{अथोनविंशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अभिषेकमन्त्राः
पुष्कर उवाच
राजदेवाद्यभिषेकमन्त्रान्वक्ष्ये ऽघमर्दनान् ।
कुम्भात् कुशोदकैः सिञ्चेत्तेन सर्वं हि सिद्ध्यति ॥००१॥
मूलम्

[[२९४]]
विश्वास-प्रस्तुतिः
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥००२॥

भवन्तु विजयायैते इन्द्राद्या दशदिग्गताः ।
रुद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च सर्वदा ॥००३॥

भृगुरत्रिर्वसिष्ठश् च सनकश् च सनन्दनः ।
सनत्कुमारो ऽङ्गिराश् च पुलस्त्यः पुलहः क्रतुः ॥००४॥

मरीचिः कश्यपः पान्तु प्रजेशाः पृथिवीपतिः ।
प्रभासुरा वहिर्षद अग्निष्वात्ताश् च पान्तु ते ॥००५॥

क्रव्यादाश्चोपहूताश् च आज्यपाश् च सुकालिनः ।
अग्निभिश्चाभिषिञ्चन्तु लक्ष्म्याद्या धर्मवल्लभाः ॥००६॥

आदित्याद्याः कश्यपस्य बहुपुत्रस्य1 वल्लभाः ।
कृशाश्वस्याग्निपुत्रस्य भार्याश्चारिष्ठनेमिनः ॥००७॥

अश्विन्याद्याश् च चन्द्रस्य पुलहस्य2 तथा प्रियाः ।
भूता च कपिशा दंष्ट्री सुरसा सरमा दनुः ॥००८॥

श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ।
पत्न्यस्त्वामभिषिञ्चन्तु अरुणश्चार्कसारथिः ॥००९॥

आयतिर् नियतीरात्रिर् निद्रा लोकस्थितौ स्थिताः ।
उमा मेना शची पान्तु धूमोर् नानिरृतिर्जये ॥०१०॥

गौरी शिवा च ऋद्धिश् च वेला चैव नड्वला ।
अशिक्नी च3 तथा ज्योत्स्ना देवपत्न्यो वनस्पतिः ॥०११॥

:न्
[[२९५]]
विश्वास-प्रस्तुतिः
संवत्सराणि वर्षाणि पान्तु त्वामयनद्वयं ॥०१२॥

ऋतवश् च तथा मासा पक्षा रात्र्यहनी तथा ।
सन्ध्यातिथिमुहूर्ताच्च कालस्यावयवाकृतिः ॥०१३॥

सूर्याद्याश् च ग्रहाः पान्तु मनुः स्वायम्भुवादिकः ।
स्वायम्भुवः स्वारोचिष औत्तमिस्तामसो मनुः ॥०१४॥

रैवतश्चाक्षुषः षष्ठो वैवस्वत इहेरितः ।
सावर्णो ब्रह्मपुत्रश् च धर्मपुत्रश् च रुद्रजः ॥०१५॥

दक्षजो रौच्यभौत्यौ च मनवस्तु चतुर्दश ।
विश्वभुक् च विपश्चिच्च सुचित्तिश् च शिखी विभुः ॥०१६॥

मनोजवस्तथौजस्वी बलिरद्भुतशान्तयः ।
वृषश् च ऋतधामा च दिवस्पृक् कविरिन्द्रकः ॥०१७॥

रेवन्तश् च कुमारश् च तथा वत्सविनायकः ।
वीरभद्रश् च नन्दी च विश्वकर्मा पुरोजवः ॥०१८च्ब्
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ।
नासत्यौ देवभिषजौ ध्रुवाद्या वसवो ऽष्ट च ॥०१९॥

दश चाङ्गिरसो वेदास्त्वाभिषिञ्चन्तु सिद्धये ।
आत्मा ह्य् आयुर्मनो दक्षो मदः प्राणस्तथैव च ॥०२०॥

हविष्मांश् च गरिष्ठश् च ऋतः सत्यश् च पान्तु वः ।
क्रतुर्दक्षो वसुः सत्यः कालकामो धुरिर्जये ॥०२१॥

पुरूरवा माद्रवाश् च विश्वेदेवाश् च रोचनः ।
अङ्गारकाद्याः सूर्यस्त्वान्निरृतिश् च तथा यमः ॥०२२॥

[[२९६]]
विश्वास-प्रस्तुतिः
भरतश् च तथा मृत्युः कापालिरथ किङ्किणिः ॥०२३॥

भवनो भावनः पान्तु स्वजन्यः स्वजनस् तथा1 ।
क्रतुश्रवाश् च मूर्धा च याजनो ऽभ्युशनास् तथा ॥०२४॥

प्रसवश्चाव्ययश् चैव दक्षश् च भृगवः सुराः ।
मनो ऽनुमन्ता प्राणश् च नवोपानश् च वीर्यवान् ॥०२५॥

वीतिहोत्रो नयः साध्यो हंसो नारायणो ऽवतु ।
विभुश् चैव प्रभुश् चैव देवश्रेष्ठा जगद्धिताः ॥०२६॥

