{अथ द्वात्रिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
यात्रामण्डलचिन्तादिः
पुष्कर उवाच
सर्वयात्रां प्रवक्ष्यामि राजधर्मसमाश्रयात् ।
अस्तङ्गते नीचगते विकले रिपुराशिगे ॥००१॥
मूलम्

प्रतिलोमे च विध्वस्ते शुक्रे यात्रां विसर्जयेत्1 ।
प्रतिलोमे बुधे यात्रां दिक्पतौ च तथा च ग्रहे ॥००२॥

वैधृतौ च व्यतीपाते नागे च शकुनौ तथा ।
चतुष्पादे च किन्तुघ्ने तथा यात्रां विवर्जयेत् ॥००३॥

विपत्तारे नैधने च प्रत्यरौ चाथ जन्मनि ।
गण्डे विवर्जयेद्यात्रां रिक्तायाञ्च तिथावपि ॥००४॥

उदीची च तथा प्राची2 तयोरैक्यं प्रकीर्तितं ।
पश्चिमा दक्षिणा या दिक् तयोरैक्यं तथैव च ॥००५॥

वाय्वग्निदिक्समुद्भूतं परिघन्न तु लङ्घयेत् ।
आदित्यचन्द्रशौरास्तु दिवसाश् च न शोभनाः ॥००६॥

कृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः ।
मैत्राद्यान्यपरे चाथ वासवाद्यानि वाप्युदक् ॥००७॥

सर्वद्वाराणि शस्तानि छायामानं वदामि ते ।
आदित्ये विंशतिर्ज्ञेयाश् चन्द्रे षोडश कीर्तिताः ॥००८॥

:न्
[[३४३]]
विश्वास-प्रस्तुतिः
त्रयोदश तथा जीये शुक्रे द्वादश कीर्तिताः ॥००९॥

एकादश तथा सौरे सर्वकर्मसु कीर्तिताः ।
जन्मलग्ने शक्रचापे सम्मुखे न व्रजेन्नरः ॥०१०॥

शकुनादौ शुभे यायाज्जयाय हरिमास्मरन् ।
वक्ष्ये मण्डलचिन्तान्ते कर्तव्यं राजरक्षणं ॥०११॥

स्वाम्यमात्यं तथा दुर्गं कोषो दण्डस्तथैव च ।
मित्रञ्जनपदश् चैव राज्यं सप्ताङ्गमुच्यते ॥०१२॥

सप्ताङ्गस्य तु राज्यस्य विघ्नकर्तॄन् विनाशयेत् ।
मण्डलेषु च सर्वेषु वृद्धिः कार्या महीक्षिता ॥०१३॥

आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् ।
सामन्तास्तस्य विज्ञेया रिपवो मण्डलस्य तु ॥०१४॥

उपेतस्तु सुहृज् ज्ञेयः शत्रुमित्रमतः परं ।
मित्रमित्रं ततो ज्ञेयं मित्रमित्ररिपुस्ततः ॥०१५॥

एतत्पुरस्तात् कथितं पश्चादपि निबोध मे ।
पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते1 ॥०१६॥

आसारस्तु ततो ऽन्यः स्यादाक्रन्दासार उच्यते ।
जिगीषोः शत्रुयुक्तस्य विमुक्तस्य तथा द्विज ॥०१७॥

नात्रापि निश् चयः शक्यो वक्तुं मनुजपुङ्गव ।
निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्तितः ॥०१८॥

निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ।
उदासीनः स कथितो बलवान् पृथिवीपतिः ॥०१९॥

[[३४४]]
विश्वास-प्रस्तुतिः
न कस्यचिद्रिपुर्मित्रङ्कारणाच्छत्रुमित्रके ।
मण्डलं तव सम्प्रोक्तमेतद् द्वादशराजकं ॥०२०॥

त्रिविधा रिपवो ज्ञेयाः कुल्यानन्तरकृत्रिमाः ।
पूर्वपूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः ॥०२१॥

अनन्तरो ऽपि यः शत्रुः सो ऽपि मे कृत्रिमो मतः ।
पार्ष्णिग्राहो भवेच्छत्रोर्मित्राणि रिपवस् तथा ॥०२२॥

पार्ष्णिग्राहमुपायैश् च शमयेच्च तथा स्वकं ।
मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः ॥०२३॥

मित्रञ्च शत्रुतामेति सामन्तत्वादनन्तरं ।
शत्रुं जिगोषुरुच्छिन्द्यात्1 स्वयं शक्नोति चेद्यदि ॥०२४॥

प्रतापवृद्धौ तेनापि नामित्राज्जायते भयं ।
यथास्य नोद्विजेल्लोको विश्वासश् च यथा भवेत् ॥०२५॥

{इत्य् आग्नेये महाओपुराणे यात्रामण्डलचिन्तादिर्नाम द्वात्रिंशदधिकद्विशततमो ऽध्यायः ॥ }