{अथाष्टाविंशत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
स्वप्नाध्यायः
पुष्कर उवाच
स्वप्नं शौभाशुभं वक्ष्ये दुःखप्रहरणन्तथा ।
नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः ॥००१॥
मूलम्
स्वप्नाध्यायः
पुष्कर उवाच
स्वप्नं शौभाशुभं वक्ष्ये दुःखप्रहरणन्तथा ।
नाभिं विनान्यत्र गात्रे तृणवृक्षसमुद्भवः ॥००१॥
विश्वास-प्रस्तुतिः
चूर्णं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ॥००२॥
मूलम्
चूर्णं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।
मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ॥००२॥
विश्वास-प्रस्तुतिः
उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च ।
तन्त्रीवाद्यविनोदश् च दोलारोहणमेव च ॥००३॥
मूलम्
उच्चात् प्रपतनञ्चैव विवाहो गीतमेव च ।
तन्त्रीवाद्यविनोदश् च दोलारोहणमेव च ॥००३॥
:न्
[[३३०]]
विश्वास-प्रस्तुतिः
रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च ॥००४॥
मूलम्
रक्तपुष्पद्रुमाणाञ्च चण्डालस्य तथैव च ॥००४॥
विश्वास-प्रस्तुतिः
वराहाश्वखरोष्ट्राणां तथा चारोहणक्रिया ।
भक्षणं पक्षिमांसानां तैलस्य कृशरस्य च1 ॥००५॥
मूलम्
वराहाश्वखरोष्ट्राणां तथा चारोहणक्रिया ।
भक्षणं पक्षिमांसानां तैलस्य कृशरस्य च1 ॥००५॥
विश्वास-प्रस्तुतिः
मातुः प्रवेशो जठरे चितारोहणमेव च ।
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः ॥००६॥
मूलम्
मातुः प्रवेशो जठरे चितारोहणमेव च ।
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः ॥००६॥
विश्वास-प्रस्तुतिः
दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं ।
देवद्विजातिभूपानां गुरूणाङ्कोप एव च ॥००७॥
मूलम्
दिव्यान्तरीक्षभौमानामुत्पातानाञ्च दर्शनं ।
देवद्विजातिभूपानां गुरूणाङ्कोप एव च ॥००७॥
विश्वास-प्रस्तुतिः
नर्तनं हसनञ्चैव विवाहो गीतमेव च2 ।
तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं ॥००८॥
मूलम्
नर्तनं हसनञ्चैव विवाहो गीतमेव च2 ।
तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनं ॥००८॥
विश्वास-प्रस्तुतिः
स्रोतोवहाधोगमनं स्नानं गोमयवारिणा ।
पङ्कोदकेन च तथा मशीतोयेन वाप्यथ ॥००९॥
मूलम्
स्रोतोवहाधोगमनं स्नानं गोमयवारिणा ।
पङ्कोदकेन च तथा मशीतोयेन वाप्यथ ॥००९॥
विश्वास-प्रस्तुतिः
आलिङ्गनं कुमारीणां पुरुषाञ्च मैथुनं3 ।
हानिश् चैव स्वगात्राणां विरेको वमनक्रिया ॥०१०॥
मूलम्
आलिङ्गनं कुमारीणां पुरुषाञ्च मैथुनं3 ।
हानिश् चैव स्वगात्राणां विरेको वमनक्रिया ॥०१०॥
विश्वास-प्रस्तुतिः
दक्षिणाशाप्रगमनं व्याधिनाभिभवस् तथा ।
फलानामुपहानिश् च धातूनां भेदनं तथा ॥०११॥
मूलम्
दक्षिणाशाप्रगमनं व्याधिनाभिभवस् तथा ।
