{अथैकत्रिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शकुनानि
पुष्कर उवाच
विशन्ति येन मार्गेण वायसा बहवः पुरं ।
तेन मार्गेण रुद्धस्य पुरस्य ग्रहणं भवेत् ॥००१॥
मूलम्

सेनायां यदि वासार्थे निविष्टो वायसो रुवन् ।
वामो भयातुरस्त्रस्तो भयं वदति दुस्तरं1 ॥००२॥

छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुट्टने ।
मृत्युस्तत्पूजने पूजा तदिष्टकरणे शुभं ॥००३॥

प्रोषितागमकृत्काकः कुर्वन् द्वारि गतागतं ।
रक्तं दग्धं गृहे द्रव्यं क्षिपन्वह्निवेदकः ॥००४॥

न्यसेद्रक्तं पुरस्ताच्च निवेदयति बन्धनं ।
पीतं द्रव्यं तथा रुक्म रूप्यमेव तु भार्गव ॥००५॥

यच्चैवोपनयेद् द्रव्यं तस्य लब्धिं विनिर्दिशेत् ।
द्रव्यं वापनयेद्यत्तु तस्य हानिं विनिर्दिशेत् ॥००६॥

पुरतो धनलब्धिः स्यादाममांसस्य छर्दने ।
भूलब्धिः स्यान् मृदः क्षेपे राज्यं रत्नार्पणे महत् ॥००७॥

यातुः काको ऽनुकूलस्तु क्षेमः कर्मक्षमो भवेत् ।
न त्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः ॥००८॥

सम्मुखे ऽभ्येति विरुवन् यात्राघातकरो भवेत् ।
वामः काकः स्मृतो धन्यो दक्षिणो ऽर्थविनाशकृत्2 ॥००९॥

:न्
[[३३९]]
विश्वास-प्रस्तुतिः
वामो ऽनुलोमगः श्रेष्ठो मध्यमो दक्षिणः स्मृतः ।
प्रतिलोमगतिर्वामो गमनप्रतिषेधकृत् ॥०१०॥

निवेदयति यात्रार्थमभिप्रेतं गृहे गतः1 ।
एकाक्षरचरणस्त्वर्कं वीक्षमाणो भयावहः ॥०११॥

कोटरे वासमानश् च महानर्थकरो भवेत् ।
न शुभस्तूषरे काकः पङ्काङ्कः स तु शस्यते ॥०१२॥

अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः2 ।
ज्ञेयाः पतत्रिणो ऽन्ये ऽपि काकवद् भृगुनन्दन ॥०१३॥

स्कन्धावारापसव्यस्थाः श्वानो विप्रविनाशकाः ।
इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ॥०१४॥

अन्तर्गृहे गृहेशस्य मरणाय भवेद्भषन् ।
यस्य जिघ्रति वामाङ्गं तस्य स्यादर्थसिद्धये ॥०१५॥

भयाय दक्षिणं चाङ्गं तथा भुजमदक्षिणं ।
यात्राघातकरो यातुर्भवेत् प्रतिमुखागतः ॥०१६॥

मार्गावरोधको मार्गे चौरान् वदति भार्गव ।
अलाभो ऽस्थिमुखः पापो रज्जुचीरमुखस् तथा ॥०१७॥

सोपानत्कमुखो धन्यो मांसपूर्णमुखो ऽपि च ।
अमङ्गल्यमुखद्रव्यं केशञ्चैवाशुभं तथा ॥०१८॥

अवमूत्र्याग्रतो याति यस्य तस्य भयं भवेत् ।
यस्यावमूत्र्य व्रजति शुभं देशन्तथा द्रुमं ॥०१९॥

[[३४०]]
विश्वास-प्रस्तुतिः
मङ्गलञ्च तथा द्रव्यं तस्य स्यादर्थसिद्धये ।
श्ववच्च राम विज्ञेयास् तथा वै जम्बुकादयः ॥०२०॥

भयाय स्वामिनि ज्ञेयमनिमित्तं रुतङ्गवां ।
निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा ॥०२१॥

शिवाय स्वामिनो रात्रौ बलीवर्दो नदन् भवेत् ।
उत्सृष्टवृषभो राज्ञो विजयं सम्प्रयच्छति ॥०२२॥

अभयं भक्षयन्त्यश् च गावो दत्तास् तथा स्वकाः ।
त्यक्तस्नेहाः स्ववत्सेषु गर्भक्षयकरा मताः ॥०२३॥

भूमिं पादैर् विनिघ्नन्त्यो दीना भीता भयावहाः ।
आर्द्राङ्ग्यो हृष्टरोमाश् च शृगलग्नमृदः शुभाः ॥०२४॥

महिष्यादिषु चाप्येतत् सर्वं वाच्यं विजानता ।
आरोहणं तथान्येन सपर्याणस्य1 वाजिनः ॥०२५॥

जलोपवेशनं नेष्टं भूमौ च परिवर्तनं ।
विपत्करन्तुरङ्गस्य सुप्तं वाप्यनिमित्ततः ॥०२६॥

यवमोदकयोर्द्वेषस्त्वकस्माच्च न शस्यते ।
वदनाद्रुधिरोत्पत्तिर्वेपनं न च शस्यते ॥०२७॥

क्रीडन् वैकः कपोतैश् च सारिकाभिर्मृतिं वदेत् ।
साश्रुनेत्रो जिह्वया च पादलेही विनष्टये2 ॥०२८॥

वामपादेन च तथा विलिखंश् च वसुन्धरां ।
स्वपेद्वा वामपार्श्वेन दिवा वा न शुभप्रदः ॥०२९॥

[[३४१]]
विश्वास-प्रस्तुतिः
आरोहणं न चेद्दद्यात् प्रतीपं वा गृहं व्रजेत् ॥०३०॥

यात्राविघातमाचष्टे वामपार्श्वं तथा स्पृशन् ।
हेषमाणः शत्रुयोधं पादस्पर्शी जयावहः ॥०३१॥

ग्रामे व्रजति नागश्चेन् मैथुनं देशहा भवेत् ।
प्रसूता नागवनिता मत्ता चान्ताय भूपतेः ॥०३२॥

आरोहणं न चेद्दद्यात् प्रतीपं वा गृहं व्रजेत् ।
मदं वा वारणो जह्याद्राजघातकरो भवेत् ॥०३३॥

वामं दक्षिणपादेन पादमाक्रमते शुभः ।
दक्षिणञ्च तथा दन्तं परिमार्ष्टि करेण च ॥०३४॥

वृषो ऽश्वः कुञ्जरो वापि रिपुसैन्यगतो ऽशुभः ।
खण्डमेघातिवृष्ट्या तु सेना नाशमवाप्नुयात् ॥०३५॥

प्रतिकूलग्रहर्क्षात्तु तथा सम्मुखमारुतात्1 ।
यात्राकाले रणे वापि छत्रादिपतनं भयं ॥०३६॥

हृष्टा नराश्चानुलोमा ग्रहा वै जयलक्षणं ।
काकैर् योधाभिभवनं क्रव्याद्भिर्मण्डलक्षयः ॥०३७॥

प्राचीपश्चिमकैशानी शौम्या प्रेष्ठा शुभा च दिक् ॥३८॥

{इत्य् आग्नेये महापुराणे शकुनानि नाम एकत्रिंशदधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[३४२]]