{अथ त्रयोविंशत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
राजधर्माः
पुष्कर उवाच
वक्ष्ये ऽन्तःपुरचिन्तां च धर्माद्याः पुरुषार्थकाः ।
अन्योन्यरक्षया तेषां सेवा कार्या स्त्रिया नृपैः ॥००१॥
मूलम्

:न्
[[३१२]]
विश्वास-प्रस्तुतिः
धर्ममूलो ऽर्थविटपस् तथा कर्मफलो महान् ।
त्रिवर्गपादपस्तत्र रक्षया फलभागं भवेत् ॥००२॥

कामाधीनाः1 स्त्रियो राम तदर्थं रत्नसङ्ग्रहः ।
सेव्यास्ता नातिसेव्याश् च भूभुजा विषयैषिणा ॥००३॥

आहारो मैथुनन्निद्रा सेव्या नाति हि रुग् भवेत् ।
मञ्चाधिकारे2 कर्तव्याः स्त्रियः सेव्याः स्वरामिकाः3 ॥००४॥

दुष्टान्याचरते4 या तु नाबिनन्दति तत्कथां ।
ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता ॥००५॥

चुम्बिता मार्ष्टि वदनं दत्तन्न बहु मन्यते ।
स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यते ॥००६॥

स्पृष्टा धुनोति गात्राणि गात्रञ्च विरुणद्धि या ।
ईषच्छृणोति वाक्यानि प्रियाण्यपि पराङ्मुखी ॥००७॥

न पश्यत्यग्रदत्तन्तु जघनञ्च निगूहति ।
दृष्टे विवर्णवदना मित्रेष्वथ पराङ्मुखी5 ॥००८॥

तत्कामितासु च स्त्रीसु मध्यस्थेव च लक्ष्यते ।
ज्ञातमण्डनकालापि न करोति च मण्डनं ॥००९॥

या सा विरक्ता तान्त्यक्त्वा सानुरागां स्त्रियम्भजेत्6 ।
दृष्ट्वैव हृष्टा भवति वीक्षिते च पराङ्मुखी ॥०१०॥

[[३१३]]
विश्वास-प्रस्तुतिः
दृश्यमना तथान्यत्र दृष्टिं क्षिपति चञ्चलां ।
तथाप्युपावर्तयितुं नैव शक्नोत्यशेषतः ॥०११॥

विवृणीति तथाङ्गानि स्वस्या गुह्यानि भार्गव ।
गर्हितञ्च तथैवाङ्गं प्रयत्नेन निगूहति ॥०१२॥

तद्दर्शने च कुरुते बालालिङ्गनचुम्बनं ।
आभाष्यमाणा भवति सत्यवाक्या तथैव च ॥०१३॥
मूलम्
तद्दर्शने च कुरुते बालालिङ्गनचुम्बनं ।
आभाष्यमाणा भवति सत्यवाक्या तथैव च ॥०१३॥
विश्वास-प्रस्तुतिः
स्पृष्टा पुलकितैर् अङ्गैः स्वेदेनैव च भुज्यते ।
करोति च तथा राम सुलभद्रव्ययाचनं ॥०१४॥

ततः स्वल्पमपि प्राप्य करोति परमां मुदं ।
नामसङ्कीर्तनादेव मुदिता बहु मन्यते ॥०१५॥

करजाङ्काङ्कितान्यस्य फलानि प्रेषयत्यपि ।
तत्प्रेषितञ्च हृदये विन्यसत्यपि चादरात् ॥०१६॥

आलिङ्गनैश् च गात्राणि लिम्पतीवामृतेन या ।
सुप्ते स्वपित्यथादौ च तथा तस्य विबुध्यते ॥०१७॥

उरू स्पृशति चात्यर्थं सुप्तञ्चैनं विबुध्यते ।
कपित्थचूर्णयोगेन तथा दघ्नः स्रजा तथा ॥०१८॥

घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस् तथा यवैः ।
भोज्यस्य कल्पनैवं स्याद्गन्धमुक्तिः प्रदर्श्यते ॥०१९॥

शौचमाचमनं राम तथैव च विरेचनं ।
भावना चैव पाकश् च बोधनं धूपनन्तथा ॥०२०॥
मूलम्
शौचमाचमनं राम तथैव च विरेचनं ।
भावना चैव पाकश् च बोधनं धूपनन्तथा ॥०२०॥
विश्वास-प्रस्तुतिः
वासनञ्चैव निर्दिष्टं कर्माष्टकमिदं स्मृतं ।
कपित्थबिल्वजम्वाम्रकरवीरकपल्लवैः ॥०२१॥

