{अथ द्वाविंशत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
राजधर्माः
पुष्कर उवाच
ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं नृपः ।
शतग्रामाधिपञ्चान्यं तथैव विषयेश्वरं ॥००१॥
मूलम्

तेषां भोगविभागश् च भवेत् कर्मानुरूपतः ।
नित्यमेव तथा कार्यं तेषाञ्चारैः परीक्षणं ॥००२॥

ग्रामे दोषान् समुत्पन्नान् ग्रामेशः प्रसमं नयेत् ।
अशक्तो दशपालस्य स तु गत्वा निवेदयेत् ॥००३॥

श्रुत्वापि दशपालो ऽपि तत्र युक्तिमुपाचरेत् ।
वित्ताद्याप्नोति राजा वै विषयात्तु सुरक्षितात् ॥००४॥

धनवान्धर्ममाप्नोति धनवान् काममश्नुते ।
उच्छिद्यन्ते विना ह्य् अर्थैः1 क्रिया ग्रीष्मे सरिद्यथा ॥००५॥

विशेषो नास्ति लोकेषे पतितस्याधनस्य च ।
पतितान्न तु गृह्णन्ति दरिद्रो न प्रयच्छति ॥००६॥

धनहीनस्य भार्यापि नैका स्यादुपवर्तिनी2 ।
राष्ट्रपीडाकरो राजा नरके वसते चिरं ॥००७॥

नित्यं राज्ञा तथा भाव्यं गर्भिणी सहधर्मिणी ।
यहा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत्3 ॥००८॥

:न्
[[३०९]]
विश्वास-प्रस्तुतिः
किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः ।
सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥००९॥

अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरं ।
राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि ॥०१०॥

धर्मागमो रक्षणाच्च पापमाप्नोत्यरक्षणात् ।
सुभगा विटभीतेव राजवल्लभतस्करैः ॥०११॥

भक्ष्यमाणाः प्रजा रक्ष्याः कायस्थैश् च विशेषतः ।
रक्षिता तद्भयेभ्यस्तु राज्ञो भवति सा प्रजा1०१२।
अरक्षिता सा भवति तेषामेवेह भोजनं ।
दुष्टसम्मर्दनं कुर्याच्छास्त्रोक्तं करमाददेत्2 ॥०१३॥

कोषे प्रवेशयेदर्धं नित्यञ्चार्धं द्विजे ददेत्3 ।
निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा ॥०१४॥

चतुर्थमष्टमं भागं तथा षोडशमं द्विजः ।
वर्णक्रमेण दद्याच्च निधिं पात्रे तु धर्मतः ॥०१५॥

अनृतन्तु वदन् दण्ड्यः4 सुवित्तस्यांशमष्टमं ।
प्रणष्टस्वामिकमृक्थं राजात्र्यब्दं निधापयेत् ॥०१६॥

अर्वाक् त्र्यब्दाद्धरेत् स्वामी परेण नृपतिर्हरेत् ।
ममेदमिति यो ब्रूयात् सो ऽर्थयुक्तो यथाविधि ॥०१७॥

[[३१०]]
विश्वास-प्रस्तुतिः
बालदायादिकमृक्थं1 तावद्राजानुपालयेत् ॥०१८॥

यावत्स्यात्स समावृत्तो यावद्वातीतशैशवः ।
बालपुत्रासु चैवं स्याद्रक्षणं निष्कलासु च ॥०१९॥

पतिव्रतासु च स्त्रीषु विधबास्वातुरासु च ।
जीवन्तीनान्तु तासां ये संहरेयुः स्ववान्धवाः ॥०२०॥

ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ।
सामान्यतो हृतञ्चौरैस्तद्वै दद्यात् स्वयं नृपः ॥०२१॥

चौररक्षाधिकारिभ्यो राजापि हृतमाप्नुयात् ।
अहृते यो हृतं ब्रूयान्निःसार्यो दण्ड्य एव सः ॥०२२॥

न तद्राज्ञा प्रदातव्यं गृहे यद् गृहगैर् हृतं ।
स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज ॥०२३॥

शुल्कांशं परदेशाच्च क्षयव्ययप्रकाशकं ।
ज्ञात्वा सङ्कल्पयेच्छुल्कं लाभं वणिग्यथाप्नुयात् ॥०२४॥

विंशांशं लाभमादद्याद्दण्डनीयस्ततो ऽन्यथा ।
स्त्रीणां प्रव्रजितानाञ्च2 तरशुल्कं विवर्जयेत् ॥०२५॥

तरेषु दासदोषेण नष्टं दासांस्तु दापयेत् ।
शूकधान्येषु षड्भागं शिम्बिधान्ये तथाष्टमं ॥०२६॥

राजा वन्यार्थमादद्याद्देशकालानुरूपकं ।
पञ्चषड्भागमादद्याद् राजा पशुहिरण्ययोः ॥०२७॥

[[३११]]
विश्वास-प्रस्तुतिः
पत्रशाकतृणानाञ्च वंशवैणवचर्मणां ॥०२८॥
मूलम्
पत्रशाकतृणानाञ्च वंशवैणवचर्मणां ॥०२८॥
विश्वास-प्रस्तुतिः
वैदलानाञ्च भाण्डानां सर्वस्याश्ममयस्य च ।
षड्भागमेव चादद्यान् मधुमांसस्य सर्पिषः ॥०२९॥

म्रियन्नपि न चादद्याद् ब्राह्मणेभ्यस् तथा करं ।
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥०३०॥

तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः ।
श्रुतं वृत्तन्तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥०३१॥

रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसं ।
संरक्ष्यमणो राज्ञा यः कुरुते धर्ममन्वहं ॥०३२॥

तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ।
कर्म कुर्युर् नरेन्द्रस्य मासेनैकञ्च1 शिल्पिनः ॥०३३॥

भुक्तमात्रेण ये चान्ये स्वशरीरोपजीयिनः ॥३४॥

{इत्य् आग्नेये महापुराणे राजधर्मो नाम द्वाविंशत्यधिकद्विशततमो ऽध्यायः ॥ }