{अथ एकोनत्रिंशदधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शकुनानि
पुष्कर उवाच
औषधानि च युक्तानि धान्यं कृष्णमशोभनं ।
कार्पासं तृणशुष्कञ्च गोमयं वै धनानि च ॥००१॥
मूलम्

[[३३३]]
विश्वास-प्रस्तुतिः
अङ्गारं गुडसर्जौ च1 मुण्डाभ्यक्तञ्च नग्नकं ।
अयः पङ्कं चर्मकेशौ उन्मत्तञ्च नपुंसकं ॥००२॥

चण्डालश्वपचाद्यानि नरा बन्धनपालकाः ।
गर्भिणी स्त्री च विधवाः पिण्यकादीनि वै मृतं ॥००३॥

तुषभस्मकपालास्थिभिन्नभाण्डमशस्तकं ।
अशस्तो वाद्यशब्दश् च भिन्नभैरवझर्झरः ॥००४॥

एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः ।
गच्छेति पश्चाच्छब्दो ऽग्र्यः पुरस्तात्तु विगर्हितः ॥००५॥

क्व यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य च ।
अनिष्टशब्दा मृत्यर्थं क्रव्यादश् च ध्वजादिगः ॥००६॥

स्खलनं वाहनानाञ्च शस्त्रभङ्गस्तथैव च ।
शिरोघातश् च द्वाराद्यैश्च्छत्रवासादिपातनं ॥००७॥

हरिमभ्यर्च्य संस्तुत्य स्यादमङ्गल्यनाशनं ।
द्वितीयन्तु ततो दृष्ट्वा विरुद्धं प्रविशेद्गृहं ॥००८॥

श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः ।
मांसं मत्स्या दूरशब्दा वृद्ध एकः पशुस्त्वजः ॥००९॥

गावस्तरङ्गमा नागा देवश् च ज्वलितो ऽनलः ।
दूर्वार्द्रगोमयं वेश्या स्वर्णरूप्यञ्च रत्नकं ॥०१०॥

वचासिद्धार्थकौषध्यो मुद्ग आयुधखड्गकं ।
छत्रं पीठं राजलिङ्गं शवं रुदितवर्जितं ॥०११॥

फलं घृटं दधि पयो अक्षतादर्शमाक्षिकं ।
शङ्खं इक्षुः शुभं वाक्यं भक्तवादितगीतकं ॥०१२॥

:न्
[[३३४]]
विश्वास-प्रस्तुतिः
गम्भीरमेघस्तनितं तडित्तुष्टिश् च मानसी ।
एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥०१३॥

{इत्य् आग्नेये महापुराणे माङ्गल्याध्यायो नाम एकोनत्रिंशदधिकद्विशततमो ऽध्यायः ॥ }