२२६ राजधर्माः

{अथ षड्विंशत्यधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

राजधर्माः

पुष्कर उवाच
दण्डप्रणयनं वक्ष्ये येन राज्ञः परा गतिः ।
त्रियवं कृष्णलं विद्धि पापस्तत्पञ्चकं भवेत् ॥००१॥

मूलम्

कृष्णलानां तथा षष्ट्या1 कर्षार्धं राम
कीर्तितं ।
सुवर्णश् च विनिर्दिष्टो राम षोडशमापकः ॥००२॥

निष्कः सुवर्णाश् चत्वारो धरणं दशभिस्तु तैः ।
ताम्ररूप्यसुवर्णानां मनमेतत् प्रकीर्तितं ॥००३॥

ताम्रकैः कार्षिको राम प्रोक्तः कार्षापणो बुधैः ।
पणानां द्वे शते सार्धं प्रथमः साहसः स्मृतः2 ॥००४॥

मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ।
चौरैर् अमूषितो यस्तु मूषितो ऽस्मीति भाषते ॥००५॥

तत्प्रदातरि भापाले स दण्ड्यस्तावदेव तु ।
यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तं ॥००६॥

तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमं3
कूटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णांश् च प्रदापयेत् ॥००७॥

विवासयेद्ब्राह्मणन्तु भोज्यो विधिर् न हीरतः ।
निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक् तथा ॥००८॥

:न्

[[३२३]]

विश्वास-प्रस्तुतिः

वस्त्रादिकस्य धर्मज्ञ तथा धर्मो न हीयते ।
यो निक्षेपं घातयति यश्चानिक्षिप्य याचते ॥००९॥

तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दम ।
अज्ञानाद्यः पुमान् कुर्यात् परद्रव्यस्य विक्रयं ॥०१०॥

निर्दोषो ज्ञानपूर्वकन्तु चौरवद्दण्डमर्हति1
मूल्यमादाय यः शिल्पं न दद्याद् दण्ड्य एव सः ॥०११॥

प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ।
भृतिं गृह्य न कुर्याद्यः कर्माष्टौ कृष्णला दमः ॥०१२॥

अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु ।
क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत् ॥०१३॥

सो ऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च ।
परेण तु दशाहस्य नादद्यान्नैव दापयेत् ॥०१४॥

आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि षट् ।
वरे दोषानविख्याप्य यः कन्यां वरयेदिह2 ॥०१५॥

दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयं ।
प्रदाय कन्यां यो ऽन्यस्मै पुनस्तां सम्प्रयच्छति ॥०१६॥

दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ।
सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयं ॥०१७॥

लुब्धो ऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति ।
दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनं ॥०१८॥

स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता ।

:न्

[[३२४]]

विश्वास-प्रस्तुतिः

धनुःशतं परीणाहो ग्रामस्य तु समन्ततः ॥०१९॥

द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत् ।
वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥०२०॥

तत्रापरिवृते धान्ये हिंसिते नैव दण्डनं ।
गृहन्तडागमारामं क्षेत्रं वा भीषया हरन् ॥०२१॥

शतानि पञ्च दण्ड्याः स्यादज्ञानाद् द्विशतो दमः ।
मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसं ॥०२२॥

शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।
वैश्यश् च द्विशतं राम शूद्रश् च बधमर्हति ॥०२३॥

पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये वाप्यर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥०२४॥

क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु ।
शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात् ॥०२५॥

धर्मोपदेशं विप्राणां शूद्रः कुर्वंश् च दण्डभाक् ।
श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसं ॥०२६॥

उत्तमः साहसस्तस्य यः पापैर् उत्तमान् क्षिपेत् ।
प्रमादाद्यैर् मया प्रोक्तं प्रीत्या दण्डार्धमर्हति ॥०२७॥

मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुं ।
आक्षारयञ्च्छतं दण्ड्यः पन्थानं चाददद्गुरोः ॥०२८॥

अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् ।
तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ॥०२९॥

अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः ।
अपमूत्रयतो मेढ्रमपशब्दयतो गुदं ॥०३०॥

[[३२५]]

विश्वास-प्रस्तुतिः

उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं ।
यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्तयेत् ॥०३१॥

अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ।
वृक्षन्तु विफलं कृत्त्वा सुवर्णं दण्डमर्हति ॥०३२॥

द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये ।
द्रव्याणि यो हरेद्यस्य ज्ञानतो ऽज्ञानतो ऽपिवा ॥०३३॥

स तस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं ।
यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां ॥०३४॥

स दण्डं प्राप्नुयान् मासं दण्ड्यः स्यात् प्राणिता।रने ।
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं बधः ॥०३५॥