[[३१४]]
विश्वास-प्रस्तुतिः
तेषामभावे शौचन्तु मृगदर्पाम्भसा भवेत् ॥०२२॥

नखं कुष्ठं घनं मांसी स्पृक्कशैलेयजं जलं ।
तथैव कुङ्कुमं लाक्षा चन्दनागुरुनीरदं1 ॥०२३॥

सरलं देवकाष्ठञ्च2 कर्पूरं कान्तया सह ।
बालः कुन्दुरुकश् चैव गुग्गुलुः श्रीनिवासकः ॥०२४॥

सह सर्जरसेनैवं धूपद्रव्यैकविंशतिः ।
धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ॥०२५॥

द्वे द्वे द्रव्ये समादाय सर्जभागैर् नियोजयेत् ।
नखपिण्याकमलयैः संयोज्य मधुना तथा ॥०२६॥

धूपयोगा भवन्तीह यथावत् स्वेच्छया कृताः ।
त्वचन्नाडीं फलन्तैलं कुङ्कुमं ग्रन्थि प्रवर्तकं3 ॥०२७॥

शैलेयन्तगरं क्रान्तां चोलङ्कर्पूरमेव च4 ।
मांसीं सुराञ्च कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत् ॥०२८॥

एतेभ्यस्तु समादाय द्रव्यत्रयमथेच्छया ।
मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्धनं ॥०२९॥

त्वङ्मुरानलदैस्तुल्यैर् वालकार्धसमायुतैः ।
स्नानमुत्पलगन्धि स्यात् सतैलं कुङ्कुमायते ॥०३०॥

जातीपुषसुगन्धि स्यात् तगरार्धेन योजितं ।
सद्ध्यामकं स्याद्वकुलैस्तुल्यगन्धि मनोहरं ॥०३१॥

[[३१५]]
विश्वास-प्रस्तुतिः
मञ्जिष्ठातगरं चोलं त्वचं व्यघ्रनखं नक्खं ।
गन्धपत्रञ्च विन्यस्य गन्धतैलं भवेच्छुभं ॥०३२॥

तैलं निपीडितं राम तिलैः पुष्पाधिवासितैः ।
वासनात् पुष्पसदृशं गन्धेन तु भवेद् ध्रुवं ॥०३३॥

एलालवङ्गकक्कोलजातीफलनिशाकराः ।
जातीपत्रिकया सार्धं स्वतन्त्रा मुखवासकाः ॥०३४॥

कर्पूरं कुङ्कुमं कान्ता मृगदर्पं हरेणुकं ।
कक्कोलैलालवङ्गञ्च जातौ कोशकमेव च ॥०३५॥

त्वक्पत्रं त्रुटिमुस्तौ च लतां कस्तूरिकं तथा ।
कण्टकानि लवङ्गस्य फलपत्रे च जातितः ॥०३६॥

कटुकञ्च1 फलं राम कार्षिकाण्युपकल्पयेत् ।
तच्चूर्णे खदिरं सारं दद्यात्तुर्यं तु वासितं2 ॥०३७॥
विश्वास-प्रस्तुतिः
सहकाररसेनास्मात् कर्तव्या गुटिकाः शुभाः3 ।
मुख न्यस्ताः सुगन्धास्ता मुखरोगविनाशनाः ॥०३८॥

पूगं प्रक्षालितं सम्यक् पञ्चपल्लववारिणा ।
शक्त्या तु गुटिकाद्रव्यैर् वासितं मुखवासकं ॥०३९॥

कटुकं दन्तकाष्ठञ्च गोमूत्रे वासितं त्र्यहं ।
कृतञ्च पूगवद्राम मुखसौगन्धिकारकं ॥०४०॥

त्वक्पथ्ययोः समावंशौ शशिभागार्धसंयुतौ ।
नागवल्लीसमो भाति मुखवासो मनोहरः ॥०४१॥
मूलम्
त्वक्पथ्ययोः समावंशौ शशिभागार्धसंयुतौ ।
नागवल्लीसमो भाति मुखवासो मनोहरः ॥०४१॥
:न्
[[३१६]]
विश्वास-प्रस्तुतिः
एवं कुर्यात् सदा स्त्रीणां रक्षणं पृथिवीपतिः ।
न चासां विश्वसेज्जातु पुत्रमातुर्विशेषतः ॥०४२॥

न स्वपेत् स्त्रीगृहे रात्रौ विश्वासः कृत्रिमो भवेत् ॥४३॥

{इत्य् आग्नेये महाओपुराणे स्त्रीरक्षादिकामशास्त्रं नाम त्रयोविंशत्यधिकद्विशततमो ऽध्यायः ॥ }