{अथ पञ्चविंशत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
राजधर्माः
पुष्कर उवाच
स्वयमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितं ।
तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥००१॥
मूलम्

[[३२०]]
विश्वास-प्रस्तुतिः
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ।
सात्त्विकात् कर्मणः पूर्वात् सिद्धिः स्यात्पौरुषं विना ॥००२॥

पौरुषं दैवसम्पत्त्या काले फलति भार्गव ।
दैवं पुरुषकारश् च द्वयं पुंसः फलावहं ॥००३॥

कृषेर्वृष्टिसमायोगात् काले स्युः फलसिद्धयः ।
सधर्मं पौरुषं कुर्यान्नालसो न च दैववान् ॥००४॥

सामादिभिरुपायैस्तु सर्वे सिद्ध्यन्त्युपक्रमाः ।
साम चोपप्रदानञ्च भेददण्डौ तथापरौ ॥००५॥

मायोपेक्षेन्द्रजालञ्च उपायाः सप्त ताञ्छृणु ।
द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च ॥००६॥

तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।
महाकुलीना ह्य् ऋजवो धर्मनित्या जितेन्द्रियाः ॥००७॥

सामसाध्या अतथ्यैश् च गृह्यन्ते राक्षसा अपि ।
तथा तदुप्रकाराणां कृतानाञ्चैव वर्णनं ॥००८॥

परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः ।
तेषान्भेदं प्रयुञ्जीत परमं दर्शयेद्भयं1 ॥००९॥

आत्मीयान् दर्शयेदाशां येन दोषेण बिभ्यति ।
परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः ॥०१०॥

सामन्तकोषो वाह्यस्तु मन्त्रामात्यात्मजादिकः2 ।
अन्तःकोषञ्चोपशाम्य कुर्वन् शत्रोश् च तं जयेत् ॥०११॥

उपायश्रेष्ठं दानं स्याद्दानादुभयलोकभाक् ।
न सो ऽस्ति नाम दानेन वशगो यो न जायते ॥०१२॥

:न्
[[३२१]]
विश्वास-प्रस्तुतिः
दानवानेव शक्नोति संहतान् भेदितुं परान् ।
त्रयासाध्यं साधयेत्तं दण्डेन च कृतेन च ॥०१३॥

दण्डे सर्वं स्थितं दण्डो नाशयेद्दुष्प्रणीकृतः ।
अदण्ड्यान् दण्डयन्नश्येद्दण्ड्यान्राजाप्यदण्डयन् ॥०१४॥

दैवदैत्योरगनराः सिद्धा भूताः पतत्रिणः ।
उत्क्रमेयुः स्वमर्यादां यदि दण्डान् न पालयेत् ॥०१५॥

यस्माददान्तान् दमयत्यदण्ड्यान्दण्डयत्यपि ।
दमनाद्दण्डनाच्चैव तस्माद्दण्ड विदुर्बुधाः ॥०१६॥

तेजसा दुर् निरीक्ष्यो हि राजा भास्करवत्ततः ।
लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः ॥०१७॥

जगद्व्याप्नोति वै चारैर् अतो राजा समीरणः ।
दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः ॥०१८॥

यदा दहति दुर्बुद्धिं तदा भवति पावकः ।
यदा दानं द्विजातिभ्यो दद्यात् तस्माद्धनेश्वरः ॥०१९॥

धनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः ।
क्षमया धारयंल्लेकान् पार्थिवः पार्थिवो भवेत् ॥०२०॥

उत्साहमन्त्रशक्त्याद्यै रक्षेद्यस्माद्धरिस्ततः ॥२१॥

{इत्य् आग्नेये महापुराणे सामाद्युपायो नाम पञ्चविंशत्यधिकद्विशततमो ऽध्यायः ॥ }
[[३२२]]