२३३ षाड्गुण्यं

{अथ त्रयस्त्रिंशदधिकद्विशततमो ऽध्यायः}

षाड्गुण्यं

पुष्कर उवाच

विश्वास-प्रस्तुतिः

साम-भेदौ मया प्रोक्तौ
दान-दण्डौ तथैव च ।
दण्डः स्वदेशे कथितः
परदेशे ब्रवीमि ते ॥००१॥

मूलम्

सामभेदौ मया प्रोक्तौ दानदण्डौ तथैव च ।
दण्डः स्वदेशे कथितः परदेशे व्रवीमि ते ॥००१॥

:न्

[[३४५]]

विश्वास-प्रस्तुतिः

प्रकाशश् चाप्रकाशश् च
द्विविधो दण्ड उच्यते ।
लुण्ठनं ग्राम-घातश् च
शस्य-घातो ऽग्नि-दीपनं ॥००२॥

मूलम्

प्रकाशश्चाप्रकाशश् च द्विविधो दण्ड उच्यते ।
लुण्ठनं ग्रामघातश् च शस्यघातो ऽग्निदीपनं ॥००२॥

विश्वास-प्रस्तुतिः

प्रकाशो, ऽथ विषं वह्निर्
विविधैः पुरुषैर् वधः ।
दूषणञ् चैव साधूनाम्
उदकानाञ् च दूषणं ॥००३॥

मूलम्

प्रकाशो ऽथ विषं वह्निर्विविधैः पुरुषैर् वधः ।
दूषणञ्चैव साधूनामुदकानाञ्च दूषणं ॥००३॥

विश्वास-प्रस्तुतिः

दण्ड-प्रणयणं प्रोक्तम्
उपेक्षां शृणु भार्गव ।
यदा मन्यते नृपती
रणेन मम विग्रहः ॥००४॥

मूलम्

दण्डप्रणयणं प्रोक्तमुपेक्षां शृणु भार्गव ।
यदा मन्यते नृपती रणेन मम विग्रहः ॥००४॥

विश्वास-प्रस्तुतिः

अनर्थायानुबन्धः स्यात्
सन्धिना च तथा भवेत् ।
साम-लब्धास्पदञ् चात्र
दानञ् चार्थ-क्षयङ्-करं ॥००५॥

मूलम्

अनर्थायानुबन्धः स्यात् सन्धिना च तथा भवेत् ।
सामलब्धास्पदञ्चात्र दानञ्चार्थक्षयङ्करं ॥००५॥

विश्वास-प्रस्तुतिः

भेद-दण्डानुबन्धः स्यात्
तदोपेक्षां समाश्रयेत्
न चायं मम शक्नोति
किञ्चित् कर्तुम् उपद्रवं ॥००६॥

मूलम्

भेददण्डानुबन्धः स्यात्तदोपेक्षां समाश्रयेत् ।
न चायं मम शक्नोति किञ्चित् कर्तुमुपद्रवं ॥००६॥

विश्वास-प्रस्तुतिः

न चाहम् अस्य शक्नोमि
तत्रोपेक्षां समाश्रयेत्
अवज्ञोपहतस् तत्र राज्ञा
कार्यो रिपुर् भवेत् ॥००७॥

मूलम्

न चाहमस्य शक्नोमि तत्रोपेक्षां समाश्रयेत् ।
अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् ॥००७॥

विश्वास-प्रस्तुतिः

मायोपायं प्रवक्ष्यामि
(धूमकेतुनिभ-)उत्पातैर् अनृतैश् चरत् ।
शत्रोर् उद्वेजनं, शत्रोः
शिबिर-स्थस्य पक्षिणः ॥००८॥

मूलम्

मायोपायं प्रवक्ष्यामि उत्पातैर् अनृतैश् चरत् ।
शत्रोरुद्वेजनं शत्रोः शिबिरस्थस्य पक्षिणः ॥००८॥

