोः त्रिनेत्राय रुद्राय वरदाय च ॥००३॥

:न्
१ संविशेदिति ज॥
[[३५०]]
विश्वास-प्रस्तुतिः
भगवन्देवदेवेश शूलभृद्वृषवाहन ॥००४॥
मूलम्
भगवन्देवदेवेश शूलभृद्वृषवाहन ॥००४॥
विश्वास-प्रस्तुतिः
इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वत ।
यज्जाग्रतो दूरमिति पुरोधा मन्त्रमुच्चरेत् ॥००५॥

तृतीये ऽहनि दिक्पालान् रुद्रांस्तान् दिक्पतीन्यजेत् ।
ग्रहान् यजेच्चतुर्थे ऽह्नि पञ्चमे चाश्विनौ यजेत् ॥००६॥

मार्गे या देवतास्तासान्नद्यादीनाञ्च पूजनं ।
दिव्यान्तरीक्षभौमस्थदेवानाञ्च तथा बलिः ॥००७॥

रात्रौ भूतगणानाञ्च वासुदेवादिपूजनं ।
भद्रकाल्याः श्रियः कुर्यात् प्रार्थयेत् सर्वदेवताः ॥००८॥

वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।
नारायणो ऽब्जजो विष्णुर् नारसिंहो वराहकः ॥००९॥

शिव ईशस्तत्पुरुषो1 ह्य् अघोरो राम सत्यजः2 ।
सूर्यः सोमः कुजश्चान्द्रिजीवशुक्रशनैश् चराः ॥०१०॥
विश्वास-प्रस्तुतिः
राहुः केतुर्गणपतिः सेनानी चण्डिका ह्य् उमा ।
लक्ष्मीः सरस्वती दुर्गा ब्रह्माणीप्रमुखा गणाः ॥०११॥

रुद्रा इन्द्रादयो वह्निर् नागास्तार्क्ष्यो ऽपरे सुराः ।
दिव्यान्तरीक्षभूमिष्ठा विजयाय भवन्तु मे ॥०१२॥

मर्दयन्तु रणे शत्रून्3 सम्प्रगृह्योपहारकं ।
सपुत्रमातृभृत्यो ऽहं4 देवा वः शरणङ्गतः ॥०१३॥
:न्
[[३५१]]
विश्वास-प्रस्तुतिः
चामूनां पृष्ठतो गत्वा रिपुनाशा नमो ऽस्तु वः1 ।
विनिवृत्तः प्रदास्यामि2 दत्तादभ्यधिकं बलिं ॥०१४॥

षष्ठे ऽह्नि विजयस्नानं कर्तव्यं चाभिषेकवत् ।
यात्रादिने सप्तमे च पूजयेच्च त्रिविक्रमं ॥०१५॥

नीराजनोक्तमन्त्रैश् च आयुधं वाहनं यजेत् ।
पुण्याहजयशब्देन मन्त्रमेतन्निशामयेत् ॥०१६॥

दिव्यान्तरीक्षभूमिष्ठाः सन्त्वायुर्दाः सुराश् च ते ।
देवसिद्धिं प्राप्नुहि त्वं देवयात्रास्तु3 सा तव ॥०१७॥

रक्षन्तु देवताः सर्वा इति श्रुत्वा नृपो व्रजेत् ।
गृहीत्वा सशरञ्चापं धनुर्नागेति मन्त्रत ॥०१८॥

तद्विष्णोरिति जप्त्वाथ दद्याद्रिपुमुखे पदं ।
दक्षिणं पदं द्वात्रिंशद्दिक्षु प्राच्यादिषु क्रमात् ॥०१९॥

नागं रथं हयञ्चैव धुर्यांश् चैवारुहेत् क्रमात् ।
आरुह्य वाद्यैर् गच्छेत् पृष्थतो नावलोकयेत् ॥०२०॥

क्रोशमात्रं गतस्तिष्ठेत् पूजयेद्देवता द्विजान् ।
परदेशं व्रजेत् पश्चादात्मसैन्यं हि पालयन् ॥०२१॥