शेषे ऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् ।
सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः ॥०३६॥

येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत्तदेव हरेदस्य् प्रत्यादेशाय पार्थिवः ॥०३७॥

ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषभाक् ।
गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधीद्यतं ॥०३८॥

गृहक्षेत्रापहर्तारं तथा पत्न्यभिगामिनं ।
अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधं ॥०३९॥

राजा गवाभिचाराद्यं हन्याच्चैवाततायिनः ।
परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि ॥०४०॥

अदण्ड्या स्त्री भवेद्राज्ञा वरयन्तो पतिं स्वयं ।
उत्तमां सेवमानः स्त्री जघन्यो बधमर्हति ॥०४१॥

भर्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्त्रियं ।

[[३२६]]

विश्वास-प्रस्तुतिः

सवर्णदूषितां कुर्यात् पिण्डमात्रोपजीविनीं ॥०४२॥

ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् ।
वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे ॥०४३॥

क्षत्रियः प्रथमं वैश्यो दण्ड्यः शूद्रागमे भवेत् ।
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ॥०४४॥

वेतनन्द्विगुणं दद्याद्दण्दञ्च द्विगुणं तथा ।
भार्या पुत्राश् च दासाश् च शिष्यो भ्राता च सोदरः ॥०४५॥

कृटापराधास्ताड्याः सूरज्वा वेणुदलेन वा ।
पृष्ठे न मस्तके हन्याच्चौरस्याप्नोति किल्विषं ॥०४६॥

रक्षास्वधिकृतैयस्तु प्रजात्यर्थं विलुप्यते ।
तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनं ॥०४७॥

ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कर्मिणां ।
निर्घृणाः क्रूरमनसस्तान्निःस्वान् कारयेन्नृपः ॥०४८॥

अमात्यः प्राड्विवाको वा यः कुर्यात् कार्यमन्यथा ।
तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ॥०४९॥

गुरुतल्पे भयः कार्यः सुरापाणे सुराध्वजः ।
स्तेयेषु श्वपदं विद्याद् ब्रह्महत्याशिरः पुमान् ॥०५०॥

शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् ।
महापातकिनां वित्तं वरुणायोपपादयेत् ॥०५१॥

ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः ।
भाण्डारकोषदाश् चैव सर्वांस्तानपि घातयेत् ॥०५२॥

राष्ट्रेषु राष्ट्राधिकृतान् सामन्तान् पापिनो हरेत् ।
सन्धिं कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ॥०५३॥

[[३२७]]

विश्वास-प्रस्तुतिः

तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ।
तडागदेवतागारभेदकान् घातयेन्नृपः ॥०५४॥

समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ।
स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत् ॥०५५॥

प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते ।
समैश् च विषमं यो वा चरते मूल्यतो ऽपि वा ॥०५६॥

समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा ।
द्रव्यमादाय वणिजामनर्घेणावरुन्धतां ॥०५७॥

राजा पृथक् पृथक् कुर्याद्दण्डमुत्तमसाहसं ।
द्रव्याणां दूषको यश् च प्रतिच्छन्दकविक्रयी ॥०५८॥

मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमं ।
कलहापकृतं देयं दण्डश् च द्विगुणस्ततः ॥०५९॥

अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः ।
तुलाशासनकर्ता च कूटकृन्नाशकस्य च ॥०६०॥

एभिश् च व्यवहर्ता यः स दाप्यो दममुत्तमं ।
विषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीं ॥०६१॥

विकर्णकरनासौष्ठी कृत्वा गोभिः प्रवासयेत् ।
क्षेत्रवेश्मग्रामवनविदारकास् तथा नराः ॥०६२॥

राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ।
ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं ॥०६३॥

पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः ।
राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥०६४॥

मूलम्

पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः ।
राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥०६४॥

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः ।

[[३२८]]

विश्वास-प्रस्तुतिः

तमायान्तं पराजित्य1 दण्डयेद् द्विगुणं दमं ॥०६५॥

आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन् ।
दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते ॥०६६॥

हीनः पुरुषकारेण तद् दद्याद्दाण्डिको धनं ॥६७॥

{इत्य् आग्नेये महापुराणे दण्डप्रणयनं नाम षड्विंशत्यधिकद्विशततमो ऽध्यायः ॥ }

  1. तथाचाष्टौ इति छ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. ताम्रिकैः कार्षिक इत्य् आदिः, साहसः स्मृत इत्य् अन्तः
    पाठः झ॥ पुस्तके नास्ति ↩︎ ↩︎ ↩︎ ↩︎

  3. यो यावदित्यादिः, तद्द्विगुणं दममित्यन्तः पाठः झ॥
    पुस्तके नास्ति ↩︎ ↩︎