२१७ गायत्रीनिर्वाणं

{अथ सप्तदशाधिकद्विशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

गायत्रीनिर्वाणं

अग्निर् उवाच
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं1 परमं ब्रह्म वसिष्ठो ऽन्यश् च शङ्करात्2 ॥००१॥

मूलम्

गायत्रीनिर्वाणं

अग्निर् उवाच
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं1 परमं ब्रह्म वसिष्ठो ऽन्यश् च शङ्करात्2 ॥००१॥

विश्वास-प्रस्तुतिः

नमः कनकलिङ्गाय3 वेदलिङ्गाय वै नमः ।
नमः परमलिङ्गाय4 व्योमलिङ्गाय वै नमः ॥००२॥

मूलम्

नमः कनकलिङ्गाय3 वेदलिङ्गाय वै नमः ।
नमः परमलिङ्गाय4 व्योमलिङ्गाय वै नमः ॥००२॥

विश्वास-प्रस्तुतिः

नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥००३॥

मूलम्

नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥००३॥

विश्वास-प्रस्तुतिः

नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥००४॥

मूलम्

नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥००४॥

विश्वास-प्रस्तुतिः

नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥००५॥

मूलम्

नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥००५॥

विश्वास-प्रस्तुतिः

नमो ऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥००६॥

मूलम्

नमो ऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥००६॥

नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।

:न्

[[२८९]]

विश्वास-प्रस्तुतिः

नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय1 वै नमः2 ॥००७॥

मूलम्

नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय1 वै नमः2 ॥००७॥

विश्वास-प्रस्तुतिः

नम्स्तेभवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमो ऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥००८॥

मूलम्

नम्स्तेभवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमो ऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥००८॥

विश्वास-प्रस्तुतिः

नमो वायूर्ध्वलिङ्गाय3 श्रुतिलिङ्गाय वै नमः ।
नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय4 वै नमः ॥००९॥

मूलम्

नमो वायूर्ध्वलिङ्गाय3 श्रुतिलिङ्गाय वै नमः ।
नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय4 वै नमः ॥००९॥

विश्वास-प्रस्तुतिः

नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने5 ॥०१०॥

मूलम्

नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने5 ॥०१०॥

विश्वास-प्रस्तुतिः

दिश नः परमं योगमपत्यं मत्समन्तथा ।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो6 ॥०११॥

मूलम्

दिश नः परमं योगमपत्यं मत्समन्तथा ।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो6 ॥०११॥

विश्वास-प्रस्तुतिः

अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।

अग्निर् उवाच
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥०१२॥

मूलम्

अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।

अग्निर् उवाच
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥०१२॥

विश्वास-प्रस्तुतिः

वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥१३॥

मूलम्

वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥१३॥

{इत्य् आग्नेये महापुराणे गायत्रीनिर्वाणं नाम सप्तदशाधिकद्विशततमो ऽध्यायः ॥ }

:न्

[[२९०]]


  1. निर्मलमिति ख॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. वशिष्तोप्येव शङ्करादिति ख॥ , घ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. कमललिङ्गायेति ट॥ ↩︎ ↩︎ ↩︎ ↩︎

  4. नमः पवनलिङ्गायेति ख॥ , ग॥ , घ॥ , ङ॥ , ट॥ च ↩︎ ↩︎ ↩︎ ↩︎

  5. नमो ऽनागतलिङ्गायेत्यादिः देवानुगतलिङ्गिने इत्य् अन्तः
    पाठः ज॥ पुस्तके नास्ति ↩︎ ↩︎

  6. परमात्मा परंविभो इति ज॥ ↩︎ ↩︎