विश्वास-प्रस्तुतिः

स्थूलस्य तस्य पुच्छस्थां
कृत्वोल्कां विपुलां द्विज ।
विसृजेच्च ततश् चैवम्
उल्का-पातं प्रदर्शयेत् ॥००९॥

मूलम्

स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज ।
विसृजेच्च ततश् चैवमुल्कापातं प्रदर्शयेत् ॥००९॥

विश्वास-प्रस्तुतिः

एवम् अन्ये दर्शनीया
उत्पाता बहवो ऽपि च ।
उद्वेजनं तथा कुर्यात्
कुहकैर् विविधैर् द्विषां ॥०१०॥

मूलम्

एवमन्ये दर्शनीया उत्पाता बहवो ऽपि च ।
उद्वेजनं तथा कुर्यात् कुहकैर् विविधैर् द्विषां ॥०१०॥

विश्वास-प्रस्तुतिः

सांवत्सरास् तापसाश् च
नाशं ब्रूयुः प्ररस्य च ।
जिगीषुः पृथिवीं राजा
तेन चोद्वेजयेत् परान् ॥०११॥

मूलम्

सांवत्सरास्तापसाश् च नाशं ब्रूयुः प्ररस्य च ।
जिगीषुः पृथिवीं राजा तेन चोद्वेजयेत् परान् ॥०११॥

विश्वास-प्रस्तुतिः

देवतानां प्रसादश्
कीर्तनीयः परस्य तु ।
“आगतन् नो ऽमित्र-बलं
प्रहरध्वम्” अभीतवत् ॥०१२॥ एवं ब्रूयाद् रणे प्राप्ते,
“भग्नाः सर्वे परे” इति ।

मूलम्

देवतानां प्रसादश् च कीर्तनीयः परस्य तु ।
आगतन्नो ऽमित्रबलं प्रहरध्वमभीतवत् ॥०१२॥ एवं ब्रूयाद्रणे प्राप्ते भग्नाः सर्वे परे इति ।

[[३४६]]

विश्वास-प्रस्तुतिः

क्ष्वेडाः(=अस्पष्टा) किल-किलाः कार्या
वाच्यः “शत्रुर् हतस्” तथा ॥०१३॥

मूलम्

क्ष्वेडाः किलकिलाः कार्या वाच्यः शत्रुर्हतस् तथा ॥०१३॥

विश्वास-प्रस्तुतिः

देवाज्ञाबृंहितो राजा
सन्नद्धः समरं प्रति ।
इन्द्र-जालं प्रवक्ष्यामि
इन्द्रं कालेन दर्शयेत् ॥०१४॥

मूलम्

देवाज्ञावृंहितो राजा सन्नद्धः समरं प्रति ।
इन्द्रजालं प्रवक्ष्यामि इन्द्रं कालेन दर्शयेत् ॥०१४॥

विश्वास-प्रस्तुतिः

चतुरङ्गं बलं राजा
सहायार्थं दिवौकसां
बलन् तु दर्शयेत् प्राप्तं
रक्त-वृष्टिञ् चरेद् रिपौ ॥०१५॥

मूलम्

चतुरङ्गं बलं राजा सहायार्थं दिवौकसां ।
बलन्तु दर्शयेत् प्राप्तं रक्तवृष्टिञ्चरेद्रिपौ ॥०१५॥

विश्वास-प्रस्तुतिः

छिन्नानि रिपुशीर्षाणि
प्रासादाग्रेषु दर्शयेत्1
षाड्गुण्यं सम्प्रवक्ष्यामि
तद् वरौ सन्धि-विग्रहौ ॥०१६॥

मूलम्

छिन्नानि रिपुशीर्षाणि प्रासादाग्रेषु दर्शयेत्1
षाड्गुण्यं सम्प्रवक्ष्यामि तद्वरौ सन्धिविग्रहौ ॥०१६॥

विश्वास-प्रस्तुतिः

सन्धिश् च विग्रहश् चैव
यानम् आसनमेव च ।
द्वैधीभावः संशयश्च च
षड्गुणाः परिकीर्तिताः ॥०१७॥