धाता मित्रो ऽर्यमा पूषा शक्रो ऽथ वरुणो भगः ।
त्वष्टा विवस्वान् सविता विष्णुर्द्वादश भास्कराः ॥०२७॥

एकज्योतिश् च द्विज्योतिस्त्रिश् चतुर्ज्योतिरेव च ।
एकशक्रो द्विशक्रश् च त्रिशक्रश् च महाबलः ॥०२८॥

इन्द्रश् च मेत्यादिशतु ततः प्रतिमकृत्तथा ।
मितश् च सम्मितश् चैव अमितश् च महाबलः ॥०२९॥

ऋतजित् सत्यजिच्चैव सुषेणः सेनजित्तथा ।
अतिमित्रो ऽनुमित्रश् च पुरुमित्रो ऽपराजितः ॥०३०॥

ऋतश् च ऋतवाग् धाता विधाता2 धारणो ध्रुवः ।
विधारणो महातेजा वासवस्य परः सखा ॥०३१॥

ईदृक्षश्चाप्यदृक्षश् च3 एतादृगमिताशनः ।
क्रीडितश् च सदृक्षश् च सरभश् च महातपाः ॥०३२॥

[[२९७]]
विश्वास-प्रस्तुतिः
धर्ता धुर्यो धुरिर्भीम अभिमुक्तः क्षपात्सह1 ।
धृतिर्वसुरनाधृष्यो2 रामः कामो जयो विराट् ॥०३३॥
विश्वास-प्रस्तुतिः
देवा एकोनपञ्चाशन्मरुतस्त्वामवन्तु ते ।
चित्राङ्गदश्चित्ररथः चित्रसेनश् च वै कलिः ॥०३४॥

उर्णायुरुग्रसेनश् च धृतराष्ट्रश् च नन्दकः ।
हाहा हूहूर्नारदश् च विश्वावसुश् च तुम्बुरुः ॥०३५॥

एते त्वामभिषिञ्चन्तु गन्धर्वा विजयाय ते ।
पान्तु ते कुरुपा मुख्या दिव्याश्चाप्सरसाङ्गणाः ॥०३६॥

अनवद्या सुकेशी च मेनकाः सह जन्यया3 ।
क्रतुस्थला घृताची च विश्वाची पुञ्जिकस्थला ॥०३७॥

प्रम्लोचा चोर्वशी रम्भा पञ्चचूडा तिलोत्तमा ।
चित्रलेखा लक्ष्मणा च पुण्डरीका च वारुणी ॥०३८॥

प्रह्लादो विरोचनो ऽथ बलिर्वाणो ऽथ तत्सुताः ।
एते चान्ये ऽभिषिञ्चन्तु दानवा राक्षसास् तथा ॥०३९॥

हेतिश् चैव प्रहेतिश् च विद्युत्स्फुर्जथुरग्रकाः ।
यक्षः सिद्धार्मकः पातु माणिभद्रश् च नन्दनः ॥०४०॥

पिङ्गाक्षो द्युतिमांश् चैव पुष्पवन्तो जयावहः ।
शङ्खः पद्मश् च मकरः कच्छपश् च निधिर्जये ॥०४१॥

पिशाचा ऊर्ध्वकेशाद्या भूता भूम्यादिवासिनः ।
महाकालं पुरस्कृत्य नरसिंहञ्च मातरः ॥०४२॥

[[२९८]]
विश्वास-प्रस्तुतिः
गुहः स्कन्दो विशाखस्त्वान्नैगमेयो ऽभिषिञ्चतु ।
डाकिन्यो याश् च योगिन्यः खेचरा भूचराश् च याः ॥०४३॥

गरुडश्चारुणः पान्तु सम्पातिप्रमुखाः खगाः ।
अनन्ताद्या महानागाः शेषवासुकितक्षकाः ॥०४४॥

ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।
शङ्खः कर्कोटकश् चैव धृतराष्ट्रो धनञ्जयः ॥०४५॥

कुमुदैर् आवणौ पद्मः पुष्पदन्तो ऽथ वामनः ।
सुप्रतीको ऽञ्जनो नागाः पान्तु त्वां सर्वतः सदा ॥०४६॥

पैतामहस् तथा हंसो वृषभः शङ्करस्य च ।
दुर्गासिंहश् च पान्तु त्वां यमस्य महिषस् तथा ॥०४७॥

उच्चैःश्रवाश्चाश्वपतिस् तथा धन्वन्तरिः सदा ।
कौस्तुभः शङ्कराजश् च वज्रं शूलञ्च चक्रकं ॥०४८॥

नन्दको ऽस्त्राणि रक्षन्तु धर्मश् च व्यवसायकः ।
चित्रगुप्तश् च दण्डश् च पिङ्गलो मृत्युकालकौ ॥०४९॥

