{अथ विंशत्यधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सहायसम्पत्तिः
पुष्कर उवाच
सो ऽभिषिक्तः सहामात्यो जयेच्छत्रून्नृपोत्तमः ।
राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियो ऽथ वा ॥००१॥
मूलम्

कुलीनो नीतिशास्त्रज्ञः प्रतीहारश् च नीतिवित् ।
दूतश् च प्रियवादी स्यादक्षीणो ऽतिबलान्वितः ॥००२॥

ताम्बूलधारी ना स्त्री वा भक्तः क्लेशसहप्रियः ।
सान्धिविग्रहिकः कार्यः षाड्गुण्यादिविशारदः ॥००३॥

खड्गधारी रक्षकः स्यात्दारथिः स्याद्बलादिवित् ।
सूदाध्यक्षो हितो विज्ञो महानसगतो हि सः ॥००४॥

सभासदस्तु धर्मज्ञा लेखको ऽक्षरविद्धितः ।
आह्वानकालविज्ञाः स्युर्हिता दौवारिका जनाः ॥००५॥

रत्नादिज्ञो धनाध्यक्षः अनुद्वारे हितो नरः ।
स्यादायुर्वेदविद्वैद्यो गजध्यक्षो ऽथ हयादिवित् ॥००६॥

जितश्रमो गजारोहो हयाध्यक्षो हयादिवत् ।
दुर्गाध्यक्षो हितो धीमान् स्थपतिर्वास्तुवेदवित् ॥००७॥

यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ।
अस्त्राचार्यो नियुद्धे च कुशलो नृपतेर्हितः ॥००८॥

[[३०२]]
विश्वास-प्रस्तुतिः
सप्तत्यव्दास्तु पुरुषाश् चरेयुः सर्वकर्मसु ॥००९॥

जाग्रत्स्यादायुधागारे ज्ञात्वा वृत्तिर्विधीयते ।
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः ॥०१०॥

उत्तमाधममध्यानि पुरुषाणि नियोजयेत् ।
ज्येच्छुः पृथिवीं राजा सहायाननयोद्धितान् ॥०११॥

धर्मिष्ठान् धर्मकायेषु शूरान् सङ्ग्रामकर्मसु ।
निपुणानर्थकृत्येषु1 सर्वत्र च तथा शुचीन् ॥०१२॥

स्त्रीषु षण्डान्नियुञ्जीत तीक्ष्णान् दारुणकर्मसु ।
यो यत्र विदितो राज्ञा शुचित्वेन तु तन्नरं ॥०१३॥

धर्मे चार्थे च कामे च नियुञ्जीताधमे ऽधमान् ।
राजा यथार्हं कुर्याच्च उपाधाभिः परीक्षितान् ॥०१४॥

समन्त्रो च यथान्यायात् कुर्याद्धस्तिवनेचरान् ।
तत्पदान्वेषणे यत्तानध्यक्षांस्तत्र कारयेत् ॥०१५॥

यस्मिन् कर्मणि कौशल्यं यस्य तस्मिन् नियोजयेत् ।
पितृपैतामहान् भृत्यान् सर्वकर्मसु योजयेत् ॥०१६॥

विना दायादकृत्येषु तत्र ते हि समागताः ।
परराजगृहात् प्राप्तान् जनान् संश्रयकाम्यया2 ॥०१७॥

दुष्टानप्यथ वादुष्टान् संश्रयेत प्रयत्नतः ।
दुष्टं ज्ञात्वा विश्वसेन्न तद्वृत्तिं वर्तयेद्वशे ॥०१८॥

देशान्तरागतान् पार्श्वे चारैज्ञात्वा हि पूजयेत् ।
शत्रवो ऽग्निवर्षं सर्पो निस्त्रिंशमपि चैकतः ॥०१९॥

:न्
[[३०३]]
विश्वास-प्रस्तुतिः
भृत्या वशिष्टं विज्ञेयाः कुभृट्याश् च तथैकतः ।
चारचक्षुर्भवेद्राजा नियुञ्जीत सदाचरान् ॥०२०॥

जनस्याविहितान् सौम्यांस् तथाज्ञातान् परस्परं ।
वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ॥०२१॥

तथा प्रव्रजिताकारान् बलाबलविवेकिनः ।
नैकस्य राजा श्रद्दध्याच्छ्रद्दध्याद् बहुवाक्यतः ॥०२२॥

रागापरागौ भृत्यानां जनस्य च गुणागुणान् ।
शुभानामशुभानाञ्च ज्ञानङ्कुर्याद्वशाय च ॥०२३॥

अनुरागकरं कर्म चरेज्जह्माद्विरागजं ।
जनानुरागया लक्ष्म्या राजा स्याज्जनरञ्जनात् ॥०२४॥

{इत्य् आग्नेये महापुराणे सहायसम्पत्तिर्नाम विंशत्यधिकद्विशततमो ऽध्यायः ॥ }