मूलम्

सन्धिश् च विग्रहश् चैव यानमासनमेव च ।
द्वैधीभावः संशयश्च च षड्गुणाः परिकीर्तिताः ॥०१७॥

विश्वास-प्रस्तुतिः

पणबन्धः स्मृतः सन्धिर्
अपकारस्तु विग्रहः
जिगीषोः शत्रु-विषये
यानं यात्राभिधीयते ॥०१८॥

मूलम्

पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः ।
जिगीषोः शत्रुविषये यानं यात्राभिधीयते ॥०१८॥

विश्वास-प्रस्तुतिः

विग्रहेण स्वके देशे
स्थितिर् आसनम् उच्यते ।
बलार्धेन प्रयाणन् तु
द्वैधीभावः स उच्यते ॥०१९॥

मूलम्

विग्रहेण स्वके देशे स्थितिरासनमुच्यते ।
बलार्धेन प्रयाणन्तु द्वैधीभावः स उच्यते ॥०१९॥

विश्वास-प्रस्तुतिः

उदासीनो मध्यमो वा
संश्रयात् संशयः स्मृतः ।
समेन सन्धिर् अन्वेष्यो
ऽहीनेन च बलीयसा ॥०२०॥

मूलम्

उदासीनो मध्यगो वा संश्रयात्संशयः स्मृतः ।
समेन सन्धिरन्वेष्यो ऽहीनेन च बलीयसा ॥०२०॥

विश्वास-प्रस्तुतिः

हीनेन विग्रहः कार्यः
स्वयं राज्ञा बलीयसा ।
तत्रापि शुद्धपार्ष्णिस् तु
बलीयांसं समाश्रयेत् ॥०२१॥

मूलम्

हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ।
तत्रापि शुद्धपार्ष्णिस्तु बलीयांसं समाश्रयेत् ॥०२१॥

विश्वास-प्रस्तुतिः

आसीनः कर्मविच्छेदं
शक्तः कर्तुं रिपोर् यदा ।
अशुद्ध-पार्ष्णिश् चासीत
विगृह्य वसुधाधिपः ॥०२२॥

मूलम्

आसीनः कर्मविच्छेदं शक्तः कर्तुं रिपोर्यदा ।
अशुद्धपार्ष्णिश्चासीत विगृह्य वसुधाधिपः ॥०२२॥

विश्वास-प्रस्तुतिः

अशुद्धपार्ष्णिर् बलवान्
द्वैधी-भावं समाश्रयेत् ।
बलिना विगृहीतस् तु2
यो ऽसन्देहेन पार्थिवः ॥०२३॥

मूलम्

अशुद्धपार्ष्णिर्बलवान् द्वैधीभावं समाश्रयेत् ।
बलिना विगृहीतस्तु2 यो ऽसन्देहेन पार्थिवः ॥०२३॥

:न्

[[३४७]]

विश्वास-प्रस्तुतिः

संश्रयस् तेन वक्तव्यो
गुणानाम् अधमो गुणः ।
बहुक्षय-व्ययायासं1
तेषां यानं प्रकीर्तितं ॥०२४॥

मूलम्

संश्रयस्तेन वक्तव्यो गुणानामधमो गुणः ।
बहुक्षयव्ययायासं1 तेषां यानं प्रकीर्तितं ॥०२४॥

विश्वास-प्रस्तुतिः

बहुलाभकरं पश्चात्
तदा राजा समाश्रयेत्2
सर्वशक्तिविहीनस् तु
तदा कुर्यात्तु संश्रयं ॥०२५॥

मूलम्

बहुलाभकरं पश्चात्तदा राजा समाश्रयेत्2
सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयं ॥०२५॥

{इत्य् आग्नेये महापुराणे उपायषड्गुणादिर्नाम त्रयस्त्रिंशदधिकद्विशततमो ऽध्यायः ॥ }


  1. शत्रुं जिहीर्षुरुच्छिन्द्यादिति घ॥ , ञ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. विगृहीतस्तु इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