{अथाष्टादशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
राजाभिषेककथनं
अग्निर् उवाच
पुष्करेण च रामाय राजधर्मं हि पृच्छते ।
यथादौ कथितं तद्वद्वशिष्ट कथयामि ते ॥००१॥
मूलम्

पुष्कर उवाच
राजधर्मं प्रवक्ष्यामि सर्वस्मात् राजधर्मतः ।
राजा भवेत्1 शत्रुहन्ता प्रजापालः सुदण्डवान् ॥००२॥

पालयिष्यति वः सर्वान् धर्मस्थान् व्रतमाचरेत् ।
संवत्सरं स वृणुयात् पुरोहितमथ द्विजं2 ॥००३॥

मन्त्रिणश्चाखिलात्मज्ञान्महिषीं धर्मलक्षणां ।
संवत्सरं नृपः काले ससम्भारो ऽभिषेचनं ॥००४॥

कुर्यान्मृते नृपे नात्र कालस्य नियमः स्मृतः ।
तिलैः सिद्धार्थकैः स्नानं सांवत्सरपुरोहितौ ॥००५॥

घोषयित्वा जयं राज्ञो राजा भद्रासने स्थितः ।
अभयं घोषयेद् दुर्गान्मोचयेद्राज्यपालके ॥००६॥

पुरोधसाभिषेकात् प्राक् कार्यैन्द्री शान्तिरेव च ।
उपवास्यभिषेकाहे वेद्यग्नौ जुहुयान्मनून्3 ॥००७॥

:न्
[[२९१]]
विश्वास-प्रस्तुतिः
वैष्णवानैन्द्रमन्त्रांस्तु सावित्रीन् वैश्वदैवतान् ।
सौम्यान् स्वस्त्ययनं शर्मायुष्याभयदान्मनून् ॥००८॥

अपराजिताञ्च कलसं वह्नेर्दक्षिणपार्श्वगं ।
सम्पातवन्तं हैमञ्च पूजयेद्गन्धपुष्पकैः ॥००९॥

प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ।
रथौघमेघनिर्घोषो विधूमश् च हुताशनः ॥०१०॥
मूलम्
प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ।
रथौघमेघनिर्घोषो विधूमश् च हुताशनः ॥०१०॥
विश्वास-प्रस्तुतिः
अनुलोमः सुगन्धश् च स्वस्तिकाकारसन्निभः ।
प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः ॥०११॥

न व्रजेयुश् च मध्येन मार्जारमृगपक्षिणः ।
पर्वताग्रमृदा तावन्मूर्धानं शोधयेन्नृपः ॥०१२॥

वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात् ।
इन्द्रालयमृदा1 ग्रीवां हृदयन्तु नृपाजिरात् ॥०१३॥

करिदन्तोद्धृतमृदा दक्षिणन्तु तथा भुजं ।
वृषशृङ्गोद्धृतमृदा वामञ्चैव तथा भुजं ॥०१४॥

सरोमृदा तथा पृष्ठमुदरं सङ्गमान् मृदा ।
नदीतटद्वयमृदा पार्श्वे संशोधयेत्तथा2 ॥०१५॥

वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते ।
यज्ञस्थानात्तथैवोरू गोस्थानाज्जानुनी तथा ॥०१६॥

अश्वस्थानात्तथा जङ्घे रथचक्रमृदाङ्घ्रिके ।
मूर्धानं पञ्चगव्येन भद्रासनगतं नृपं ॥०१७॥

[[२९२]]
विश्वास-प्रस्तुतिः
पूर्वतो हेमकुम्भेन घृतपूर्णेन ब्राहणः ॥०१८॥

रूप्यकुम्भेन याम्ये च क्षीरपूर्णेन क्षत्रियः ।
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमगेन च ॥०१९॥

मृण्मयेन जलेनोदक् शूद्रामात्यो ऽभिषिचयेत् ।
ततो ऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः ॥०२०॥

कुर्वीत मधुना विप्रश्छन्दोगश् च कुशोदकैः ।
सम्पातवन्तं कलशं तथा गत्वा पुरोहितः ॥०२१॥

विधाय वह्निरक्षान्तु सदस्येषु यथाविधि ।
राजश्रियाभिषेके च ये मन्त्राः परिकीर्तिताः ॥०२२॥

तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनैस् तथा ।
ततः पुरोहितो गच्छेद्वेदिमूलन्तदेव तु1 ॥०२३॥

शतच्छिद्रेण पात्रेण सौवर्णेनाभिषेचयेत् ।
या ओषधीत्योषधीभीरथेत्युक्त्वेति गन्धकैः ॥०२४॥

पुष्पैः पुष्पवतीत्येव ब्राह्मणेति च वीजकैः2 ।
रत्नैर् आशुः शिशानश् च ये देवाश् च कुशोदकैः ॥०२५॥

यजुर्वेद्यथर्ववेदी3 गन्धद्वारेति संस्पृशेत् ।
शिरः कण्ठं रोचनया सर्वतीर्थोदकैर् द्विजाः ॥०२६॥

गीतवाद्यादिनिर्घोषैश्चामरव्यजनादिभिः ।
सर्वौषधिमयं कुम्भं धारयेयुर्नृपाग्रतः ॥०२७॥

तं पश्येद्दर्पणं राजा घृतं वै मङ्गलादिकं ।
अभ्यर्च्य विष्णुं ब्रह्माणमिन्द्रादींश् च ग्रहेश्वरान्4 ॥०२८॥

[[२९३]]
विश्वास-प्रस्तुतिः
व्याघ्रचर्मोत्तरां शय्यामुपविष्टः पुरोहितः ।
मधुपर्कादिकं दत्त्वा पट्टबन्धं प्रकारयेत् ॥०२९॥

राज्ञोमुकुटबन्धञ्च पञ्चचर्मोत्तरं ददेत् ।
ध्रुवाद्यैर् इति च विशेद् वृषजं वृषदंशजं ॥०३०॥

द्वीपिजं सिंहजं व्याघ्रजातञ्चर्म तदासने ।
अमात्यसचिवादींश् च प्रतीहारः प्रदर्शयेत् ॥०३१॥

गोजाविगृहदानाद्यैः सांवत्सरपुरोहितौ ।
पूजयित्वा द्विजान् प्रार्च्य ह्य् अन्यभूगोन्नमुख्यकैः ॥०३२॥

वह्निं प्रदक्षिणीकृत्य गुरुं नत्वाथ पृष्ठतः ।
वृषमालभ्य गां वत्सां पूजयित्वाथ मन्त्रितं ॥०३३॥

अश्वमारुह्य नागञ्च पूजयेत्तं समारुहेत् ।
परिभ्रमेद्राजमार्गे बलयुक्तः प्रदक्षिणं ॥०३४॥

पुरं विशेच्च दानाद्यैः प्रार्च्य सर्वान् विसर्जयेत् ॥३५॥

{इत्य् आग्नेये महापुराणे राजाभिषेको नाम अष्टादशाधिकद्विशततमो ऽध्यायः ॥ }