राजा प्राप्य देवेशन्तु4 देशपालन्तु पालयेत्5 ।
देवानां पूजनं कुर्यान्न छिन्द्यादायमत्र तु ॥०२२॥

[[३५२]]
विश्वास-प्रस्तुतिः
जयं प्राप्यार्चयेद्देवान् दद्याद्दानानि पार्थिवः ॥०२३॥

द्वितीये अहनि सङ्ग्रामो भविष्यति यदा तदा ।
स्नपयेद्गजमश्वादि यजेद्देवं नृपसिंहकं ॥०२४॥

छत्रादिराजलिङ्गानि शस्त्राणि निशि वै गणान् ।
प्रातर्नृसिंहकं पूज्य वाहनाद्यमशेषतः ॥०२५॥

पुरोधसा हुतं पश्येद्वह्निं हुत्वा द्विजान्यजेत् ।
गृहीत्वा सशरञ्चापं गजाद्यारुह्य वै व्रजेत् ॥०२६॥

देशे त्वदृश्यः शत्रूणां कुर्यात् प्रकृतिकल्पनां ।
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ॥०२७॥

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ।
व्यूहाः प्राण्यङ्गरूपाश् च द्रव्यरूपाश् च कीर्तिताः ॥०२८॥

गरुडो मकरव्यूहश् चक्रः श्येनस्तथैव च ।
अर्धचन्द्रश् च वज्रश् च शकटव्यूह एव च ॥०२९॥

मण्डलः सर्वतोभद्रः सूचीव्यूहश् च ते नराः ।
व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना ॥०३०॥

द्वौ पक्षावनुपक्षौ द्वावश्यं पञ्चमं भवेत् ।
एकेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत् ॥०३१॥

भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च ।
न व्यूहकल्पना कार्या राज्ञो भवति कर्हिचित् ॥०३२॥

मूलच्छेदे विनाशः स्यान्न युध्येच्च स्वयन्नृपः ।
सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः ॥०३३॥

भग्नसन्धारणं तत्र योधानां परिकीर्तितं ।
प्रधानभङ्गे सैन्यस्य नाशस्थानं विधीयते ॥०३४॥

[[३५३]]
विश्वास-प्रस्तुतिः
न संहतान्न विरलान्योधान् व्यूहे प्रकल्पयेत् ।
आयुधानान्तु सम्मर्दो यथा न स्यात् परस्परं ॥०३५॥

भेत्तुकामः परानीकं संहतैर् एव भेदयेत् ।
भेदरक्ष्याः परेणापि कर्तव्याः संहतास् तथा ॥०३६॥

व्यूहं भेदावहं कुर्यात् परव्यूहेषु चेच्छया ।
गजस्य पादरक्षार्थाश् चत्वारस्तु तथा द्विज ॥०३७॥

रथस्य चाश्वाश् चत्वारः समास्तस्य च चर्मिणः ।
धन्विनश् चर्मिभिस्तुल्याः पुरस्ताच्चर्मिणो रणे ॥०३८॥

पृष्ठतो धन्विनः प्रश्चाद्धन्विनान्तुरगा रथाः ।
रथानां कुञ्जराः पश्चाद्दातव्याः पृथिवीक्षिता ॥०३९॥

पदातिकुञ्जराश्वानां धर्मकार्यं प्रयत्नतः ।
शूराः प्रमुखतो देयाः स्कन्धमात्रप्रदर्शनं ॥०४०॥

कर्तव्यं भीरुसङ्घेन शत्रुविद्रावकारकं1 ।
दारयन्ति पुरस्तात्तु न देया भीरवः पुरः ॥०४१॥

प्रोत्साहन्त्येव रणे भीरून् शूराः पुरस्थिताः ।
प्रांशवः शकुनाशाश् च ये चाजिह्मेक्षणा2 नराः ॥०४२॥

संहतभ्रूयुगाश् चैव क्रोधना कलहप्रियाः ।
नित्यहृष्टाः प्रहृष्टाश् च शूरा ज्ञेयाश् च
कामिनः ॥०४३॥

