{अथ चतुर्विंशत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
राजधर्माः
पुष्कर उवाच
राजपुत्रस्य रक्षा च कर्तव्या पृथिवीक्षिता ।
धर्मार्थकामशास्त्राणि धनुर्वेदञ्च शिक्षयेत् ॥००१॥
मूलम्

शिल्पानि शिक्षयेच्चैवमाप्तैर् मिथ्याप्रियंवदैः ।
शरीररक्षाव्याजेन रक्षिणो ऽस्य नियोजयेत् ॥००२॥

न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः ।
अशक्यन्तु गुणाधानं कर्तुं तं बन्धयेत् मुखैः ॥००३॥

अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।
मृगयां पानमक्षांश् च राज्यनाशंस्त्यजेन्नृपः ॥००४॥

दिवास्वप्नं वृथाट्याञ्च वाक्पारुष्यं विवर्जयेत् ।
निन्दाञ्च दण्डपारुष्यमर्थदूषणमुत्सृजेत् ॥००५॥

[[३१७]]
विश्वास-प्रस्तुतिः
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥००६॥

अदेशकाले यद्दानमपात्रे दानमेव च ।
अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्तनं ॥००७॥

कामं क्रोधं मदं मानं लोभं दर्पञ्च वर्जयेत् ।
ततो भृत्यजयङ्कृत्वा पौरजानपदं जयेत् ॥००८॥

जयेद्वाह्यानरीन् पश्चाद्वाह्याश् च त्रिविधारयः ।
गुरवस्ते यथा पूर्वं कुल्यानन्तरकृत्रिमाः ॥००९॥

पितृपैतामहं मित्रं सामन्तञ्च तथा रिपोः ।
कृत्रिमञ्च महाभाग मित्रन्त्रिविधमुच्यते ॥०१०॥

स्वाम्यमात्यञ्जनपदा दुर्गं दण्दस्तथैव च ।
कोषो मित्रञ्च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥०११॥

मूलं स्वामी स वै रक्ष्यस्तस्माद्राज्यं1 विशेषतः ।
राज्याङ्गद्रोहिणं हन्यात्काले तीक्ष्णो मृदुर्भवेत् ॥०१२॥

एवं लोकद्वयं राज्ञो भृत्यैर् हासं विवर्जयेत् ।
भृत्याः परिभवन्तीह नृपं हर्षणसत्कथं ॥०१३॥

लोकसङ्ग्रहणार्थाय कृतकव्यसनो भवेत् ।
स्मितपूर्वाभिभाषी स्यात् लोकानां रञ्जनं चरेत् ॥०१४॥

दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ।
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ॥०१५॥

अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते ।
सुप्तमन्त्रो भवेद्राजा नापदो गुप्तमन्त्रतः ॥०१६॥

:न्
[[३१८]]
विश्वास-प्रस्तुतिः
ज्ञायते हि कृतं कर्म नारब्धं तस्य राज्यकं1 ।
आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ॥०१७॥

नेत्रवक्तविकाराभ्यां गृह्यते ऽन्तर्गतं पुनः ।
नैकस्तु मन्त्रयेन् मन्त्रं न राजा बहुभिः सह ॥०१८॥

बहुभिर्मन्त्रयेत् कामं राजा मन्त्रान् पृथक् पृथक् ।
मन्त्रिणामपि नो कुर्यान् मन्त्री मन्त्रप्रकाशनं ॥०१९॥

क्वापि कस्यापि2 विश्वासो भवतीह सदा नृणां ।
निश् चयश् च तथा मन्त्रे कार्य एकेन सूरिणा ॥०२०॥

नश्येदविनयाद्राजा राज्यञ्च विनयाल्लभेत् ।
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीं ॥०२१॥

आन्वीक्षिकीञ्चार्थविद्यां वार्तारम्भांश् च लोकतः ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥०२२॥

पूज्या देवा द्विजाः सर्वे दद्याद्दानानि तेषु च ।
द्विजे दानञ्चाक्षयो ऽयं निधिः कैश्चिन्न नाश्यते ॥०२३॥

सङ्ग्रामेष्वनिवर्तित्वं प्रजानां परिपालनं ।
दानानि ब्राह्मणानाञ्च राज्ञो निःश्रेयसम्परं ॥०२४॥

कृपणानाथवृद्धानां विधवानाञ्च योषितां ।
योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ॥०२५॥

वर्णाश्रमव्यवस्थानं कार्यन्तापसपूजनं ।
न विश्वसेच्च सर्वत्र तापसेषु च विश्वसेत् ॥०२६॥

[[३१९]]
विश्वास-प्रस्तुतिः
वकविच्चिन्तयेदर्थं सिंहवच्च पराक्रमेत् ॥०२७॥

वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।
दृढप्रहरी च भवेत् तथा शूकरवन्नृपः ॥०२८॥
मूलम्
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।
दृढप्रहरी च भवेत् तथा शूकरवन्नृपः ॥०२८॥
विश्वास-प्रस्तुतिः
चित्रकारश् च शिखिवद् दृढभक्तिस् तथाश्ववत् ।
भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ॥०२९॥

काकशङ्की भवेन्नित्यमज्ञातां वसतिं वसेत् ।
नापरीक्षितपूर्वञ्च भोजनं शयनं स्पृशेत् ॥०३०॥

नाविज्ञातां स्त्रियं गच्छेन्नाज्ञातां नावमारुद्वेत् ।
राष्ट्रकर्षी भ्रस्यते च राज्यार्थाच्चैव जीवितात् ॥०३१॥

भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ।
तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत् ॥०३२॥

सर्वं कर्मेदमायत्तं विधाने दैवपौरुषे ।
तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥०३३॥

जनानुरागप्रभवा राज्ञो राज्यमहीश्रियः ॥३४॥

{इत्य् आग्नेये महापुराणे राजधर्मो नाम चतुर्विंशत्यधिकद्विशततमो ऽध्यायः ॥ }