{अथ सप्तदशाधिकद्विशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गायत्रीनिर्वाणं
अग्निर् उवाच
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं1 परमं ब्रह्म वसिष्ठो ऽन्यश् च शङ्करात्2 ॥००१॥
मूलम्
गायत्रीनिर्वाणं
अग्निर् उवाच
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं1 परमं ब्रह्म वसिष्ठो ऽन्यश् च शङ्करात्2 ॥००१॥
विश्वास-प्रस्तुतिः
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥००३॥
मूलम्
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥००३॥
विश्वास-प्रस्तुतिः
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥००४॥
मूलम्
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥००४॥
विश्वास-प्रस्तुतिः
नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥००५॥
मूलम्
नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥००५॥
विश्वास-प्रस्तुतिः
नमो ऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥००६॥
मूलम्
नमो ऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥००६॥
:न्
[[२८९]]
विश्वास-प्रस्तुतिः
नम्स्तेभवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमो ऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥००८॥
मूलम्
नम्स्तेभवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमो ऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥००८॥
विश्वास-प्रस्तुतिः
नमो वायूर्ध्वलिङ्गाय3 श्रुतिलिङ्गाय वै नमः ।
नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय4 वै नमः ॥००९॥
विश्वास-प्रस्तुतिः
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने5 ॥०१०॥
मूलम्
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने5 ॥०१०॥
विश्वास-प्रस्तुतिः
दिश नः परमं योगमपत्यं मत्समन्तथा ।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो6 ॥०११॥
मूलम्
दिश नः परमं योगमपत्यं मत्समन्तथा ।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो6 ॥०११॥
विश्वास-प्रस्तुतिः
अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।
अग्निर् उवाच
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥०१२॥
मूलम्
अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।
अग्निर् उवाच
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥०१२॥
विश्वास-प्रस्तुतिः
वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥१३॥
मूलम्
वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥१३॥
{इत्य् आग्नेये महापुराणे गायत्रीनिर्वाणं नाम सप्तदशाधिकद्विशततमो ऽध्यायः ॥ }
:न्
[[२९०]]