संहतानां हतानां च रणापनयनक्रिया3 ।
प्रतियुद्धं गजानाञ्च तोयदानादिकञ्च यत् ॥०४४॥

[[३५४]]
विश्वास-प्रस्तुतिः
आयुधानयनं चैव पत्तिकर्म विधीयते ।
रिपूणां भेत्तुकामानां स्वसैन्यस्य तु रक्षणं ॥०४५॥

भेदनं संहतानाञ्च चर्मिणां कर्म कीर्तितं ।
विमुखीकरणं युद्धे धन्विनां च तथोच्यते ॥०४६॥

दूरापसरणं यानं सुहतस्य तथोच्यते ।
त्रासनं रिपुसैन्यानां रथकर्म तथोच्यते ॥०४७॥

भेदनं संहतानाञ्च भेदानामपि संहतिः ।
प्राकारतोरणाट्टालद्रुमभङ्गश् च सङ्गते ॥०४८॥

पत्तिभूर्विषमा ज्ञेया रथाश्वस्य तथा समा ।
सकर्दमा च नागानां युद्धभूमिरुदाहृता ॥०४९॥

एवं विरचितव्यूहः कृतपृष्ठदिवाकरः ।
तथानुलोमशुक्रार्किदिक्पालमृदुमारुताः ॥०५०॥

योधानुत्तेजयेत्सर्वान्नामगोत्रावदानतः ।
भोगप्राप्त्या च विजये स्वर्गप्राप्त्या मृतस्य च ॥०५१॥

जित्वारीन् भोगसम्प्राप्तिः मृतस्य च परा गतिः ।
निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥०५२॥

शूराणां रक्तमायाति तेन पापन्त्यजन्ति ते ।
धातादिदुःखसहनं रणे तत् परमन्तपः ॥०५३॥

वराप्सरःसहस्राणि यान्ति शूरं रणे मृतं ।
स्वामी सुकृतमादत्ते भग्नानां विनिवर्तिनां ॥०५४॥

ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदे पदे ।
त्यक्त्वा सहायान् यो गच्छेद्देवास्तस्य विनष्टये ॥०५५॥

[[३५५]]
विश्वास-प्रस्तुतिः
धर्मनिष्ठे जयो राज्ञि1 योद्धव्याश् च समाः समैः ॥०५६॥

गजाद्यैश् च गजाद्याश् च न हन्तव्याः पलायिनः ।
न प्रेक्षकाः प्रविष्टाश् च अशस्त्राः प्रतितादयः ॥०५७॥

शान्ते निद्राभिभूते च अर्धोत्तीर्णे नदीवने ।
दुर्दिने कूटयुद्धानि शत्रुनाशार्थमाचरेत् ॥०५८॥

बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे इति ।
प्राप्तं मित्रं बलं भूरि नायको ऽत्र निपातितः ॥०५९॥

सेनानीर्निहताश्चायं भूपतिश्चापि विप्लुतः ।
विद्रुतानान्तु योधानां मुखं घातो विधीयते ॥०६०॥

धूपाश् च देया धर्मज्ञ तथा च परमोहनाः ।
पताकाश् चैव सम्भारो वादित्राणाम् भयावहः ॥०६१॥

सम्प्राप्य विजयं युद्धे देवान्विप्रांश् च संयजेत्2 ।
रत्नानि राजगामीनि अमात्येन कृते रणे ॥०६२॥

तस्य स्त्रियो न कस्यापि रक्ष्यास्ताश् च परस्य च ।
शत्रुं प्राप्य रणे मुक्तं पुत्रवत् परिपालयेत् ॥०६३॥

पुनस्तेन न योद्धव्यं देशाचारादि पालयेत् ।
ततश् च स्वपुरं प्राप्य ध्रुवे भे प्रविशेद् गृहं ॥०६४॥

देवादिपूजनं कुर्याद्रक्षेद्योधकुटुम्बकं ।
संविभागं प्रावाप्तैः कुर्याद् भृत्यजनस्य च ॥०६५॥

{इत्य् आग्नेये महापुराणे रणदीक्षा नाम पञ्चत्रिंअशधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[३५६]]