बालखिल्यादिमुनयो व्यासवाल्मीकिमुख्यकाः ।
पृथुर्दिलीपो भरतो दुष्यन्तः शक्रजिद्वली1 ॥०५०॥

मल्लः ककुत्स्थश्चानेन युवनाश्वो जयद्रथः ।
मान्धाता मुचुकुन्दश् च पान्तु त्वाञ्च पुरूरवाः ॥०५१॥

वास्तुदेवाः पञ्चविंशत्तत्त्वानि विजयाय ते ।
रुक्मभौमः शिलाभौमः पतालो नीलमूर्तिकः2 ॥०५२॥

[[२९९]]
विश्वास-प्रस्तुतिः
पीतरक्तः क्षितिश् चैव श्वेतभौमो रसातलं ।
भूल्लोको ऽथ भुवर्मुख्या जम्वूद्वीपादयः श्रिये ॥०५३॥

उत्तराः कुरवः पान्तु रम्या हिरण्यकस् तथा1 ।
भद्राश्वः केतुमालश् च वर्षश् चैव वलाहकः ॥०५४॥

हरिवर्षः किम्पुरुष इन्द्रद्वीपः कशेरुमान् ।
ताम्रवर्णो गभस्तिमान् नागद्वीपश् च सौम्यकः ॥०५५॥

गन्धर्वो वरुणो यश् च नवमः पान्तु राज्यदाः ।
हिमवान् हेमकूटश् च निषधो नील एव च ॥०५६॥

श्वेतश् च शृङवान् मेरुर्माल्यवान् गन्धमादनः ।
महेन्द्रो मलयः सह्यः शक्तिमानृक्षवान् गिरिः ॥०५७॥

विन्ध्यश् च पारिपात्रश् च गिरयः शान्तिदास्तु ते ।
ऋग्वेदाद्याः षडङ्गानि इतिहासपुराणकं ॥०५८॥

आयुर्वेदश् च गन्धर्वधनुर्वेदोपवेदकाः ।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ॥०५९॥

छन्दोगानि च वेदाश् च मीमांसा न्यायविस्तरः ।
धर्मशास्त्रं पुराणञ्च विद्या ह्य् एताश् चतुर्दश ॥०६०॥

साङ्ख्यं योगः पाशुपतं वेदा वै पञ्चरात्रकं ।
कृतान्तपञ्चकं ह्य् एतद् गायत्री च शिवा तथा ॥०६१॥

दुर्गा विद्या च गान्धारी पान्तु त्वां शान्तिदाश् च ते ।
लवणेक्षुसुरासर्पिदधिदुग्धजलाब्धयः ॥०६२॥

[[३००]]
विश्वास-प्रस्तुतिः
पुष्करश् च प्रयागश् च प्रभासो नैमिषः परः ॥०६३॥

गयाशीर्षो ब्रह्मशिरस्तीर्थमुत्त्रमानसं ।
कालोदको नन्दिकुण्डस्तीर्थं पञ्चनदस् तथा ॥०६४॥

भृगुतीर्थं प्रभासञ्च तथा चामरकण्टकं ।
जम्बुमार्गश् च विमलः कपिलस्य तथाश्रमः ॥०६५॥

गङ्गाद्वारकुशावर्तौ विन्ध्यको नीलपर्वतः ।
वराहपर्वतश् चैव तीर्थङ्कणखलं तथा ॥०६६॥

कालञ्जरश् च केदारो रुद्रकोटिस्तथैव च ।
वाराणसी महातीर्थं वदर्याश्रम एव च ॥०६७॥
मूलम्
कालञ्जरश् च केदारो रुद्रकोटिस्तथैव च ।
वाराणसी महातीर्थं वदर्याश्रम एव च ॥०६७॥
विश्वास-प्रस्तुतिः
द्वारका श्रीगिरिस्तीर्थं तीर्थञ्च पुरुषोत्तमः ।
शालग्रामोथ वाराहः सिन्धुसागरसङ्गमः ॥०६८॥

फल्गुतीर्थं विन्दुसरः करवीराश्रमस् तथा ।
नद्यो गङ्गासरस्वत्यः शतदुर्गण्डकी तथा ॥०६९॥

अच्छोदा च विपाशा च वितस्ता देविका नदी ।
कावेरी वरुणा चैव निश् चरा गोमती नदी ॥०७०॥

पारा चर्मण्वती रूपा मन्दाकिनी महानदी ।
तापी पयोष्णी वेणा च गौरी वैतरणी तथा ॥०७१॥

गोदावरी भीमरथी तुङ्गभद्रा प्रणी तथा ।
चन्द्रभागा शिवा गौरी अभिषिञ्चन्तु पान्तु वः1 ॥०७२॥

{इत्य् आग्नेये महापुराणे अभिषेकमन्त्रा नामोनविंशत्यधिकद्विशततमो ऽध्यायः ॥ }
:न्
१ अभिषिञ्चन्तु पान्त चेति ख॥ , ग॥ , घ॥ , ङ॥ , छ॥ , ज॥ , ञ॥ , ट॥
च
[[३०१]]