२२७ युद्धयात्रा

{अथ सप्तविंशत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

युद्धयात्रा

पुष्कर उवाच
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।
पार्ष्णिग्राहो ऽभिभूतो मे तदा यात्रां प्रयोजयेत् ॥००१॥

मूलम्

युद्धयात्रा

पुष्कर उवाच
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।
पार्ष्णिग्राहो ऽभिभूतो मे तदा यात्रां प्रयोजयेत् ॥००१॥

विश्वास-प्रस्तुतिः

पुष्ता योधा भृटा भृत्याः प्रभूतञ्च बलं मम ।
मूलरक्षासमर्थो ऽस्मि तैर् गत्वा1 शिविरे व्रजेत् ॥००२॥

मूलम्

पुष्ता योधा भृटा भृत्याः प्रभूतञ्च बलं मम ।
मूलरक्षासमर्थो ऽस्मि तैर् गत्वा1 शिविरे व्रजेत् ॥००२॥

विश्वास-प्रस्तुतिः

शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं ।
भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ॥००३॥

मूलम्

शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं ।
भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ॥००३॥

विश्वास-प्रस्तुतिः

विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं2
शरीरस्फुरणे धन्ये तथा सुस्वप्रदर्शने ॥००४॥

मूलम्

विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं2
शरीरस्फुरणे धन्ये तथा सुस्वप्रदर्शने ॥००४॥

निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।

:न्

[[३२९]]

विश्वास-प्रस्तुतिः

पदातिनागबहुलां सेनां प्रावृषि योजयेत् ॥००५॥

मूलम्

पदातिनागबहुलां सेनां प्रावृषि योजयेत् ॥००५॥

विश्वास-प्रस्तुतिः

हेमन्ते शिशिरे चैव रथवाजिसमाकुलां ।
चतुरङ्गबलोपेतां वसन्ते वा शरन्म्मुखे3 ॥००६॥

मूलम्

हेमन्ते शिशिरे चैव रथवाजिसमाकुलां ।
चतुरङ्गबलोपेतां वसन्ते वा शरन्म्मुखे3 ॥००६॥

विश्वास-प्रस्तुतिः

सेना पदातिबहुला शत्रून् जयति सर्वदा ।
अङ्गसक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ॥००७॥

मूलम्

सेना पदातिबहुला शत्रून् जयति सर्वदा ।
अङ्गसक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ॥००७॥

विश्वास-प्रस्तुतिः

न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च ।
लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ॥००८॥

मूलम्

न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च ।
लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ॥००८॥

विपर्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् ।

{इत्य् आग्नेये महापुराणे यात्रा नाम सप्तविंशत्यधिकद्विशततमो ऽध्यायः ॥ }


  1. तैर् वृत्वा इति साधुः ↩︎ ↩︎

  2. सम्भूतान्तःकोपदमिति ख॥ , छ॥ च ↩︎ ↩︎

  3. पुनर्जित्वेति ग॥ , घ॥ , ज॥ च ↩︎ ↩︎