{अथ एकविंशाधिकद्विशततमो ऽध्यायः}
पुष्कर उवाच
भृत्यः कुर्यात्तु राजाज्ञां शिष्यवत्सच्छ्रियः पतेः ।अप्_२२१आ।
न क्षिपेद्वचनं राज्ञो अनुकूलं प्रियं वदेत् ॥अप्_२२१आ।००१।
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ।अप्_२२१आ।
न नियुक्तो हरेद्वित्तं नोपेक्षेत्तस्य मानकं ॥अप्_२२१आ।००२।
राज्ञश् च न तथाकार्यं वेशभाषाविचेष्टितं ।अप्_२२१आ।
अन्तःपुरचराध्यक्षो वैरभूतैर् निराकृतैः ॥अप्_२२१आ।००३।
[[३०४]]
संसर्गं न व्रजेद्भृत्यो राज्ञो गुह्यञ्च गोपयेत् ।अप्_२२१आ।
प्रदर्श्य कौशलं किञ्चिद्राजानन्तु विशेषयेत् ॥अप्_२२१आ।००४।
राज्ञा यच्छ्रावितं गुह्यं न तल्लोके प्रकाशयेत् ।अप्_२२१आ।
आज्ञाप्यमाने वान्यस्मिन् किङ्करोमीति वा वदेत् ॥अप्_२२१आ।००५।
वस्त्रं रत्नमलङ्कारं राज्ञा दत्तं च धारयेत्1 ।अप्_२२१आ।
नानिर्दिष्टो2 द्वारि विशेन्नायोग्ये भुवि राजदृक् ॥अप्_२२१आ।००६।
जृम्भान्निष्ठीवनङ्कासं कोपं पर्यन्तिकाश्रयं ।अप्_२२१आ।
भृकुटीं वातमुद्गारं तत्समीपे विसर्जयेत्3 ॥अप्_२२१आ।००७।
स्वगुणाख्यापने युक्त्या परानेव प्रयोजयेत्4 ।अप्_२२१आ।
शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रता तथा ॥अप्_२२१आ।००८।
चापल्यञ्च परित्याज्यं नित्यं राजानुजीविना ।अप्_२२१आ।
श्रुतेन विद्याशिल्पैश् च संयोज्यात्मानमात्मना ॥अप्_२२१आ।००९।
राजसेवान्ततः कुर्याद्भूतये भूतिवर्धनः5 ।अप्_२२१आ।
नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ॥अप्_२२१आ।०१०।
सचिवैर् नास्य विश्वासो राजचित्तप्रियञ्चरेत् ।अप्_२२१आ।
त्यजेद्विरक्तं रक्तात्तु वृत्तिमीहेत राजवित् ॥अप्_२२१आ।०११।
अपृष्टश्चास्य न ब्रूयात् कामं कुर्यात्तथापदि ।अप्_२२१आ।
प्रसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते ॥अप्_२२१आ।०१२।
:न्
[[३०५]]
कुशलादिपरिप्रश्नं सम्प्रयच्छति चासनं ।अप्_२२१आ।
तत्कथाश्रवणाद्धृष्टो अप्रियाण्यपि नन्दने ॥अप्_२२१आ।०१३।
अल्पं दत्तं प्रगृह्णाति स्मरेत् कथान्तरेष्वपि ।अप्_२२१आ।
इति रक्तस्य कर्तव्यं सेवामन्यस्य वर्जयेत् ॥अप्_२२१आ।०१४।
{इत्य् आग्नेये महापुराणे अनुजीविवृत्तं नाम विंशत्यधिकद्विशततमो ऽध्यायः ॥ }