{अथ त्रिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शकुनानि
पुष्कर उवाच
तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभं ।
निवेदयन्ति शकुना देशस्य नगरस्य च ॥००१॥
मूलम्

सर्वः पापफलो दीप्तो निर्दिष्टो दैवचिन्तिकैः ।
शान्तः शुभफलश् चैव दैवज्ञैः समुदाहृतः ॥००२॥

षट्प्रकारा विनिर्दिष्टा शकुनानाञ्च दीप्तयः ।
वेलादिग्देशकरणरुतजातिविभेदतः ॥००३॥

पूर्वा पूर्वा च विज्ञेया सा तेषां बलवत्तरा ।
दिवाचरो रात्रिचरस् तथा रात्रौ दिवाचरः ॥००४॥

क्रूरेषु दीप्ता विज्ञेया ऋक्षलग्नग्रहादिषु ।
धूमिता सा तु विज्ञेया याङ्गमिष्यति भास्करः ॥००५॥

यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता ।
एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास् तथापराः ॥००६॥

[[३३५]]
विश्वास-प्रस्तुतिः
दीप्तायान्दिशि दिग्दीप्तं शकुनं परिकीर्तितं ।
ग्रामो ऽरण्या वने ग्राम्यास् तथा निन्दितपादपः ॥००७॥

देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तमः ।
क्रियादीप्तो विनिर्दिष्टः स्वजात्यनुचितक्रियः ॥००८॥

रुतदीप्तश् च कथितो भिन्नभैरवनिस्वनः ।
जातिदीप्तस् तथा ज्ञेयः केवलं मांसभोजनः ॥००९॥

दीप्ताच्छान्तो विनिर्दिष्टः सर्वैर् भेदैः प्रयत्नतः ।
मिश्रैर् मिश्रो विनिर्दिष्टस्तस्य वाच्यं फलाफलं ॥०१०॥

गोश्वोष्ट्रगर्दभश्वानः सारिका गृहगोधिका ।
चटका भासकूर्माद्याः कथिता ग्रामवासिनः ॥०११॥

अजाविशुकनागेन्द्राः कोलो महिषवायसौ ।
ग्राम्यारण्या विनिर्दिष्टाः सर्वे ऽन्ये वनगोचराः1 ॥०१२॥

मार्जारकुक्कुटौ ग्राम्यौ तौ चैव वनगोचरौ ।
तयोर्भवति विज्ञानं नित्यं वै रूपभेदतः ॥०१३॥

गोकर्णशिखिचक्राह्वखरहारीतवायसाः ।
कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः ॥०१४॥
मूलम्
गोकर्णशिखिचक्राह्वखरहारीतवायसाः ।
कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः ॥०१४॥
विश्वास-प्रस्तुतिः
शतघ्नचटकश्यामचासश्येनकलिञ्जलाः ।
तित्तिरः शतपत्रञ्च कपोतश् च तथा त्रयः ॥०१५॥

खञ्जरीटकदात्यूहशुकराजीवकुक्कुटाः ।
भारद्वाजश् च सारङ्ग इति ज्ञेया दिवाचराः ॥०१६॥

वागुर्युलूकशरभक्रौञ्चाः शशककच्छपाः ।
लोमासिकाः पिङ्गलिकाः कथिता रात्रिगोचराः ॥०१७॥

:न्
[[३३६]]
विश्वास-प्रस्तुतिः
हंषाश् च मृगमार्जारनकुलर्क्षभुजङ्गमाः ।
वृकारिसिंहव्याघ्रोष्ट्रग्रामशूकरमानुषाः ॥०१८॥

श्वाविद्वृषभगोमायुवृककोकिलसारसाः ।
तुरङ्गकौपीननरा गोधा ह्य् उभयचारिणः ॥०१९॥

बलप्रस्थानयोः सर्वे पुरस्तात्सङ्घचारिणः ।
जयावहा विनिर्दिष्टाः पश्चान्निधनकारिणः ॥०२०॥

गृहाद्गम्य यदा चासो व्याहरेत् पुरुतः स्थितः ।
नृपावमानं वदति वामः कलहभोजने ॥०२१॥

याने तद्दर्शनं शस्तं सव्यमङ्गस्य वाप्यथ ।
चौरैर् मोषमथाख्याति मयूरो भिन्ननिस्वनः ॥०२२॥

प्रयातस्याग्रतो राम मृगः प्राणहरो भवेत् ।
ऋक्षाखुजम्बुकव्याघ्रसिंहमार्जारगर्दभाः ॥०२३॥

प्रतिलोमास् तथा राम खरश् च विकृत्रस्वनः ।
वामः कपिञ्जलः श्रेष्ठस् तथा दक्षिणसंस्थितः ॥०२४॥

पृष्ठतो निन्दितफलस्तित्तिरिस्तु न शस्यते ।
एणा वराहाः पृषता वामा भूत्वा तु दक्षिणाः ॥०२५॥

भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः ।
वृषाश्वजम्बुकव्याघ्राः सिंहमार्जारगर्दभाः1 ॥०२६॥

वाञ्छितार्थकरा ज्ञेया दक्षिणाद्वामतो गताः ।
शिवा श्यामाननाच्छूच्छूः पिङ्गला गृहगोधिका ॥०२७॥

[[३३७]]
विश्वास-प्रस्तुतिः
स्त्रीसञ्ज्ञा भासकारूषकपिश्रीकर्णश्छित्कराः ॥०२८॥

कपिश्रीकर्णपिप्यीका1 रुरुश्येनाश् च दक्षिणाः ।
जातीक्षाहिशशक्रोडगोधानां कीर्तनं शुभं ॥०२९॥

ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ।
कार्यकृद्बली शकुनः प्रस्थितस्य हि यो ऽन्वहं ॥०३०॥

भवेत्तस्य फलं वाच्यं तदेव दिवसं बुधैः ।
मता भक्ष्यार्थिनो बाला वैरसक्तास्तथैव च ॥०३१॥

सीमान्तमभ्यन्तरिता विज्ञेया निष्फला द्विज ।
एकद्वित्रिचतुर्भिस्तु शिवा धन्या रुतैर् भवेत् ॥०३२॥

पञ्चभिश् च तथा षड्भिरधन्या परिकीर्तिता ।
सप्तभिश् च तथा धन्या निष्फला परतो भवेत् ॥०३३॥

नृणां रोमाञ्चजननी वाहनानां भयप्रदा ।
ज्वालानला सूर्यमुखी विज्ञेया भयवर्धनी ॥०३४॥

प्रथमं सारङ्गे दृष्टे शुभे देशे शुभं वदेत् ।
संवत्सरं मनुष्यस्य अशुभे च शुभं तथा ॥०३५॥

तथाविधन्नरः पश्येत्सारङ्गं प्रथमे ऽहनि ।
आत्मनश् च तथात्वेन ज्ञातव्यं वत्सरं फलं ॥०३६॥

{इत्य् आग्नेये महापुराणे शकुनानि नाम त्रिंशदधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[३३८]]