{अथ चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
प्रात्यहिकराजकर्म
पुष्कर उवाच
अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् ।
द्विमुहूर्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः ॥००१॥
मूलम्

वाद्यवन्दिस्वनैर् गीतैः पश्येद् गूढांस्ततो नरान् ।
विज्ञायते न ये लोकास्तदीया इति केनचित् ॥००२॥

आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ।
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् ॥००३॥

स्नानं कुर्यान्नृपः पश्चाद्दन्तधावनपूर्वकं ।
कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत् ॥००४॥

:न्
[[३४८]]
विश्वास-प्रस्तुतिः
दद्यात्सकाञ्चीं धेनुं द्विजाशीर्वादसंयुतः ॥००५॥

अनुलिप्तो ऽलङ्कृतश् च मुखं पश्येच्च दर्पणे ।
ससुवर्णे धृते राजा शृणुयाद्दिवसादिकं ॥००६॥

औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् ।
पश्चेद् गुरुं तेन दत्ताशीर्वदो ऽथ व्रजेत्सभां ॥००७॥

तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस् तथा ।
प्रकृतीश् च महाभाग प्रतीहारनिवेदिताः ॥००८॥

श्रुत्वेतिहासं कार्याणि कार्याणां कार्यनिर्णयम् ।
व्यवहारन्ततः पश्येन्मन्त्रं कुर्यात्तु मन्त्रिभिः ॥००९॥

नैकेन सहितः कुर्यान्न कुर्याद्बहुभिः सह ।
न च मूर्खैर् नचानाप्तैर् गुप्तं न प्रकटं चरेत्1 ॥०१०॥

मन्त्रं स्वधिष्ठितं कुर्याद्येन राष्ट्रं न बाधते ।
आकारग्रहणे राज्ञो मन्त्ररक्षा परा मता2 ॥०११॥

आकारैर् इङ्गितैः प्रज्ञा मन्त्रं गृह्णन्ति पण्डिताः ।
सांवत्सराणां वैद्यानां मन्त्रिणां वचने रतः ॥०१२॥

राजा विभूतिमाप्नोति3 धारयन्ति नृपं हि ते ।
मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके ॥०१३॥

निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितं ।
हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान् ॥०१४॥

[[३४९]]
विश्वास-प्रस्तुतिः
भूषितो भोजनङ्कुर्याद् दानाद्यैः सुपरीक्षितं ।
भुक्त्वा गृहीतताम्बूलो वामपार्श्वेन संस्थितः1 ॥०१५॥

शास्त्राणि चिन्तयेद् दृष्ट्वा योधान् कोष्ठायुधं गृहं ।
अन्वास्य पश्चिमां सन्ध्यां कार्याणि च विचिन्त्य तु ॥०१६॥

चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् ।
वाद्यगीतैर् अक्षितो ऽन्यैर् एवन्नित्यञ्चरेन्नृपः ॥०१७॥

{इत्य् आग्नेये महापुराणे आजस्रिकं नाम चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः ॥ }