फलानामुपहानिश् च धातूनां भेदनं तथा ॥०११॥
विश्वास-प्रस्तुतिः
गृहाणाञ्चैव पतनं गृहसम्मार्जनन्तथा ।
क्रीडा पिशाचक्रव्यादवानरान्त्यनरैर् अपि ॥०१२॥
मूलम्
गृहाणाञ्चैव पतनं गृहसम्मार्जनन्तथा ।
क्रीडा पिशाचक्रव्यादवानरान्त्यनरैर् अपि ॥०१२॥
विश्वास-प्रस्तुतिः
परादभिभवश् चैव तस्माच्च व्यसनोद्भवः ।
काषायवस्त्रधारित्वं तद्वस्त्रैः क्रीडनं तथा4 ॥०१३॥
मूलम्
परादभिभवश् चैव तस्माच्च व्यसनोद्भवः ।
काषायवस्त्रधारित्वं तद्वस्त्रैः क्रीडनं तथा4 ॥०१३॥
:न्
[[३३१]]
विश्वास-प्रस्तुतिः
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनं ।
इत्यधान्यानि स्वप्नानि तेषामकथनं शुभं ॥०१४॥
मूलम्
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनं ।
इत्यधान्यानि स्वप्नानि तेषामकथनं शुभं ॥०१४॥
विश्वास-प्रस्तुतिः
भूजश् च स्वपनं तद्वत् कार्यां स्नानं द्विजार्चनं ।
तिलैर् होमो हरिब्रह्मशिवार्कगणपूजनं ॥०१५॥
मूलम्
भूजश् च स्वपनं तद्वत् कार्यां स्नानं द्विजार्चनं ।
तिलैर् होमो हरिब्रह्मशिवार्कगणपूजनं ॥०१५॥
विश्वास-प्रस्तुतिः
तथा स्तुतिप्रपठनं पुंसूक्तादिजपस् तथा ।
स्वप्नास्तु प्रथमे यामे1 संवत्सरविपाकिनः ॥०१६॥
मूलम्
तथा स्तुतिप्रपठनं पुंसूक्तादिजपस् तथा ।
स्वप्नास्तु प्रथमे यामे1 संवत्सरविपाकिनः ॥०१६॥
विश्वास-प्रस्तुतिः
षड्भिर्मासैर् द्वितीये तु त्रिभिर्मासैर् त्रियामिकाः ।
चतुर्थे त्वर्धमासेन दशाहादरुणोदये ॥०१७॥
मूलम्
षड्भिर्मासैर् द्वितीये तु त्रिभिर्मासैर् त्रियामिकाः ।
चतुर्थे त्वर्धमासेन दशाहादरुणोदये ॥०१७॥
विश्वास-प्रस्तुतिः
एकस्यामथ चेद्रात्रौ शुभं वा यदि वाशुभं ।
पश्चादृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ॥०१८॥
मूलम्
एकस्यामथ चेद्रात्रौ शुभं वा यदि वाशुभं ।
पश्चादृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् ॥०१८॥
विश्वास-प्रस्तुतिः
तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते ।
शैलप्रासादनागाश्ववृषभारोहणं हितं ॥०१९॥
मूलम्
तस्मात्तु शोभने स्वप्ने पश्चात्स्वापो न शस्यते ।
शैलप्रासादनागाश्ववृषभारोहणं हितं ॥०१९॥
विश्वास-प्रस्तुतिः
द्रुमाणां श्वेतपुष्पाणां गगने च तथा द्विज ।
द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता ॥०२०॥
मूलम्
द्रुमाणां श्वेतपुष्पाणां गगने च तथा द्विज ।
द्रुमतृणोद्भवो नाभौ तथा च बहुबाहुता ॥०२०॥
विश्वास-प्रस्तुतिः
तथा च बहुशीर्षत्वं पलितोद्भव एव च ।
सुशुक्रमाल्यधारित्वं सुशुक्लाम्बरधारिता ॥०२१॥
मूलम्
तथा च बहुशीर्षत्वं पलितोद्भव एव च ।
सुशुक्रमाल्यधारित्वं सुशुक्लाम्बरधारिता ॥०२१॥
विश्वास-प्रस्तुतिः
चन्द्रार्कताराग्रहणं परिमार्जनमेव च ।
शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा ॥०२२॥
मूलम्
चन्द्रार्कताराग्रहणं परिमार्जनमेव च ।
शक्रध्वजालिङ्गनञ्च ध्वजोच्छ्रायक्रिया तथा ॥०२२॥
विश्वास-प्रस्तुतिः
भूम्यबुधाराग्रहणं2 शत्रूणाञ्चैव विक्रिया ।
जयो विवादे द्यूते च सङ्ग्रामे च तथा द्विज ॥०२३॥
मूलम्
भूम्यबुधाराग्रहणं2 शत्रूणाञ्चैव विक्रिया ।
जयो विवादे द्यूते च सङ्ग्रामे च तथा द्विज ॥०२३॥
विश्वास-प्रस्तुतिः
भक्षणञ्चार्द्रमांसानाम्पायसस्य च भक्षणं ।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ॥०२४॥
मूलम्
भक्षणञ्चार्द्रमांसानाम्पायसस्य च भक्षणं ।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ॥०२४॥
:न्
[[३३२]]
विश्वास-प्रस्तुतिः
सरारुधिरमद्यानां पानं क्षीरस्य वाप्यथ ।
अस्त्रैर् विचेष्टनं भूमौ निर्मलं गगनं तथा ॥०२५॥
मूलम्
सरारुधिरमद्यानां पानं क्षीरस्य वाप्यथ ।
अस्त्रैर् विचेष्टनं भूमौ निर्मलं गगनं तथा ॥०२५॥
विश्वास-प्रस्तुतिः
मुखेन दोहनं शस्तं महिषीणां तथा गवां ।
सिंहीनां हस्तिनीनाञ्च बडवानां तथैव च ॥०२६॥
मूलम्
मुखेन दोहनं शस्तं महिषीणां तथा गवां ।
सिंहीनां हस्तिनीनाञ्च बडवानां तथैव च ॥०२६॥
विश्वास-प्रस्तुतिः
प्रसादो देवविप्रेभ्यो गुरुभ्यश् च तथा द्विज ।
अम्भसा चाभिषेकस्तु गवां शृङ्गच्युतेन च ॥०२७॥
मूलम्
प्रसादो देवविप्रेभ्यो गुरुभ्यश् च तथा द्विज ।
अम्भसा चाभिषेकस्तु गवां शृङ्गच्युतेन च ॥०२७॥
विश्वास-प्रस्तुतिः
चन्द्राद् भ्रष्टेन वा राम ज्ञेयं राज्यप्रदं हि तत् ।
राज्याभिषेकश् च तथा छेदनं शिरसो ऽप्यथ ॥०२८॥
मूलम्
चन्द्राद् भ्रष्टेन वा राम ज्ञेयं राज्यप्रदं हि तत् ।
राज्याभिषेकश् च तथा छेदनं शिरसो ऽप्यथ ॥०२८॥
विश्वास-प्रस्तुतिः
मरणं वह्निलाभश् च वह्निदाहो गृहादिषु ।
लब्धेश् च राजलिङ्गानां तन्त्रीवाद्याभिवादनं ॥०२९॥
मूलम्
मरणं वह्निलाभश् च वह्निदाहो गृहादिषु ।
लब्धेश् च राजलिङ्गानां तन्त्रीवाद्याभिवादनं ॥०२९॥
विश्वास-प्रस्तुतिः
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं ।
हिरण्यं वृषभङ्गाञ्च कुटुम्बस्तस्य वर्धते ॥०३०॥
मूलम्
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयं ।
हिरण्यं वृषभङ्गाञ्च कुटुम्बस्तस्य वर्धते ॥०३०॥
विश्वास-प्रस्तुतिः
वृषेभगृहशैलाग्रवृक्षारोहणरोदनं ।
घृटविष्ठानुलेपो वा अगम्यागमनं तथा ॥०३१॥
मूलम्
वृषेभगृहशैलाग्रवृक्षारोहणरोदनं ।
घृटविष्ठानुलेपो वा अगम्यागमनं तथा ॥०३१॥
विश्वास-प्रस्तुतिः
सितवस्त्रं प्रसन्नाम्भः फली वृक्षो नभो ऽमलं ॥३२॥
मूलम्
सितवस्त्रं प्रसन्नाम्भः फली वृक्षो नभो ऽमलं ॥३२॥
{इत्य् आग्नेये महापुराणे स्वप्नाध्यायी नाम अष्टाविंशत्यधिकद्विशततमो ऽध्यायः ॥ }